________________
लिङ्गानुशासनम् ।
२८३ च ॥ इमे दाराः ॥ नाड्यपजनोपपदानि व्रणाङ्गदानि ॥ यथासंख्यं नाड्याद्युपपदानि व्रणादीनि पुंसि स्युः । अयं नाडीव्रणः । अपाङ्गः । जनपदः । व्रणादीनामुभयलिङ्गत्वेऽपि क्लीबत्वनिवृत्त्यर्थ सूत्रम् ॥ मरुद्गरुत्तरदृत्विजः ॥ अयं मरुत् ॥ ऋषिराशिदृतिग्रन्थिक्रिमिध्वनिबलिकोलिमौलिरविकविकपिमुनयः ॥ एते पुंसि स्युः । अयमृषिः ॥ ध्वजगजमुञ्जपुञ्जाः ॥ एते पुंसि हस्तकुन्तान्तवातवातदूतधूतेसूतचूतमुहूर्ताः॥ एते पुंसि ॥ अमरस्तु मुहूर्तोऽस्त्रियामित्याह ॥ षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः ॥ अयं षण्डः ॥ वंशांशपुरोडाशाः ॥ अयं वंशः । पुरो दाश्यते पुरोडाशः । कर्मणि घञ् । भवव्याख्यानयोः प्रकरणे पौरोडाशपुरोडाशाष्ठन्निति विकारप्रकरणे व्रीहेः पुरोडाश इति च निपातनात्प्रकृतसूत्र एव निपातनाद्वा दस्य डत्वम् । पुरोडाशभुजामिष्टमिति माघः ॥ ह्रदकन्दकुन्दबुद्धदशब्दाः॥ अयं हृदः ॥ अर्घपथिमथ्यभुक्षिस्तम्बनितम्बपूगाः॥ अयमधः ॥ पल्लवपल्वलकफरेफकटाहनियूहमठमणितरङ्गतुरङ्गगन्धस्कन्धमृदङ्गसङ्गस मुद्रपुङ्खाः ॥ अयं पल्लव इत्यादि ॥ सारथ्यतिथिकुक्षिवस्तिपाण्यञ्जलयः॥ एते पुंसि । अयं सारथिः॥ इति पुंलिङ्गाधिकारः॥
नपुंसकम् ॥ अधिकारोऽयम् ॥ भावे ल्युडन्तः॥ हसनम् । भावे किम् । पचनोऽग्निः ॥ इध्मव्रश्चनः कुठारः ॥ निष्ठा च ॥ भावे या निष्ठा तदन्तं क्लीबं स्यात् । हसितम् । गीतम् ॥ त्वष्यौ तद्धितौ ॥ शुक्लत्वम् । शौक्लयम् । ष्यञः पित्त्वसामर्थ्यात्पक्षे स्त्रीत्वम् । चातुर्यम् । चातुरी । सामग्र्यम् । सामग्री । औचित्यम् । औचिती ॥ कमणि च ब्राह्मणादिगुणवचनेभ्यः॥ ब्राह्मणस्य कर्म ब्राह्मण्यम् ॥ यद्यढग्यगअण्वुञ्छाश्च भावकर्माणि ॥ एतदन्तानि क्लीवानि ॥ स्तेनाद्यन्नलोपश्च । स्तेयम् । सख्युर्यः । सख्यम् । कपिज्ञात्योढक् । कापेयम् । पत्यन्तपुरोहितादिभ्यो यक् । आधिपत्यम् । प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् । औष्ट्रम् । हायनान्तयुवादिभ्योऽण् । द्वैहायनम् । द्वन्द्वमनोज्ञादिभ्यो वुञ् । पितापुत्रकम् । होत्राभ्यश्छः । अच्छावाकीयम् ॥ अव्ययीभावः ॥ अधिस्त्रि ॥ द्वन्द्वैकत्वम् ॥ पाणिपादम् ॥ अभाषायां हेमन्तशिशिरावहोरात्रे च ॥ स्पष्टम् ॥ अनकर्मधारयस्तत्पुरुषः ॥ अधिकारोऽयम् ॥ अनल्पे छाया ॥ शरच्छायम् ॥ राजमनुष्यपूर्वा सभा ॥ इनसभमित्यादि ॥ सुरासेनाच्छायाशालानिशा स्त्रियां च ॥ शिष्टः परवत् ॥ अन्यस्तत्पुरुषः परवल्लिङ्गः स्यात् ॥ रात्राहाहाः पुंसि ॥ अपथपुण्याहेनपुंसके ॥ संख्यापूर्वा रात्रिः॥ त्रिरात्रम् । संख्यापूर्वेति किम् ॥ सर्वरात्रः ॥ द्विगुः स्त्रियां च ॥ व्यवस्थया । पञ्चमूली । त्रिभुवनम् ॥ इसुसन्तः ॥ हविः । धनुः ॥ अर्चिः स्त्रियां च ॥ इसन्तस्वेऽपि अर्चिः स्त्रियां नपुंसके च स्यात् । इयमिदं वा अर्चिः ॥ छदिः स्त्रियामेव ।।