________________
४७६
सिद्धान्तकौमुद्याम् । उञ्छे । ८३ मिल श्लेषणे । ८४ लिख अक्षरविन्यासे। ८५ कुट कौटिल्ये । ८६ पुट संश्लेषणे । ८७ कुच संकोचने । ८८ गुज शब्दे । ८९ गुड रक्षायाम् । ९० डिप क्षेपे । ९१ छुर छेदने । ९२ स्फुट विकसने । ९३ मुट आक्षेपमर्दनयोः । ९४ त्रुट छेदने । ९५ तुट कलहकर्मणि । ९६ चुट ९७ छुट छेदने । ९८ जुड बन्धने । ९९ कड मदे। १०० लुट संश्लेषणे । १०१ कृड घनत्वे । १०२ कुड बाल्ये । १०३ पुड उत्सर्गे । १०४ घुट प्रतिघाते । १०५ तुड तोडने । १०६ थुड १०७ स्थुड संवरणे । खुड छुड इत्येके ॥ १०८ स्फुर १०९ फुल संचलने ॥ स्फुर स्फुरणे । स्फुल संचलने इत्येके । स्फर इत्यन्ये ॥ ११० स्फुड १११ चुड ११२ ब्रुड संवरणे ॥ ११३ क्रुड ११४ भृड निमज्जने इत्येके ॥ व्रश्वादय उदात्ता उदात्तेतः परस्मैभाषाः॥ ११५ गुरी उद्यमने ॥ उदात्तोऽनुदात्तेदात्मनेपदी ॥ ११६ णू स्तवने । ११७ धू विधूनने ॥ उदात्तौ परस्मैभाषौ ॥ ११८ गु पुरीषोत्सर्गे । ११९ ६ गतिस्थैर्ययोः ॥ध्रुव इत्येके ॥ अनुदात्तौ परस्मैपदिनौ ॥ १२० कुङ् शब्दे ॥ उदात्त आत्मनेपदी ॥ दीर्घान्त इति कैयटादयः । हखान्त इति न्यासः ॥ वृत् ॥ १२१ पृङ् व्यायामे । १२२ मृङ् प्राणत्यागे ॥ अनुदात्तावात्मने भाषौ ॥ १२३ रि १२४ पि गतौ । १२५ धि धारणे । १२६ क्षि निवासगत्योः ॥ रियत्यादयोऽनुदात्ताः परस्मैभाषाः ॥ १२७ पू प्रेरणे । १२८ कृ विक्षेपे । १२९ गृ निगरणे ॥उदात्ताः परस्मैभाषाः ॥ १३० दृङ् आदरे । १३१ धृङ् अवस्थाने । अनुदात्तावात्मनेभाषौ॥ १३२ प्रच्छ ज्ञीप्सायाम् ॥ वृत् ॥ १३३ सृज विसर्गे । १३४ टुमस्जो शुद्धौ । १३५ रुजो भङ्गे । १३६ भुजो कौटिल्ये । १३७ छुप स्पर्शे । १३८ रुश १३९ रिश हिंसायाम् । १४० लिश गतौ। १४१ स्पृश संस्पर्शने । १४२ विच्छ गतौ । १४३ विश प्रवेशने । १४४ मृश आमर्शने । १४५ णुद प्रेरणे। १४६ षद विशरणगत्यवसादनेषु । १४७ शब्द शातने ॥ पृच्छत्यादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः। विच्छस्तृदात्तः ॥ १४८ मिल संगमे ॥ उदात्तः स्वरितेदुभयतोभाषः ॥ १४९ मुच्ल मोक्षणे । १५० लुप्ल छेदने । १५१ विद्द लाभे । १५२ लिप उपदेहे । १५३ षिच क्षरणे ॥ मुचादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः। विन्दतिस्तूदात्तः ॥ १५४ कृती छेदने ॥ उदात्त उदात्तत्परस्मैपदी ॥ १५५ खिद परिघाते ॥ अनुदात्त उदात्तत्परस्मैपदी ॥ १५६ पिश अवयवे ॥ उदात्त उदात्तत्परस्मैपदी ॥ वृत् ॥
इति शविकरणास्तुदादयः॥ ६॥
१ रुधिर् आवरणे । २ भिदिर विदारणे । ३ छिदिर द्वैधीकरणे । ४ रिचिर विरेचने । ५ विचिर पृथग्भावे । ६ क्षुदिर संपेषणे । ७ युजिर् योगे ॥ रुधादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः॥ ८ उच्छृदिर दीप्तिदेवनयोः । ९ उतृदिर हिंसानादरयोः ॥