________________
स्त्रीप्रत्ययाः ।
४३
अव्ययीभावश्च।१।१॥४१॥ अधिहरि ॥ अव्ययादापसुपः।२।४।८२ ॥ अव्ययाद्विहितस्यापः सुपश्च लुक् स्यात् । तत्र शालायाम् । विहितविशेषणान्नेह । अत्युच्चैसौ। अव्ययसंज्ञायां यद्यपि तदन्तविधिरस्ति तथापि न गौणे । आग्रहणं व्यर्थमलिङ्गत्वात् ॥ सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ इति श्रुतिलिङ्गकारकसंख्याऽभावपरा ॥ वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥ वगाहः । अवगाहः । पिधानम् । अपिधानम् ॥ ॥ इत्यव्ययानि ॥
स्त्रियाम् ।४।१॥३॥ अधिकारोऽयम् । समर्थानामिति यावत् ॥ अंजाद्यतष्टाप् ।४।१।४ ॥ अजादीनामकारान्तस्य च वाच्यं यत् स्त्रीत्वं तत्र द्योत्ये टाप् स्यात् । अजाधुक्तिींपो ङीपश्च बाधनाय । अजा । अतः । खटा । अजादिभिः स्त्रीत्वस्य विशेषणान्नेह । पञ्चाजी । अत्र हि समासार्थसमाहारनिष्ठं स्त्रीत्वम् । अजा । एडका । अश्वा । चटका । मूषिका । एषु जातिलक्षणो ङीष् प्राप्तः । बाला । वत्सा । होडा । मन्दा । विलाता । एषु वयसि प्रथम इति ङीप् प्राप्तः ॥ संभस्त्राजिनशणपिण्डेभ्यः फलात् * ॥ संफला । भस्त्रफला । ड्यापोरिति हवः ॥ सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात् * ॥ सत्पुष्पा । प्राक्पुष्पा । प्रत्यक्पुष्पा। शूद्रा चामहत्पूर्वा जातिः * ॥ पुंयोगे तु शूद्री । अमहत्पूर्वा किम् । महाशूद्री । क्रुञ्चा । उष्णिहा । देवविशा । ज्येष्ठा । कनिष्ठा । मध्यमेति पुंयोगेऽपि । कोकिला जातावपि ॥ मूलान्नञः * ॥ अमूला । ऋन्नेभ्यो ङीप् ॥ कीं । दण्डिनी ॥ उगितश्च ।४।१॥६॥ उगिदन्तात्प्रातिपदिकात् स्त्रियां ङीप् स्यात् । पचन्ती । भवन्ती । दीव्यन्ती । शपश्यनोरिति नुम् । उगिदचामिति सूत्रेऽग्रहणेन धातोश्चेदुगित्कार्य तबञ्चतेरेवेति नियम्यते । तेनेह न । उखासत् । क्विप् । अनिदितामिति नलोपः । पर्णध्वत् । अञ्चतेस्तु स्यादेव । प्राची। प्रतीची ॥ वनो र च ।४।११७ ॥ वन्नन्तात्तदन्ताच्च प्रातिपदिकात् स्त्रियां ङीप् स्यात् रश्चान्तादेशः । वन्निति निपक्वनिप्वनिपां सामान्यग्रहणम् । प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् । तेन प्रातिपदिकविशेषणात्तदन्तान्तमपि लभ्यते । सुत्वानमतिक्रान्ता अतिसुत्वरी । अतिधीवरी । शर्वरी ॥ वनो न हश इति वक्तव्यम् * ॥ हशन्ताद्धातोर्विहितो यो वन् तदन्तात्तदन्तान्ताच्च प्रातिपदिकात् ङीप् रश्च नेत्यर्थः । ओण अपनयने, वनिप् । विड्वनोरित्यात्वम् । अवावा ब्राह्मणी । राजयुध्वा ॥ बहुव्रीहौ वा * ॥ बहुधीवरी । बहुधीवा । पक्षे डाप् वक्ष्यते ॥ पादोऽन्यतरस्याम् ।४।११८॥ पाच्छब्दः कृतसमासान्तस्तदन्तात्प्रातिपदिकात् ङीब्वा स्यात् । द्विपदी । द्विपात् ॥ टाबृचि ।४।११९॥ ऋचि वाच्यायां पादन्ताट्टाप् स्यात् ।
१ अज, एडक, अश्व, चटक, मूषक, बाल, वत्स, होड, पाक, मन्द, विलात, पूर्वापहाण, उत्तरापहाण, क्रुञ्चा, उष्णिहा, देवविशा, ज्येष्ठा, कनिष्ठा, मध्यमेति पुंयोगेऽपि । कोकिला जातौ । दंष्ट्र, एतेऽजादयः ॥ आकृतिगणोऽयम् ॥ २ संभस्त्रा, सदच, मूलादिति वार्तिकत्रयं ङीष्प्रतिषेधार्थ पाककर्णेति सूत्रे पठितमपि फले विशेषाभावादत्रैव निर्दिष्टमतो गणसूत्राणीमानीति न भ्रमितव्यम् । एवमेव श्वेताच, त्रेश्चेत्यपि वार्ति मत्र ज्ञेयम् । तेन श्वेतफला त्रिफलेत्यपि सिध्यतीति बोध्यम् ।