________________
४०
सिद्धान्तकौमुद्यम्
टाप् । दश्चेति मः । इमे । इमाः । इमाम् । इमे । इमाः । अनया ॥ हलि लोपः ॥ आभ्याम् ३ । आभिः । अस्यै । अस्याः । अनयोः २ । आसाम् । अस्याम् । आसु । अन्वादेशे तु । एनाम् । एने । एनाः । एनया । एनयोः २ । ऋत्विगादिना सृजेः क्विन् अमागमश्च निपातितः । स्रक् । स्रग् । स्रजौ । स्रजः । सग्भ्याम् । स्रक्षु । त्यदाद्यत्वं टाप् । स्या । त्ये । त्याः । एवं तद् यद् एतद् । वाक् । वाग् । वाचौ । वाचः । वाग्भ्याम् । वाक्षु । अप्शब्दो नित्यं बहुवचनान्तः । अतृन्निति दीर्घः । आपः । अपः ॥ अपो भि ७१४४८ ॥ अपस्तकारः स्याद्भादौ प्रत्यये परे । अद्भिः । अद्भ्यः २ । अपाम् । अप्सु । दिक् । दिग् । दिशौ । दिशः । दिग्भ्याम् । दिक्षु । त्यदादिष्विति दृशेः किन्विधानादन्यत्रापि कुत्वम् । दृक् । दृग् । दृशौ । दृशः । त्विट् । विड् । त्विषैौ । त्विषः । विड्भ्याम् । विट्सु । त्विट्सु । सह जुषते इति सजूः । सजुषैौ । सजुषः । सजूर्भ्याम् । सजूष्षु । सजूःषु । षत्वस्यासिद्धत्वात् रुत्वम् । आशीः । आशिषौ । आशिषः । आशीर्भ्याम् । असौ । त्यदाद्यत्वं टाप् । औङः शी । उत्वमत्वे । अमू । अमूः । अमूम् । अमू । अमूः । अमुया । अमूभ्याम् । अमूभिः । अमुष्यै । अमूभ्याम् । अमूभ्यः । अमुष्याः २ । अमुयोः २ । अमूषाम् । अमुष्याम् । अमूषु ॥ ॥ इति हलन्ताः स्त्रीलिङ्गाः ॥
1
1
स्वमोर्लुक् । दत्वम् । खनडुत् । खनडुद् । खनडुही । चतुरनडुहोरियाम् । खनड्डांहि । पुनस्तद्वत् । शेषं पुंवत् ॥ दिव उत् ॥ अहर्विमलद्यु । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पूर्वपदस्येवोत्तरखण्डस्यापि पदसंज्ञायां प्राप्तायाम् ॥ उत्तरपदत्वे चापदादि - विधौ प्रतिषेधः * ॥ इति प्रत्ययलक्षणं न । विमलदिवी । विमलदिवि । अपदादिविधौ किम् । दधिसेचौ । इह षत्वनिषेधे कर्तव्ये पदत्वमस्त्येव । कुत्वे तु न । वाः । वारी । अझलन्तत्वान्न नुम् । वारि । चत्वारि । न लुमतेति कादेशो न । किम् । के । कानि । इदम् । इमे । इमानि ॥ अन्वादेशे नपुंसके एनद्वक्तव्यः * ॥ एनत् । एने । एनानि । एनेन एनयो: २ । ब्रह्म । ब्रह्मणी । ब्रह्माणि । हे ब्रह्मन् । हे ब्रह्म । रोsसुपि ॥ अहर्भाति । विभाषा ङिश्योः । अह्नी । अहनी । अहानि ॥ अहन् |८|२२६८ ॥ अहन्नित्यस्य रुः स्यात्पदान्ते । अहोभ्याम् । अहोभिः । इह अहः अहोभ्यामित्यादौ रत्वरुत्वयोरसिद्धत्वान्नलोपे प्राप्ते अहन्नित्यावर्त्य नलोपाभावं निपात्य द्वितीयेन रुर्विधेयः । तदन्तस्यापि त्वरत्वे । दीर्घाण्यानि यस्मिन् स दीर्घाहा निदाघः । इह हल्ड्यादिलोपे प्रत्ययलक्षणेनाऽसुपीति निषेधाद्रत्वाभावे रुः । तस्यासिद्धत्वान्नान्तलक्षण उपधादीर्घः । संबुद्धौ तु हे दीर्घाहो निद्राघ । दीर्घाहानौ । दीर्घाहानः । दीर्घाह्ना । दीर्घाहोभ्याम् । दण्डि । दण्डिनी । दण्डी नि । स्रग्वि । स्रग्विणी । स्रग्वीणि । वाग्मि । वाग्मिनी । वाग्मीनि । बहुवृत्रहाणि । बहुपूषाणि । बह्वर्यमाणि । असृजः पदान्ते कुत्वम् । सृजेः क्विनो विधानात् । विश्वसृडादौ तु न । सृजिदृशोरिति सूत्रे रज्जुसृड्भ्यामिति भाष्यप्रयोगात् । यद्वा ब्रश्चादिसूत्रे सृजियज्योः पदान्ते त्वं