________________
हलन्ताः पुंलिङ्गाः ।
३.७
मुत्वस्यासिद्धत्वान्न यण् । अन्त्यबाधेऽन्त्यसदेशस्येति परिभाषामाश्रित्य परस्यैव मुत्वं वदतां मते अदमुयङ् । अः सेः सकारस्य स्थाने यस्य सः असिरिति व्याख्यानात् त्यदाद्यत्वविषय एव मुत्वं नान्यत्रेति पक्षे अदद्यङ् । उक्तं च || अदसोऽद्रेः पृथङ् मुत्वं केचिदिच्छन्ति - वत् ॥ केचिदन्त्यसदेशस्य नेत्येकेsसेर्हि दृश्यत इति ॥ विष्वग्देवयोः किम् । अश्वाची । अञ्चतैौ किम् । विष्वग्युक् । वप्रत्यये किम् । विष्वगञ्चनम् । वप्रत्ययग्रहणं ज्ञापयति, अन्यत्र धातुग्रहणे तदादिविधिरिति । तेनाऽयस्कारः । अतः कृकमीति सः । उदङ् । उदञ्चौ । उदञ्चः । शसादावचि ॥ उद ईत् | ३|४|१३९ | | उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भस्याकारस्य ईत्स्यात् । उदीचः । उदीचा । उदग्भ्यामित्यादि । समः समि |६|३|९३ ॥ प्रत्ययान्तेऽञ्चतौ परे । सम्यङ् । सम्यञ्चौ । सम्यञ्चः । समीचः । समीचा ॥ सहस्य सध्रिः ।६।३।९५ ॥ वप्रत्ययान्तेऽञ्चतौ परे । सध्यङ् || तिरसस्तिर्यलोपे | ६| ३|९४ ॥ अलुप्ताकारेऽञ्चतौ वप्रत्ययान्ते परे तिरसस्तिर्यादेशः स्यात् । तिर्यङ् । तिर्यञ्च । तिर्यञ्चः । तिर्यञ्चम् । तिर्यञ्चैौ । तिरश्चः । तिरश्चा । तिर्यग्भ्यामित्यादि || नाचेः पूजायाम् |६|४| ३० ॥ पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न स्यात् । अलुप्तनकारत्वान्न नुम् । प्राङ् । प्राञ्चौ । प्राञ्चः । नलोपाभावादकारलोपो न । प्राञ्चः । प्राञ्चा । प्राङ्भ्याम् । प्राङ्क्षु । प्राषु । एवं पूजार्थे प्रत्यङ्ङादयः । क्रुञ्च कौटिल्याल्पीभावयोः । अस्य ऋत्विगादिना नलोपाभावोऽपि निपात्यते । क्रुङ् । क्रुञ्चौ । क्रुञ्चः । क्रुभ्यामित्यादि ॥ चोः कुः ॥ पयोमुक् । पयोमुग् । पयोमुचैौ । पयोमुचः । त्रश्चेति षत्वम् । स्कोरिति सलोपः । जश्त्वचवें । सुवृट् । सुवृड् । सुवृश्श्रैौ । सुवृश्चः। सुवृट्सु । सुवृट्त्सु । वर्तमाने पृषन्महद्वृहज्जगच्छतृवच्च * एते निपात्यन्ते । शतृवच्चैषां कार्यं स्यात् । उगित्त्वान्नुम् । सान्तमहत इति दीर्घः । मह्यते पूज्यते इति महान् । महान्तौ । महान्तः । हे महन् । महतः । महता । महद्भ्यामित्यादि ॥ अत्वसन्तस्य चाधातोः |६|४|१४ || अत्वन्तस्योपधाया दीर्घः स्याद्धातुभिन्नासन्तस्य चासंबुद्धौ सौ परे । परं नित्यं च नुमं बाधित्वा वचनसामर्थ्यादादौ दीर्घः ततो नुम् । धीमान् । धीमन्तौ । धीमन्तः । हे धीमन् । शसादौ महद्वत् । धातोरप्यत्वन्तस्य दीर्घः । गोमन्तमिच्छति गोमानवाची वा क्यजन्तादाचारक्किबन्ताद्वा कर्तरि क्विप् । उगिदचामिति सूत्रेऽग्रहणं नियमार्थम् । धातोश्चेदुगिस्कार्यं तर्ह्यञ्चतेरेवेति । तेन सत् ध्वत् इत्यादौ न । अधातोरिति तु अधातुभूतपूर्वस्यापि नुमर्थम् । गोमान् । गोमन्तौ । गोमन्तः । इत्यादि । भातेर्डवतुः । भवान् । भवन्तौ । भवन्तः । शत्रन्तस्य त्वत्वन्तत्वाभावान्न दीर्घः । भवतीति भवन् ॥ उभे अभ्यस्तम् | ६|११५ षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः ॥ नाभ्यस्ताच्छतुः ॥७॥ १।७८ ॥ अभ्यस्तात्परस्य शतुर्नुम् न स्यात् । ददत् । ददद् । ददतौ । ददतः ॥ जक्षित्यादयः षट् |६|१|६|| षड् धातवोऽन्ये जक्षितिश्च सप्तम एतेऽभ्यस्तसंज्ञाः स्युः । जक्षत् । जक्षद् । जक्षतौ । जक्षतः । एवं जाग्रत् । दरिद्रत् । शासत् । चकासत् । दीधीवेव्योर्डित्त्वे,