________________
धातुपाठे भ्वादयः। ७२९ शंसु स्तुतौ ॥ दुर्गतावित्येके ॥ ७३० चह परिकल्कने । ७३१ मह पूजायाम् । ७३२ रह त्यागे । ७३३ रहि गतौ । ७३४ दृह ७३५ दृहि ७३६ बृह ७३७ बृहि वृद्धौ ॥ बृहि शब्दे च । बृहिर् इत्येके ॥ ७३८ तुहिर् ७३९ दुहिर् ७४० उहिर् अर्दने । ७४१ अर्ह पूजायाम् ॥ घुषिरादय उदात्ता उदात्तेतः परस्मैभाषाः। घसिस्त्वनुदात्तः॥७४२ द्युत दीप्तौ । ७४३ श्विता वर्णे । ७४४ जिमिदा स्नेहने । ७४५ अिग्विदा स्नेहनमोचनयोः ॥ मोहनयोरित्येके । निविदा चेत्येके ॥ ७४६ रुच दीप्तावभिप्रीतौ च । ७४७ घुट परिवर्तने । ७४८ रुट ७४९ लुट ७५० लुठ प्रतिघाते । ७५१ शुभ दीप्तौ । ७५२ शुभ संचलने । ७५३ णभ ७५४ तुभ हिंसायाम् ॥ आद्योऽभावेऽपि ॥ ७५५ संसु ७५६ ध्वंसु ७५७ भ्रंसु अवलंसने ॥ ध्वंसु गतौ च । अंशु इत्यपि केचित् ॥ ७५८ स्रम्भु विश्वासे । ७५९ वृतु वर्तने । ७६० वृधु वृद्धौ । ७६१ शृधु शब्दकुत्सायाम् । ७६२ स्यन्दू प्रस्रवणे । ७६३ कृपू सामर्थ्य ॥ द्युतादय उदात्ता अनुदात्तेत आत्मनेभाषाः । वृत्॥७६४ घट चेष्टायाम् । ७६५ व्यथ भयसंचलनयोः । ७६६ प्रथ प्रख्याने । ७६७ प्रस विस्तारे । ७६८ म्रद मर्दने । ७६९ स्खद स्खदने । ७७० क्षजि गतिदानयोः । ७७१ दक्ष गतिहिंसनयोः । ७७२ कृप कृपायां गतौ च । ७७३ कदि ७७४ ऋदि ७७५ क्लदि वैक्लव्ये । वैकल्ये इत्येके । त्रयोऽप्यनिदित इति नन्दी । इदित इति स्वामी । कदिक्रदी इदितौ । क्रदक्लदाविति चानिदितौ इति मैत्रेयः ॥ ७७६ जित्वरा संभ्रमे ॥ घटादयाषितः उदात्ता अनुदात्तेत आत्मने भाषाः॥ ७७७ ज्वर रोगे । ७७८ गड सेचने । ७७९ हेड वेष्टने । ७८० वट ७८१ भट परिभाषणे । ७८२ नट नृत्तौ ॥ गतावित्यन्ये ॥ ७८३ ष्टक प्रतिघाते । ७८४ चक तृप्तौ । ७८५ कखे हसने । ७८६ रगे शङ्कायाम् । ७८७ लगे सङ्गे । ७८८ हगे ७८९ हगे ७९० षगे ७९१ ष्टगे संवरणे । ७९२ कगे नोच्यते । ७९३ अक ७९४ अग कुटिलायां गतौ । ७९५ कण ७९६ रण गतौ । ७९७ चण ७९८ शंण ७९९ श्रण दाने च ॥ शण गतावित्यन्ये ॥ ८०० श्रथ. ८०१ श्लथ ८०२ ऋथ ८०३ क्लथ हिंसार्थाः । ८०४ वन च । ८०५ वनु च नोच्यते । ८०६ ज्वल दीप्तौ । ८०७ ह्वल ८०८ हल चलने । ८०९ स्मृ आध्याने । ८१० दृ भये । ८११ नू नये । ८१२ श्रा पाके । मारणतोषणनिशामनेषु ८१३ ज्ञा । ८१४ कम्पने चलिः । ८१५ छदिर ऊर्जने । जिह्वोन्मथने ८१६ लडिः । ८१७ मदी हर्षग्लेपनयोः । ८१८ ध्वन शब्दे । ८१९ दलि ८२० वलि ८२१ स्खलि ८२२ रणि ८२३ ध्वनि ८२४ त्रपि ८२५ क्षपयश्चेति भोजः । ८२६ खन अवतंसने ॥ घटादयो मितः॥ ८२७ जनी ८२८ जूष ८२९ कसु ८३० रञ्जो ८३१ ऽमन्ताश्च । ८३२ ज्वल ८३३ बल ८३४ हल ८३५ नमामनुपसर्गाद्वा । ८३६ ग्ला ८३७ मा ८३८ वनु ८३९ वमां च । न ८४० कमि ८४१ अमि ८४२ चसाम् । ८४३ शमोऽदर्शने । ८४४ यमोपरिवेषणे । ८४५ स्खदिर् अवपरिभ्यां च । ८४६ फण