________________
धातुपाठे भ्वादयः ।
४६५ लजि भर्जने। २४० लाज २४१ लाजि भर्सने च । २४२ जज २४३ जजि युद्धे । २४४ तुज हिंसायाम् । २४५ तुजि पालने । २४६ गज २४७ गजि २४८ गृज २४९ गुजि २५० मुज २५१ मुजि शब्दार्थाः । २५२ गज मदने च । २५३ वज २५४ व्रज गतौ ॥ शुचादय उदात्ता उदात्तेतः (क्षिवर्ज) परस्मैभाषाः ॥ २५५ अट्ट अतिक्रमणहिंसनयोः । २५६ वेष्ट वेष्टने । २५७ चेष्ट चेष्टायाम् । २५८ गोष्ट २५९ लोष्ट संघाते । २६० घट्ट चलने । २६१ स्फुट विकसने । २६२ अठि गतौ । २६३ वठि एकचर्यायाम् । २६४ मठि २६५ कठि शोके । २६६ मुठि पालने । २६७ हेठ विबाधायाम् । २६८ एठ च । २६९ हिडि गत्यनादरयोः । २७० हुडि संघाते । २७१ कुडि दाहे । २७२ वडि विभाजने । २७३ मडि च । २७४ भडि परिभाषणे । २७५ पिडि संघाते । २७६ मुडि मार्जने । २७७ तुडि तोडने । २७८ हुड़ि वरणे ॥ हरणे इत्येके । २७९ चडि कोपे । २८० शडि रुजायां संघाते च । २८१ तडि ताडने । २८२ पडि गतौ । २८३ कडि मदे । २८४ खडि मन्थे । २८५ हेड २८६ होड़ अनादरे । २८७ बाड आप्लाव्ये । २८८ द्राड २८९ धाड विशरणे । २९० शाट्ट श्लाघायाम् ॥ अट्टादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ २९१ शौ? गर्वे । २९२ यौट्ट बन्धे । २९३ म्लेट २९४ रोड उन्मादे । २९५ कटे वर्षावरणयोः ॥ चटे इत्येके ॥ २९६ अट २९७ पट गतौ । २९८ रट परिभाषणे ॥ २९९ लट बाल्ये। ३०० शट रुजाविशरणगत्यवसादनेषु । ३०१ वट वेष्टने । ३०२ किट ३०३ खिट त्रासे । ३०४ शिट ३०५ षिट अनादरे। ३०६ जट ३०७ झट संघाते । ३०८ भट भृतौ । ३०९ तट उच्छ्राये । ३१० खट काङ्क्षायाम् । ३११ नट नृत्तौ । ३१२ पिट शब्दसंघातयोः । ३१३ हट दीप्तौ । ३१४ षट अवयवे । ३१५ लुट विलोडने ॥ डान्तोऽयमित्येके ॥ ३१६ चिट परप्रेष्ये । ३१७ विट शब्दे । ३१८ विट आक्रोशे ॥ हिट इत्येके ॥ ३१९ इट ३२० किट ३२१ कटी गतौ । ३२२ मडि भूषायाम् । ३२३ कुडि वैकल्ये । ३२४ मुट मर्दने । ३२५ चुडि अल्पीभावे । ३२६ मुडि खण्डने ॥ पुडि चेत्येके ॥ ३२७ रुटि ३२८ लुठि स्तेये । रुडि लुठि इत्येके । रुडि लुडि इत्यपरे ॥ ३२९ स्फुटिर विशरणे ॥ स्फुटि इत्यपि केचित् ॥ ३३० पठ व्यक्तायां वाचि । ३३१ वठ स्थौल्ये । ३३२ मठ मदनिवासयोः । ३३३ कठ कृच्छ्रजीवने । ३३४ रट परिभाषणे ॥ रठ इत्येके ॥ ३३५ हठ प्लतिशठत्वयोः ॥ बलात्कारे इत्यन्ये ॥ ३३६ रुठ ३३७ उठ ३३८ लुठ उपघाते ॥ ऊठ इत्येके ॥ ३३९ पिठ हिंसासंक्लेशनयोः । ३४० शठ कैतवे च । ३४१ शुठ प्रतिघाते ॥ शुठि इति खामी ॥ ३४२ कुठि च । ३४३ लुठि आलस्ये प्रतिघाते च । ३४४ शुठि शोषणे । ३४५ रुठि ३४६ लुठि गतौ । ३४७ चुड्ड भावकरणे । ३४८ अड्ड अभियोगे। ३४९ कड्ड कार्कश्ये ॥ चुड्डादयस्त्रयो दोपधाः ॥ ३५० क्रीड विहारे ॥ ३५१ तुट्ट तोडने ॥ तूड़ इत्येके ॥ ३५२ हुट्ट ३५३. हुड्ड