________________
३८०
सिद्धान्तकौमुद्याम् ष्णिगुपानहः ॥ एते स्त्रियां स्युः । इयं भा इत्यादि ॥ स्थूणोणे नपुंसके च ॥ एते स्त्रियां क्लीवे च स्तः। स्थूणा । स्थूणम् । ऊर्णा । ऊर्णम् । तत्र स्थूणा काष्ठमयी द्विकर्णिका । ऊर्णा तु मेषादिलोम ॥ गृहशशाभ्यां क्लीवे ॥ नियमार्थमिदम् । गृहशशपूर्वे स्थूणोणे यथासंख्यं नपुंसके स्तः । गृहस्थूणम् । शशोणं शशलोमनीत्यमरः । प्रावृट्विप्र वित्विषः॥एते स्त्रियां स्युः ॥ दर्विविदिवेदिखनिशान्यश्रिवेशिकृ. प्योषधिकट्यङ्गुलयः॥ एते स्त्रियां स्युः । पक्षे ङीप् । दर्वी । दर्विरित्यादि ॥ तिथिनाडिरुचिवीचिनालिधूलिकिकिकेलिच्छविरात्र्यादयः॥ एते प्राग्वत् । इयं तिथिरित्यादि । अमरस्त्वाह । तिथयो द्वयोरिति । तथा च भारविः । तस्य भुवि बहुतिथास्तिथय इति । स्त्रीत्वे हि बहुतिथ्य इति स्यात् । श्रीहर्षश्च । निखिलान्निशि पौर्णिमातिथीनिति ॥ शष्कुलिराजिकुट्यशनिवर्तिभ्रुकुटित्रुटिवलिपतयः ॥ एतेऽपि स्त्रियां स्युः । इयं शष्कुलिः ॥ प्रतिपदापद्विपत्सम्पच्छरत्संसत्परिषदुषःसंवित्क्षुत्पुन्मुत्समिधः॥ इयं प्रतिपदित्यादि । उषा उच्छन्ती । उषाः प्रातरधिष्ठात्री देवता ॥ आशीर्षुःपूर्गीारः ॥ इयमाशीरित्यादि ॥ अप्सुमनस्समासिकतावर्षाणां बहुत्वं च ॥ अबादीनां पञ्चानां स्त्रीत्वं स्याद्वहुत्वं च । आप इमाः । स्त्रियः सुमनसः पुष्पम् । सुमना मालती जातिः । देववाची तु पुंस्येव । सुपर्वाणः सुमनसः। बहुत्वं प्रायिकम् । एका च सिकता तैलदाने असमर्थेति अर्थवत्सूत्रे भाष्यप्रयोगात् । समांसमां विजायत इत्यत्र समायां समायामिति भाष्याच्च । विभाषाघ्राधेडिति सूत्रे अघ्रासातां सुमनसाविति वृत्तिव्याख्यायां हरदत्तोऽप्येवम् ॥ सक्त्वज्योग्वाग्यवागूनौस्फिजः ॥ इयं सक् त्वक् ज्योक् वाक् यवागूः नौः स्फिक् ॥ तृटिसीमासंबध्याः॥ इयं तृटिः । सीमा । संबध्या ॥ चुल्लिवेणिखायश्च ॥ स्पष्टम् ॥ ताराधाराज्योत्लादयश्च ॥ शलका स्त्रियां नित्यम् ॥ नित्यग्रहणमन्येषां कचियभिचारं ज्ञापयति ॥ ॥इति त्यधिकारः॥
पुमान् ॥ अधिकारोऽयम् ॥ घजबन्तः॥ पाकः । त्यागः । करः । गरः । भावार्थ एवेदम् । नपुंसकत्वविशिष्टे भावे क्तल्युड्भ्यां स्त्रीत्वविशिष्टे तु क्तिन्नादिभिर्बाधेन परिशे. पात् । कर्मादौ तु घनाद्यन्तमपि विशेष्यलिङ्गम् । तथा च भाष्यम् । संबन्धमनुवर्तिष्यत इति ॥ घाजन्तश्च ॥ विस्तरः । गोचरः । चयः । जयः । इत्यादि ॥ भयलिङ्गभगपदानि नपुंसके ॥ एतानि नपुंसके स्युः । भयम् । लिङ्गम् । भगम् । पदम् ॥ नङन्तः ॥ नङ्प्रत्ययान्तः पुंसि स्यात् । यज्ञः यत्नः ॥ याच्या स्त्रियाम् ॥ पूर्वस्यापवादः ॥ क्यन्तो घुः॥ किप्रत्ययान्तो घुः पुंसि स्यात् । आधिः । निधिः । उदधिः । क्यन्तः किम् । दानम् । घुः किम् । जज्ञिर्बीजम् ॥ इषुधिः स्त्री च ॥ इषुधिशब्दः स्त्रियां पुंसि च ॥ पूर्वस्यापवादः ॥ देवासुरात्मवर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखगशरपङ्काभिधानानि ॥ एतानि पुंसि स्युः । देवाः सुराः । असुराः दैत्याः ।