________________
लिङ्गानुशासनम् ।
३८१ आत्मा क्षेत्रज्ञः । खगों नाकः । गिरिः पर्वतः । समुद्रोऽब्धिः । नखः कररुहः । केशः शिरोरुहः । दन्तो दशनः । स्तनः कुचः । भुजो दोः । कण्ठो गलः । खड्गः करवालः । शरो मार्गणः । पङ्कः कर्दम इत्यादि ॥ त्रिविष्टपत्रिभुवने नपुंसके ॥ स्पष्टम् । तृतीयं विष्टपं त्रिविष्टपम् । खर्गाभिधानतया पुंस्त्वे प्राप्ते अयमारम्भः ॥ द्यौः स्त्रियाम् ॥ द्योदिवोस्तन्त्रेणोपादानमिदम् ॥ इषुबाह स्त्रियां च ॥ चात्पुंसि ॥ बाणकाण्डौ नपुंसके च ॥ चात्पुंसि । त्रिविष्टपेत्यादिचतुःसूत्री देवासुरेत्यस्यापवादः ॥ नान्तः ॥ अयं पुंसि । राजा । तक्षा । न च चर्मवादिष्वतिव्याप्तिः । मन्व्यच्कोऽकर्तरीति नपुंसकप्रकरणे वक्ष्यमाणत्वात् ॥ ऋतुपुरुषकपोलगुल्फमेधाभिधानानि ॥ ऋतुरध्वरः । पुरुषो नरः । कपोलो गण्डः । गुल्फः प्रपदः । मेघो नीरदः ॥ अभ्रं नपुंसकम् ॥ पूर्वस्यापवादः ॥ उकारान्तः ॥ अयं पुंसि स्यात् । प्रभुः । इक्षुः । हनुहट्टविलासिन्यां नृत्यारम्भे गदे स्त्रियाम् ॥ द्वयोः कपोलावयवे इति मेदिनी । करेणुरिभ्यां स्त्री नेभे इत्यमरः । एवंजातीयकविशेषवचनानाक्रान्तस्तु प्रकृतसूत्रस्य विषयः । उक्तं च । लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधित इति । एवमन्यत्रापि ॥ धेनुरज्जुकुहूसरयुतनुरेणुप्रियङ्गवः स्त्रियाम् ॥ समासे रजः पुंसि च ॥ कर्कटरज्ज्वा । कर्कटरज्जुना ॥ श्मश्रुजानुवसुखाद्वश्रुजतुत्रपुतालूनि नपुंसके ॥ वसु चार्थवाचि ॥ अर्थवाचीति किम् । वसुर्मयूखानिधनाधिपेषु ॥ मद्रुमधुसीधुशीधुसानुकमण्डलूनि नपुंसके च ॥ चात्पुंसि । अयं मद्गुः । इदं मद्गु ॥ रुत्वन्तः ॥ मेरुः । सेतुः । दारुकशेरुजतुवस्तुमस्तूनि नपुंसके ॥ रुत्वन्त इति पुंस्त्वस्यापवादः । इदं दारु ॥ सत्तुनपुंसके च ॥ चात्पुंसि । सक्तुः । सक्तु ॥ प्राग्रश्मेरकारान्तः ॥ रश्मिर्दिवसाभिधानमिति वक्ष्यति प्रागेतस्मादकारान्त इत्यधिक्रियते ॥ कोपधः॥ कोपधोऽकारान्तः पुंसि स्यात् । स्तबकः । कल्कः ॥ चिबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुंसके ॥ पूर्वसूत्रापवादः ॥ कण्टकानीकसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्कवर्चस्कपिनाकभाण्डकपिण्ड ककटकशण्डकपिटकतालकफलकपुलाकानि नपुंसके ॥ चात्पुंसि । अयं कण्टकः । इदं कण्टकमित्यादि ॥ टोपधः ॥ टोपधोऽकारान्तः पुंसि स्यात् । घटः । पटः ॥ किरीटमुकुटललाटवटवीटशृङ्गाटकराटलोष्टानि नपुंसके च ॥ किरीटमित्यादि ॥ कुटकूटकपटकवाटकर्पटनटनिकटकीटकटानि नपुंसके च ॥ चात्पुंसि । कुटः । कुटमित्यादि ॥ णोपधः ॥ णोपधोऽकारान्तः पुंसि स्यात् । गुणः । गणः । पाषाणः ॥ ऋणलवणपर्णतोरणोष्णानि नपुंसके ॥ पूर्वसूत्रापवादः ॥ कार्षापणवर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुंसके च ॥ चात्पुंसि ॥ थोपधः॥ रथः॥ काष्ठपृष्ठसिक्थोक्थानि नपुंसके ॥ इदं काष्ठमित्यादि । काष्ठा दिगर्था स्त्रियाम् ॥ इमाः काष्ठाः ॥ तीर्थप्रोथयूथगाथानि नपुंसके च ॥ चात्पुंसि । अयं