________________
३८
सिद्धान्तकौमुद्यम्
I
1
ऽपि छान्दसत्वाद्व्यत्ययेन परस्मैपदम् । दीध्यत् । वेव्यत् । गुप् । गुब् । गुपौ । गुपः । गुब्भ्यामित्यादि ॥ त्यदादिषु दृशोऽनालोचने कश्च | ३|२२६० ॥ त्यदादिषूपपदेष्वज्ञानार्थाहृशेर्धातोः कञ् स्याच्चात् किन् ॥ आ सर्वनाम्नः । ६।३।९१ || सर्वनाम्न आकारोऽन्तादेशः स्यादृग्दृशवतुषु । कुत्वस्यासिद्धत्वाद्रश्चेति षः । तस्य जश्त्वेन डः । तस्य कुत्वेन गः । तस्य चर्चेन पक्षे कः । तादृक् । तादृग् । तादृशौ । तादृशः । षत्वापवादत्वात्कुत्वेन खकार इति कैयट - हरदत्तादिमते तु चत्वाभावपक्षे ख एव श्रूयते नतु गः । जश्त्वं प्रति कुत्वस्यासिद्धस्वात् । दिगादिभ्यो यदिति निर्देशान्नासिद्धत्वमिति वा बोध्यम् । व्रश्चेति षत्वम् । जश्त्वचवें । बिट् । विड्। विशौ । विशः । विशम् ॥ उशेर्वा | ८|२| ६३ ॥ नशेः कवर्गोऽन्ता - देशो वा स्यात्पदान्ते । नक् । नग् । नट् । नड् । नशौ । नशः । नग्भ्याम् । नड्भ्यामि - त्यादि ॥ स्पृशोऽनुदके किन् । ३।२।५८ || अनुदके सुप्युपपदे स्पृशेः किन् स्यात् । घृतस्पृक् । घृतस्पृग् । घृतस्पृशौ । घृतस्पृशः । क्विन् प्रत्ययो यस्मादिति बहुव्रीह्याश्रयणात् यि कुत्वम् । स्पृक् । षडगकाः । प्राग्वत् । ञिधृषा प्रागल्भ्ये । अस्मा हत्विगादिना किन् द्वित्वमन्तोदात्तत्वं च निपात्यते । कुत्वात्पूर्वं जश्त्वेन डः गः कः । धृष्णोतीति दधृक् । दधृग् । दधृषैौ । दधृषः । दधृभ्भ्यामित्यादि । रत्नानि मुष्णातीति रत्नमुट् । रत्नमुड् । रत्नमुषौ । रत्नमुषः ॥ षड्भ्यो लुक् ॥ षट् । षड् । षड्भिः । षड्भ्यः २ । षट्चतुर्भ्यश्चेति नुट् । अनामिति पर्युदासान्न ष्टुत्वनिषेधः । यरोऽनुनासिक इति विकल्पं बाधित्वा प्रत्यये भाषायां नित्यमिति वचनान्नित्यमनुनासिकः । षण्णाम् । षट्त्सु । षट्सु । तदन्तविधिः । परमषट् । परमषण्णाम् । गौणत्वे तु प्रियषषः । प्रियषषाम् । रुत्वंप्रति षत्वस्यासिद्धत्वात् ससजुषोरुदिति रुत्वम् || र्वोरुपधाया दीर्घ इकः |८|२|७६ ॥ रेफवान्तस्य धातोरुपधाया इको दीर्घः स्यात्पदान्ते । पिपठीः । पिपठिषौ । पिपठिषः । पिपठीर्भ्याम् । वा शरीति वा विसर्जनीयः ॥ नुम्विसर्जनीयशर्व्यवायेऽपि |८|३|५८ ॥ एतैः प्रत्येकं व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः स्यात् । ष्टुत्वेन पूर्वस्य षत्वम् । पिपठीषु । पिपठीःषु । प्रत्येकमिति व्याख्यानादनेकव्यवधाने षत्वं न । निंस्ख । निंस्से । नुम्ग्रहणं नुम्स्थानिकानुखारोपलक्षणार्थं व्याख्यानात् । तेनेह न । सुहिन्सु । पुंसु । अत एव न शर्मा - हणेन गतार्थता । रात्सस्येति सलोपे विसर्गः। चिकीः । चिकीर्षौ । चिकीर्षः । रोः सुपीति नियमान्न विसर्गः। चिकीर्षु । दमेर्डोस् । डित्त्वासामर्थ्याट्टिलोपः । षत्वस्यासिद्धत्वाद्भुत्व विसर्गौ । दोः । दोषो । दोषः । पद्दन्न इति वा दोषन् । दोष्णः । दोष्णा । दोषः । दोषा । विश प्रवेशने । सन्नन्तात् क्विप् । षत्वस्यासिद्धत्वात् संयोगान्तलोपः । त्रश्चेति षः । जश्त्वचवें । विविट् । विविड् । विविक्षौ । विविक्षः । स्कोरिति कलोपः । तट् । तड् । तक्षौ । तक्षः । गोरद् । गोरड् । गोरक्षौ । गोरक्षः । तक्षिरक्षिभ्यां ण्यन्ताभ्यां क्विपि तु स्कोरिति न प्रवर्तते । णिलोपस्य स्थानिवद्भावात् पूर्वत्रासिद्धी ये
1
स्थानिवदिति तु इह नास्ति । तस्य दोषः संयोगादिलो पलत्वणत्वेष्विति निषेधात् । तस्मात्संयोगान्तलोप एव । तक् । तग् । गोरक् । गोरग् । स्कोरिति कलोपं प्रति कुत्वस्यासिद्धत्वात्संयोगान्त -