________________
सिद्धान्तकौमुद्याम्
युक्तग्रहणात्साक्षाद्येोगेऽयं निषेधः । परम्परासंबन्धे तु आदेशः स्यादेव । हरो हरिश्च मे खाभी । पश्यार्थेश्चानालोचने ।८।१।२५ || अचाक्षुषज्ञानार्थैर्धातुभिर्योगे एते आदेशा न स्युः । चेतसा त्वां समीक्षते । परम्परासंबन्धेऽप्ययं निषेधः । भक्तस्तव रूपं ध्यायति । आलोचने तु भक्तस्त्वा पश्यति चक्षुषा ॥ सपूर्वायाः प्रथमाया विभाषा | ८|१| २३ || विद्यमान पूर्वा - त्प्रथमान्तात्परयोनरयोरन्वादेशेऽप्येते आदेशा वा स्युः । भक्तस्त्वमप्यहं तेन हरिस्त्वां त्रायते स माम् । त्वामेति वा ॥ सामन्त्रितम् | २|३|४८ ॥ संबोधने या प्रथमा तदन्तमामत्रितसंज्ञ स्यात् ।। आमन्त्रितं पूर्वमविद्यमानवत् |८|१|७२ ॥ स्पष्टम् । अग्ने तव । देवास्मान्पाहि । अनय । अग्न इन्द्र वरुण । इह युष्मदस्मदोरादेश स्तिङन्तनिघात आमन्त्रित निघातश्च न । सर्वदा रक्ष देव न इत्यत्र तु देवेत्यस्याविद्यमानवद्भावेऽपि ततः प्राचीनं रक्षेत्येतदाश्रित्यादेशः । इमं मे गङ्गे यमुने इति मन्त्रे यमुन इत्यादिभ्यः प्राचीनामन्त्रिताविद्यमानवद्भावेऽपि मेशब्दमेवाश्रित्य सर्वेषां निघातः । नामन्त्रिते समानाधिकरणे सामान्यवचनम् |८|१| ७३ ॥ विशेष्यं समानाधिकरणे आमन्त्रिते परे नाविद्यमानवत्स्यात् । हरे दयालो नः पाहि । अग्ने तेजखिन् || विभाषितं विशेषवचने |८|१|७४ || अत्र भाष्यम् | बहुवचनमिति वक्ष्यामीति । बहुवचनान्तं विशेष्यं समानाधिकरणे आमन्त्रिते विशेषणे परे अविद्यमानवद्वा । यूयं प्रभवो देवाः शरण्याः । युष्मान् भजे वो भजे इति वा । इहान्वादेशेऽपि वैकल्पिका आदेशाः । सुपात् । सुपाद् । सुपादौ । सुपादः । सुपादम् । सुपादौ ॥ पादः पत् | ६|४| १३० ॥ पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः स्यात् । सुपदः । सुपदा । सुपाभ्यामित्यादि । अग्निं मनातीत्यग्निमत् । अग्निमद् । अग्निमथौ । अग्निमथः । अग्निमन्यामित्यादि । ऋत्विगित्यादिसूत्रेणाचेः सुप्युपपदे क्किन् । अनिदितां हल उपधायाः िित |६|४|२४ || हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः स्यात्किति ङिति च । उंगिदचामिति नुम् । संयोगान्तस्य लोपः । नुमो नकारस्य किन्प्रत्ययस्य कुरिति कुत्वेन ङकारः । प्राङ् । अनुखारपरसवर्णो । प्राञ्चौ । प्राञ्चः । प्राञ्चम् । प्राञ्चौ ॥ अचः |६|४| १३८ ॥ लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः स्यात् ॥ चौ | ६|३|१३८ ॥ लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घः स्यात् । प्राचः । प्राचा । प्राग्भ्यामित्यादि । प्रत्यङ् । प्रत्यञ्चौ । प्रत्यञ्चः । प्रत्यञ्चम् । प्रत्यञ्चौ । अच इति लोपस्य विषयेऽन्तरङ्गोऽपि यण् न प्रवर्तते । अकृतव्यूहा इति परिभाषया । प्रतीचः । प्रतीचा । अमुमञ्चतीति विग्रहे । अदस् अ इति स्थिते ॥ विष्वग्देवयोश्च टेरद्यञ्चता वप्रत्यये | ३ | ३ | १२ || अनयोः सर्वनाम्नश्च टेरत्र्यादेशः स्याद्वप्रत्ययान्तेऽञ्चतौ परे । अदद्रि अञ्च् इति स्थिते । यण् ॥ अदसोऽसेर्दादु दो मः | ८|२८० ॥ अदसोऽसान्तस्य दात्परस्य उदृतौ स्तो दस्य च मः ॥ उ इति हखदीर्घयोः समाहारद्वन्द्वः । आन्तरतम्याद्धखव्यञ्जनयोर्हखो दीर्घस्य दीर्घः । अमुमुयङ् । अमुमुयञ्चौ । अमुमुयश्चः । अमुमुयञ्चम् । अमुमुयञ्चौ । अमुमुईचः । अमुमुईचा । अमुमुयग्भ्यामित्यादि ।
1
1
३६.