________________
शिक्षा।
३८७ शिरःकम्पी तथा लिखितपाठकः । अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ॥ ३२ ॥ माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः । धैर्य लयसमर्थं च षडेते पाठका गुणाः ॥ ३३ ॥ शङ्कितं भीतमुद्धृष्टमव्यक्तमनुनासिकम् । काकखरं शिरसि गतं तथा स्थानविवर्जितम् ॥ ३४ ॥ उपांशु दष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम् । निष्पीडितं ग्रस्तपदाक्षरं च वदेन्न दीनं न तु सानुनास्यम् ॥ ३५॥ प्रातः पठेन्नित्यमुरःस्थितेन खरेण शार्दूलरुतोपमेन । मध्यंदिने कण्ठगतेन चैव चक्राह्वसंकूजितसन्निभेन ॥ ३६ ॥ तारं तु विद्यात्सवनं तृतीयं शिरोगतं तच्च सदा प्रयोज्यम् । मयूरहंसान्यभृतस्वराणां तुल्येन नादेन शिरःस्थितेन ॥३७॥७॥ अचोऽस्पृष्टा यणस्त्वीषन्नेमिस्पृष्टाः शलः स्मृताः । शेषाः स्पृष्टा हलः प्रोक्ता निबोधानुप्रदानतः ॥ ३८ ॥ अमोऽनुनासिका नहो नादिनो हझषः स्मृताः। ईषन्नादा यणो जश्च श्वासिनस्तु खफादयः॥३९॥ ईषच्छासांश्चरो विद्याद्गोर्धामैतत्प्रचक्षते । दाक्षीपुत्रः पाणिनिना येनेदं व्यापितं भुवि ॥ ४० ॥ छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुनिरुक्तं श्रोत्रमुच्यते ॥४१॥ शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥ ॥ ४२ ॥ ८॥ उदात्तमाख्याति वृषोऽङ्गुलीनां प्रदेशिनीमूलनिविष्टमूर्धा । उपान्तमध्ये खरितं धृतं च कनिष्ठिकायामनुदात्तमेव ॥४३॥ उदात्तं प्रदेशिनी विद्यात्प्रचयं मध्यतोऽङ्गुलिम् । निहतं तु कनिष्ठिक्यां स्वरितोपकनिष्ठिकाम् ॥ ४४ ॥ अन्तोदात्तमायुदात्तमुदात्तमनुदात्तं नीचखरितम् । मध्योदात्तं स्खरितं युदात्तं त्र्युदात्तमिति नवपदशय्या ॥ ४५ ॥ अग्निः सोमः प्रवो वीर्यं हविषां खर्वृहस्पतिरिन्द्राबृहस्पती। अग्निरित्यन्तोदात्तं सोम इत्याद्युदात्तं प्रेत्युदात्तं व इत्यनुदात्तं वीर्यं नीचखरितम् ॥ ४६॥ हविषां मध्योदात्तं स्वरिति खरितम् । बृहस्पतिरिति युदात्तमिन्द्राबृहस्पती इति त्र्युदात्तम् ॥ ४७॥ अनुदात्तो हृदि ज्ञेयो मूयुदात्त उदाहृतः । स्वरितः कर्णमूलीयः सर्वास्ये प्रचयः स्मृतः॥४८॥ ९॥ चाषस्तु वदते मात्रां द्विमानं त्वेव वायसः । शिखी रौति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम्॥४९॥ कुतीर्थादागतं दग्धमपवर्ण च भक्षितम् । न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्बिषात् ॥५०॥ सुतीर्थादागतं व्यक्तं खाम्नाय्यं सुव्यवस्थितम् । सुखरेण सुवक्रेण प्रयुक्तं ब्रह्म राजते ॥५१॥ मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात् ॥५२॥ अवक्षरं हनायुष्यं विस्वरं व्याधिपीडितम् । अक्षता शस्त्ररूपेण वज्रं पतति मस्तके ॥५३॥ हस्तहीनं तु योऽधीते वरवर्णविवर्जितम् । ऋग्यजुःसामभिर्दग्यो वियोनिमधिगच्छति ।। ५४ ॥ हस्तेन वेदं योऽधीते वरवर्णार्थसंयुतम् । ऋग्यजुःसामभिः पूतो ब्रह्मलोके महीयते ॥५५॥१०॥ शंकरः शांकरी प्रादादाक्षीपुत्राय धीमते । वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ॥५६॥ येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥५७॥ येन धौता गिरः पुंसां विमलैः शब्दवारिभिः । तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥ ५८ ॥ अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ॥५९॥ त्रिनयनमभिमुखनिःसृतामिमां य इह पठेत्प्रयतश्च सदा द्विजः । स भवति धनधान्यपशुपुत्रकीर्तिमानतुलं च सुखं समश्नुते दिवीति दिवीति ॥ ६० ॥ ११ ॥ अथ शिक्षामात्मोदात्तश्च हकारं खराणां यथागीत्यचोस्पृष्टोदात्तं चाषस्तु शंकर एकादश ॥
॥ इति शिक्षा समाप्ता॥