________________
॥ श्रीः ॥
अथ शिक्षा। अथ शिक्षा प्रवक्ष्यामि पाणिनीयं मतं यथा । शास्त्रानुपूर्व तद्विद्याद्यथोक्तं लोकवेदयोः॥१॥ प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः । पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ॥ २ ॥ त्रिषष्टिश्चतुःषष्टिा वर्णाः शम्भुमते मताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः वयंभुवा ॥ ३ ॥ खरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥ ४ ॥ अनुखारो विसर्गश्च xकxपौ चापि पराश्रितौ । दुःस्पृष्टश्चेति विज्ञेयो लकारः प्लुत एव च ॥ ५॥ १ ॥ आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया । मनः कायामिमाहन्ति स प्रेरयति मारुतम् ॥ ६॥ मारुतस्तूरसि चरन्मन्द्रं जनयति खरम् । प्रातःसवनयोगं तं छन्दो गायत्रमाश्रितम् ॥ ७ ॥ कण्ठे माध्यन्दिनयुगं मध्यमं त्रैष्टुभानुगम् । तारं तार्तीयसवनं शीर्षण्यं जागतानुगम् ॥ ८ ॥ सोदीर्णो मूग्रंभिहतो वक्रमापद्य मारुतः । वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः ॥९॥ खरतः कालतः स्थानात्प्रयत्नानुप्रदानतः । इति वर्णविदः प्राहु निपुणं तन्निबोधत ॥ १० ॥ २ ॥ उदात्तश्चानुदात्तश्च खरितश्च खरास्त्रयः । हखो दीर्घप्लुत इति कालतो नियमा अचि ॥ ११ ॥ उदात्ते निषादगान्धारावनुदात्त ऋषभधैवतौ । खरितप्रभवा ह्येते षडमध्यमपञ्चमाः ॥ १२ ॥ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥ १३ ॥ ओभावश्च विवृत्तिश्च शषसा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥ १४ ॥ यद्योभावप्रसंधानमुकारादिपरं पदम् । खरान्तं तादृशं विद्याद्यदन्यव्यक्तमूष्मणः ॥ १५॥ ३ ॥ हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् । औरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुतम् ॥ १६ ॥ कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू । स्युर्मूर्धन्या ऋटुरषा दन्त्या लतुलसाः स्मृताः ॥ १७॥ जिह्वामूले तु कुx प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः । एऐ तु कण्ठतालव्या ओऔ कण्ठोष्ठजौ स्मृतौ ॥१८॥ अर्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत् । ओकारौकारयोर्मात्रा तयोर्विवृतसंवृतम् ॥ १९ ॥ संवृतं मात्रिकं ज्ञेयं विवृतं तु द्विमात्रिकम् । घोषा वा संवृताः सर्वे अघोषा विवृताः स्मृताः ॥ २० ॥ ४ ॥ खराणामूष्मणां चैव विवृतं करणं स्मृतम् । तेभ्योऽपि विवृतावेङौ ताभ्यमैचौ तथैव च ॥२१॥ अनुस्खारयमानां च नासिकास्थानमुच्यते । अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥ २२ ॥ अलाबुवीणानिर्घोषो दन्त्यमूल्यवराननु । अनुस्वारस्तु कर्तव्यो नित्यं होः शषसेषु च ॥ २३ ॥ अनुखारे विवृत्यां तु विरामे चाक्षरद्वये। द्विरोष्ठ्यौ तु विगृह्णीयाद्यत्रौकारवकारयोः ॥२४॥ व्याघ्री यथा हरेत्पुत्रान्दंष्ट्राभ्यां न च पीडयेत् । भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् ॥ २५ ॥ ५॥ यथा सौराष्ट्रिका नारी त] इत्यभिभाषते। एवं रङ्गाः प्रयोक्तव्याः खे अराँ इव खेदया ॥२६॥ रङ्गवर्ण प्रयञ्जीरन्नो ग्रसेत्पूर्वमक्षरम् । दीर्घखरं प्रयुञ्जीयात्पश्चान्नासिक्यमाचरेत् ॥ २७ ॥ हृदये चैकमात्रस्त्वर्धमात्रस्तु मूर्धनि । नासिकायां तथा च रङ्गस्यैवं द्विमात्रता ॥ २८ ॥ हृदयादुत्करे तिष्ठन्कांस्येन समनुखरन् । मादेवं च द्विमानं च जघन्वा इति निदर्शनम् ॥ २९॥ मध्ये तु कम्पयेत्कम्पमुभौ पार्यो समौ भवेत् । सरङ्ग कम्पयेत्कम्पं रथीवेति निदर्शनम् ॥३०॥ एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिताः । सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ॥३१॥६॥ गीती शीघ्री