________________
४२
सिद्धान्तकौमुद्याम् खभ्याम् । खद्भिः । अर्तिपृवपीत्यादिना धनेरुस् । रुत्वम् । धनुः । धनुषी । सान्तेति दीर्घः । नुविसर्जनीयेति षत्वम् । धनूंषि । धनुषा । धनुर्ध्याम् । एवं चक्षुर्हविरादयः । पिपठिषतेः किम् । र्वोरिति दीर्घः पिपठीः । पिपठिषी । अल्लोपस्य स्थानिवत्त्वाज्झलन्तलक्षणो नुम् न । खविधौ स्थानिवत्त्वाभावादजन्तलक्षणोऽपि नुम् न । पिपठिषि । पिपठीामित्यादि । पयः । पयसी। पयांसि । पयसा । पयोभ्यामित्यादि । सुपुम् । सुपुंसी । सुपुमांसि । अदः । विभक्तिकार्यम् । उत्वमत्वे । अमू । अमूनि । शेषं पुंवत् ॥
॥इति हलन्ता नपुंसकलिङ्गाः॥ खरादिनिपातमव्ययम् ।१।१॥३७॥ स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः । स्वर, अन्तर्, प्रातर्, पुनर्, सनुतर, उच्चैस्, नीचैस्, शनैस्, ऋधक्, ऋते, युगपत् , आरात् , पृथक्, ह्यस् , श्वस् , दिवा, रात्रौ, सायम् , चिरम् , मनाक् , ईषत् , जोषम् , तूष्णीम् , बहिस् , अवस् , समया, निकषा, खयम् , वृथा, नक्तम् , नञ् , हेतौ, इद्धा, अद्धा, सामि, वत्, "ब्राह्मणवत्, क्षत्रियवत्," सना, सनत् , सनात् , उपधा, तिरस् , अन्तरा, अन्तरेण, ज्योक्, कम्, शम् , सहसा, विना, नाना, खस्ति, खधा, अलम् , वषट् , श्रौषट् , वौषट्, अन्यत् , अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मृषा, मिथ्या, मुधा, पुरा, मिथो, मिथस्, प्रायस, मुहुस्, प्रवाहुकम् , प्रवाहिका, आर्यहलम् , अभीक्ष्णम् , साकम् , सार्धम् , नमस् , हिरुक् , धिक्, अम् , आम् , प्रताम् , प्रशान् , प्रतान् , मा, माङ् । आकृतिगणोऽयम् ॥ च, वा, ह, अह, एव, एवम् , नूनम् , शश्वत् , युगपत् , भूयस् , कूपत् , सूपत् , कुवित् , नेत् , चेत् , चण्, कच्चित् , किंचित् , यत्र, नह, हन्त, माकिः, माकीम् , नकिः, नकिम् , माङ, नञ् , यावत् , तावत् , त्वै, द्वै, न्वै, रै, श्रौषट् , वौषट् , स्वाहा, स्वधा, तुम् , तथाहि, खल, किल, अथो, अथ, सुष्छु, स्म, आदह, उपसर्गविभक्तिखरप्रतिरूपकाश्च । “अवदत्तम् , अहंयुः, अस्तिक्षीरा, अ, आ, इ, ई, उ, ऊ, ए, ऐ, ओ, औ" पशु, शुकम् , यथाकथाच, पाट् , प्याट् , अङ्ग, है, हे, भोः, अये, घ, . विषु, एकपदे, युत्, आतः । चादिरप्याकृतिगणः ॥ तद्धितश्वासर्वविभक्तिः ।।१। ३८॥ यस्मात्सर्वा विभक्तिर्नोत्पद्यते स तद्धितान्तोऽव्ययं स्यात् । परिगणनं कर्तव्यम् । तसिलादयः प्राक् पाशपः । शस्प्रभृतयः प्राक् समासान्तेभ्यः । अम् । आम् । कृत्वोऽर्थाः । तसिवती । नानासाविति । तेनेह न । पचतिकल्पम् । पचतिरूपम् ॥ कृन्मेजन्तः ।।१। ३९॥ कृयो मान्त एजन्तश्च तदन्तमव्ययं स्यात् । स्मारस्मारम् । जीवसे । पिबध्यै ॥ क्त्वातोऽसुनकसुनः ।।१।४०॥ एतदन्तमव्ययं स्यात् । कृत्वा । उदेतोः विसृपः ॥
१ कामम् , प्रकामम् , भूयस् , सांप्रतम् , परमम् , साक्षात् , साचि, सत्यम् , मच,आक्षु, संवद् , अवश्यम् , सपदि, बलवत्, प्रादुस् , आविस् , अनिशम् , नित्यम् , नित्यदा सदा, अजस्रम् , उषा, रोदसी, ओम् , भूः, भुवः, झटिति, झगिति, तरसा, सुष्टु, दुष्ट, सु, अद्, कु, अजसा, मिथु, भाजक्, चिराय, चिररात्राय, चिरस्य, चिरम, चिरेण, चिरात् , अस्तम् , आनुषक, अन्नस् , स्थाने, वरम् , सुदि, वदि, यत्तत् , आहोखित् , सीम् , कम् , शुकम्, अनुकम्, शंबट, व, दिष्ट्या, चटु, चाटु, हुम् , इव, अद्यत्वे । इत्यादि ।