________________
४१०
सिद्धान्तकौमुद्याम् । - वतोरिडा ॥ २४ विंशतित्रिंशयां बुन्नसंज्ञायाम् ॥ २५ कंसाट्टिठन् ॥ २६ शूर्पादञन्यतरस्याम् ॥ २७ शतमानविंशतिकसहस्रवसनादण् ॥ २८ अध्यर्धपूर्वद्विगोलुंगसंज्ञायाम् ॥ २९ विभाषा कार्षापणसहस्राभ्याम् ॥ ३० द्वित्रिपूर्वान्निष्कात् ॥ ३१ बिस्ताच्च ॥ ३२ विंशतिकात्खः ॥ ३३ खार्या ईकन् ॥ ३४ पणपादमाषशताद्यत् ॥ ३५ शाणाद्वा ॥ ३६ द्वित्रिपूर्वादण्च ॥ ३७ तेन क्रीतम् ॥ ३८ तस्य निमित्तं संयोगोत्पातौ ॥ ३९ गोयचोऽसंख्यापरिमाणाश्वादेर्यत् ॥ ४० पुत्राच्छ च ॥२॥ ४१ सर्वभूमिपृथिवीभ्यामणौ ॥ ४२ तस्येश्वरः ॥ ४३ तत्र विदित इति च ॥ ४४ लोकसर्वलोकाट्ठञ् ॥ ४५ तस्य वापः ॥ ४६ पात्रात्ष्ठन् ॥ ४७ तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते ॥ ४८ पूरणार्धाटन् ॥ ४९ भागाद्यच्च ॥ ५० तद्धरतिवहत्यावहति भाराद्वंशादिभ्यः ॥ ५१ वस्नद्रव्याभ्यां ठन्कनौ ॥ ५२ संभवत्यवहरति पचति ॥ ५३ आढकाचितपात्रात्खोऽन्यतरस्याम् ॥ ५४ द्विगोष्ठंश्च ॥ ५५ कुलिजाल्लक्खौ च ॥ ५६ सोऽस्यां शवस्त्रभृतयः ।। ५७ तदस्य परिमाणम ॥ ५८ संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु ॥ ५९ पतिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् ॥ ६० पञ्चद्दशतौ वर्गे वा ॥३॥ ६१ सप्तनोऽञ्छन्दसि ॥ ६२ त्रिंशच्चत्वारिंशतोब्राह्मणे संज्ञायां डण् ॥ ६३ तदर्हति ॥ ६४ छेदादिभ्यो नित्यम् ॥ ६५ शीर्षच्छेदाद्यच्च ॥ ६६ दण्डादिभ्यो यः ॥ ६७ छन्दसि च ॥ ६८ पात्राद्धंश्च ॥ ६९ कडंगरदक्षिणाच्छ च ॥ ७० स्थालीबिलात् ॥ ७१ यज्ञविंग्भ्यां घखनौ ॥ ७२ पारायणतुरायणचान्द्रायणं वर्तयति ॥ ७३ संशयमापन्नः ॥ ७४ योजनं गच्छति ॥ ७५ पथः प्कन् ॥ ७६ पन्थो ण नित्यम् ॥ ७७ उत्तरपथेनाहृतं च ॥ ७८ कालात् ॥ ७९ तेन निवृत्तम् ॥ ८० तमधीष्टो भृतो भूतो भावी ॥ ४ ॥ ८१ मासाद्वयसि यत्खनौ ॥ ८२ द्विगोर्यप् ॥ ८३ षण्मासाण्ण्यच्च ॥ ८४ अवयसि ठंश्च ॥ ८५ समायाः खः ॥ ८६ द्विगोर्वा ॥ ८७ रात्र्यहःसंवत्सराच ॥ ८८ वर्षाल्लक्च ॥ ८९ चित्तवति नित्यम् ॥ ९० षष्टिकाः षष्टिरात्रेण पच्यन्ते ॥ ९१ वत्सरान्ताच्छश्छन्दसि ॥ ९२ संपरिपूर्वात्ख च ॥ ९३ तेन परिजय्यलभ्यकार्यसुकरम् ॥ ९४ तदस्य ब्रह्मचर्यम् ॥ ९५ तस्य च दक्षिणा यज्ञाख्येभ्यः ॥ ९६ तत्र च दीयते कार्य भववत् ॥ ९७ व्युष्टादिभ्योऽण् ॥ ९८ तेन यथाकथाच हस्ताभ्यां णयतौ ॥ ९९ संपादिनि ॥ १०० कर्मवेषाद्यत् ॥ ५॥ १०१ तस्मै प्रभवति संतापादिभ्यः ॥ १०२ योगाद्यच्च ॥ १०३ कर्मण उकञ् ॥ १०४ समयस्तदस्य प्राप्तम् ॥ १०५ ऋतोरण् ॥ १०६ छन्दसि घस् ॥ १०७ कालाद्यत् ॥ १०८ प्रकृष्टे ठञ् ॥ १०९ प्रयोजनम् ॥ ११० विशाखाषाढादण्मन्थदण्डयोः॥ १११ अनुप्रवचनादिभ्यश्छः ॥ ११२ समापनात्सपूर्वपदात् ॥ ११३ ऐकागारिकट चौरे ॥ ११४ आकालिकडाद्यन्तवचने ॥ ११५ तेन तुल्यं क्रिया चेद्वतिः ॥ ११६ तत्र तस्येव ॥ ११७ तदर्हम् ॥ ११८ उपसर्गाच्छन्दसि धात्वर्थे ॥ ११९ तस्य भावस्त्वतलौ ॥ १२० आ च त्वात् ॥ ६॥ १२१ न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः ॥