________________
हलन्ता नपुंसकलिङ्गाः । कुत्वापवादः । स्रग्ऋत्विक्शब्दयोस्तु निपातनादेव कुत्वम् । असृक्शब्दस्तु अस्यतेरोणा: दिके ऋच्प्रत्यये बोध्यः । असृक् । असृग् । असृजी । असृञ्जि । पद्दन्न इति वा असन् । असानि । असृजा । अस्ना । असृग्भ्याम् । असभ्यामित्यादि । अझ् । ऊर्ग । ऊर्जी । ऊर्जि । नरजानां संयोगः ॥ बहूर्जि नुम्प्रतिषेधः * ॥ अन्त्यात्पूर्वो वा नुम् * ॥ बहूर्जि । बहूजि वा कुलानि । त्यत् । त्यद् । त्ये । त्यानि । तत् । तद् । ते । तानि । यत् । यद् । ये । यानि । एतत् । एतद् । एते । एतानि । अन्वादेशे तु एनत् । बेभिद्यतेः विप् । बेभित् । बेभिद् । बेभिदी। शावल्लोपस्य स्थानिवत्त्वादझलन्तत्वान्न नुम् । अजन्तलक्षणस्तु नुम् न । स्वविधौ स्थानिवत्त्वाभावात् । बेभिदि ब्राह्मगकुलानि । चेच्छिदि ॥ गवाक्शब्दस्य रूपाणि क्लीवेऽर्चागतिभेदतः । असंध्यवपूर्वरूपैर्नवाधिकशतं मतम् ॥ १ ॥ खम्सुप्सु नव षड् भादौ षट्रे स्युस्त्रीणि जश्शसोः । चत्वारि शेषे दशके रूपाणीति विभावय ॥ २ ॥ तथाहि । गामञ्चतीति विग्रहे ऋत्विगादिना क्विन् । गतौ नलोपः । अवङ् स्फोटायनस्येत्यवङ् । गवाक् । गवाग् । सर्वत्र विभाषति प्रकृतिभावे । गोअक् । गोअग् । पूर्वरूपे गोक् । गोग् । पूजायां नस्य कुत्वेन ङः । गवाङ्। गोअङ् । गोऽङ् । अम्यपि एतान्येव नव । औङः शी । भत्वादच इत्यल्लोपः । गोची । पूजायां तु गवाञ्ची । गोअञ्ची । गोऽञ्ची । जश्शसोः शिः । शेः सर्वनामस्थानत्वान्नुम् । गवाञ्चि । गोअञ्चि । गोञ्चि । गतिपूजनयोस्त्रीण्येव । गोचा । गवाञ्चा । गोअञ्चा । गोऽञ्चा । गवाग्भ्याम् । गोअग्भ्याम् । गोऽग्भ्याम् । गवाङ्भ्याम् । गोअङ्भ्याम् । गोऽङ्भ्याम् । इत्यादि ॥ सुपि तु ङान्तानां पक्षे डोः कुगिति कुक् । गवाक्षु । गोअक्षु । गोऽक्षु । गवाक्षु । गोअषु । गोऽषु । गवाक्षु । गोअक्षु । गोक्षु । न चेह चयो द्वितीया इति पक्षे ककारस्य खकारेण षण्णामाधिक्यं शक्यम् । चर्वस्यासिद्धत्वात् । कुपक्षे तु तस्यासिद्धत्वाजश्त्वाभावे पक्षे द्वितीयादेशात्रीणि रूपाणि वर्धन्त एव ॥ उह्यमेषां द्विवचनानुनासिकविकल्पनात् । रूपाण्यश्वाक्षिभूतानि ५२७ भवन्तीति मनीषिभिः ॥ १ ॥ तिर्यक् । तिरश्ची । तिर्यञ्चि । पूजायां तु । तिर्यङ् । तिर्यञ्ची । तिर्यञ्चि । यकृत् । यकृती । यकृन्ति । पद्दन्निति वा यकन् । यकानि । यना । यकृता । शकृत् । शकृती। शकृन्ति । शकानि । शना । शकृता । ददत् । ददती ॥ वा नपुंसकस्य ७११७९ ॥ अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य नुम् वा स्यात्सर्वनामस्थाने परे । ददन्ति । ददति । तुदत् ॥ आच्छीनद्योनुम् ।।१।८० ॥ अवर्णान्तादङ्गात्परो यः शतुरवयवस्तदन्तस्याङ्गस्य नुम् वा स्याच्छीनद्योः परतः । तुदन्ती । तुदती । तुदन्ति । भात् । भान्ती । भाती। भान्ति । पचत् ॥ शपश्यनोर्नित्यम् ७१।८१॥ शपश्यनोरात्परो यः शतुरवयवस्तदन्तस्य नित्यं नुम् स्याच्छीनद्योः परतः । पचन्ती । पचन्ति । दीव्यत् । दीव्यन्ती । दीव्यन्ति । स्वप् । खब् । खपी। नित्यात्परादपि नुमः प्राक् अतृन्निति दीर्घः । प्रतिपदोक्तत्वात् । खाम्पि । निरवकाशत्वं प्रतिपदोक्तमिति पक्षे तु प्रकृते तद्विरहान्नुमेव । खम्पि । खपा ॥ अपो मि ॥