________________
४४
सिद्धान्तकौमुद्याम् द्विपदा ऋक् । एकपदा ॥ न षट्खस्रादिभ्यः ॥ पञ्च । चतस्रः । पञ्चेत्यत्र नलोपे कृतेऽपि ष्णान्ता षडिति षट्संज्ञां प्रति नलोपः सुपखरेति नलोपस्यासिद्धत्वान्न षट्खस्रादिभ्य इति न टाप् ॥ मनः।४।१।११॥ मन्नन्तान्न ङीप् । सीमा । सीमानौ ॥ अनो बहुव्रीहे।४।१। १२॥ अन्नन्ताबहुव्रीहेर्न ङीप् । बहुयज्वा बहुयज्वानौ ॥ डाबुभाभ्यामन्यतरस्याम् ।४।१।१३ ॥ सूत्रद्वयोपात्ताभ्यां डाब् वा स्यात् । सीमा। सीमे । सीमानौ । दामा । दामे । दामानौ । न पुंसि दामेत्यमरः । बहुयज्वा । बहुयज्वे । बहुयज्वानौ । अन उपधालोपिनोऽन्यतरस्याम् ।४।१।२८ ॥ अन्नन्ताद्बहुव्रीहेरुपधालोपिनो वा ङीप् स्यात् । पक्षे डानिषेधौ । बहुराज्ञी । बहुराज्यौ । बहुराजे । बहुराजानौ ॥ प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः ७२४४ ॥ प्रत्ययस्थात्ककारात्पूर्वस्याऽकारस्येकारः स्यादापि परे स आप् सुपः परो न चेत् । सर्विका । कारिका । अतः किम् । नौका । प्रत्ययस्थात्किम् । शक्नोतीति शका । असुपः किम् । बहुपरिव्राजका नगरी । कात्किम् । नन्दना । पूर्वस्य किम् । परस्य मा भूत् । कटुका । तपरः किम् । राका । आपि किम् । कारकः॥ मामकनरकयोरुपसंख्यानम् * ॥ मामिका । नरान् कायतीति नरिंका ॥ त्यक्त्यपोश्च * ॥ दाक्षिणात्यिका ॥ इहत्यिका ॥ न यासयोः ।।४५ ॥ यत्तदोरस्येन्न स्यात् । यका सका। यकाम् तकाम् ॥ त्यकनश्च निषेधः ॥ अधित्यका उपत्यका ॥ आशिषि वुनश्च न * ॥ जीवका। भवका ॥ उत्तरपदलोपे न * ॥ देवदत्तिका । देवका ॥ क्षिपकादीनां च * ॥ क्षिपका । ध्रुवका । कन्यका । चटका ॥ तारका ज्योतिषि * ॥ अन्यत्र तारिका ॥ वर्णका तान्तवे * ॥ अन्यत्र वर्णिका ॥ वर्तका शकुनौ प्राचाम् * ॥ उदीचां तु वर्तिका ॥ अष्टका पितृदेवत्ये * ॥ अष्टिकान्या । सूतकापुत्रिकावृन्दारकाणां वेति वक्तव्यम् * ॥ इह वा अ इति च्छेदः । कात्पूर्वस्याकारादेशो वेत्यर्थः । तेन पुत्रिकाशब्दे ङीन ईवर्णस्य पक्षेऽकारः । अन्यत्रेत्त्वबाधनार्थमकारस्यैव पक्षेऽकारः । सूतका सूतिकेत्यादि ॥ उदीचामातः स्थाने यकपूर्वायाः।७३।४६ ॥ यकपूर्वस्य स्त्रीप्रत्ययाकारस्य स्थाने योऽकारस्तस्य कात्पूर्वस्येद्वा स्यादापि परे । केऽण इति हूखः । आर्यका । आर्यिका । चटकका । चटकिका । आतः किम् । सांकाश्ये भवा सांकाश्यिका । यकेति किम् । अश्विका । स्त्रीप्रत्ययेति किम् । शुभं यातीति शुभंया अज्ञाता शुभंयाः शुभंयिका ॥ धात्वन्तयकोस्तु नित्यम् * ॥ सुनयिका सुपाकिका ॥ भस्त्रैषाजाज्ञाद्वावानपूर्वाणामपि ।७।३।४७ ॥ खेत्यन्तं लुप्तषष्ठीकं पदम् । एषामत इद्वा स्यात् । तदन्तविधिनैव सिद्धे नञ्पूर्वाणामपीति स्पष्टार्थम् । भस्त्राग्रहणमुपसर्जनार्थम् । अन्यस्य तूत्तरसूत्रेण सिद्धम् । एषा द्वा एतयोस्तु सपूर्वयोर्नेत्त्वम् । अन्तर्वर्तिनी विभक्तिमाश्रित्याऽसुप इति प्रतिषेधात् । अनेषका । परमेषका । अद्वके । परमद्वके । स्वशब्दग्रहणं संज्ञोपसर्ननार्थम् । इह
१ क्षिपका, ध्रुवका, चरका, सेवका, करका, चटका, अवका, लहका, अलका, कन्यका, एडका । एते क्षिपकादयः । आकृतिगणोऽयम् ।