________________
३८२
सिद्धान्तकौमुद्याम्
1
तीर्थः । इदं तीर्थम् ॥ नोपधः ॥ अदन्तः पुंसि । इनः । फेनः ॥ जघनाजिनतुहि नकाननवनवृजिनविपिन वेतनशासनसोपानमिथुनश्मशानरत्न निम्नचि ह्नानि नपुंसके ॥ पूर्वस्यापवादः || मानयानाभिधानन लिन पुलिनोद्यानशयनासनस्थानचन्दनालानसमानभवनवसन सम्भावनविभावनविमानानि नपुंसके च ॥ चात्पुंसि । अयं मानः । इदं मानम् || पोषधः ॥ अदन्तः पुंसि । यूपः । दीपः । सर्पः ॥ पापरूपोडपतल्पशिल्प पुष्पशष्पसमीपान्तरीपाणि नपुंसके ॥ इदं पापमित्यादि ॥ शूर्पकुतपकुणपद्वीपविटपानि नपुंसके च ॥ अयं शूर्पः । इदं शूर्पमित्यादि ॥ भोषधः ॥ स्तम्भः । कुम्भः ॥ तलभं नपुंसकम् ॥ पूर्वस्यापवादः ॥ जृम्भं नपुंसके च ॥ जृम्भम् । जृम्भः || मोषधः ॥ सोमः । भीमः ।। रुक्मसिध्मयुध्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके ॥ इदं रुक्ममित्यादि ॥ संग्रामदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च ॥ चात्पुंसि ॥ अयं संग्रामः । इदं संग्रामम् ॥ योपधः ॥ समयः । हयः ॥ किसलयहृदयेन्द्रियो - तरीयाणि नपुंसके ॥ स्पष्टम् || गोमयकषायमलयान्वयाव्ययानि नपुंसके च ॥ गोमयः । गोमयम् । रोपधः ॥ क्षुरः । अङ्कुरः ॥ द्वाराग्रस्फारतऋवक्रवप्रक्षिप्रक्षुद्रनारतीरदूर कृच्छ्ररन्ध्राश्रश्वभ्र भीरगभीर क्रूर विचित्र केयूरकेदारोदराजस्रशरीरकन्दरमन्दारपञ्जराजरजठरा जिरवैरचामरपुष्करगह्वरकुहरकुटीरकुलीरचत्वर काश्मीरनीराम्बर शिशिरतन्त्रयन्नक्षत्रक्षेत्रमित्रकलत्रचित्रमूत्रसूत्रवक्त्रनेत्रगोत्राङ्गुलित्रभलत्रशस्त्रशास्त्रवस्त्रपत्रपात्रच्छन्नाणि नपुंसके ॥ इदं द्वारमित्यादि ॥ शुक्रमदेवतायाम् ॥ इदं शुक्रं रेतः ॥ चक्रवज्रान्धकारसारावारपारक्षीरतोमरगृङ्गारभृङ्गारमन्दारोशीर तिमिरशिशि राणि नपुंसके च ॥ चात्पुंसि । चक्रः । चक्रमित्यादि ॥ षोपधः ॥ वृषः । वृक्षः ॥ शिरीषजषाम्बरीषपीयूषपुरीषकिल्बिषकल्माषाणि नपुंसके ॥ यूषकरीषमिषविषवर्षाणि नपुंसके च ॥ चात्पुसि । अयं यूषः । इदं यूषमित्यादि ॥ सोपधः ॥ वत्सः । वायसः ॥ महानसः ॥ पनसबिसबुससाहसानि नपुंसके ॥ चमसांसरसनिर्यासोपवासकार्पासवासमासकासकांसमांसानि नपुंसके च ॥ इदं चमसम् । अयं चमस इत्यादि ॥ कंसं चाप्राणिनि ॥ कंसोऽस्त्री पानभाजनम् । प्राणिनि तु कंसो नाम कश्चिद्राजा ॥ रश्मिदिवसाभिधानानि ॥ एतानि पुं स्युः । रश्मिर्मयूखः । दिवसो घस्रः ॥ दीधितिः स्त्रियाम् ॥ पूर्वस्यापवादः ॥ दिनाहनी नपुंसके ॥ अयमप्यपवादः ॥ मानाभिधानि ॥ एतानि पुंसि स्युः । कुडवः । प्रस्थः ॥ द्रोणाढको नपुंसके च ॥ इदं द्रोणम् । अयं द्रोणः ॥ खारी - मानिके स्त्रियाम् ॥ इयं खारी । इयं मानिका ॥ दाराक्षतलाचासूनां बहुत्वं