________________
३७८
सिद्धान्तकौमुद्याम्
अत्र व्यवहिते कार्यमिष्यते || पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः ||११६७ ॥ पूजनेभ्यः काष्ठादिभ्यः पूजितवचनमनुदात्तम् । काष्ठाध्यापकः || मलोपश्च वक्तव्यः * ॥ दारुणाध्यापकः । अज्ञाताध्यापकः । समासान्तोदात्तत्वापवादः । एतत्समासे इष्यते । नेह | दारुणमध्यापक इति वृत्तिमतम् । पूजनादित्येव पूजितग्रहणे सिद्धे पूजितग्रहणमनन्तरपूजि - तलाभार्थम् । एतदेव ज्ञापकमत्र प्रकरणे पञ्चमीनिर्देशेऽपि नानन्तर्यमाश्रीयत इति ॥ सग तिरपि तिङ् |८|१|६८ || पूजनेभ्यः काष्ठादिभ्यस्तिङन्तं पूजितमनुदात्तम् । काष्ठ प्रपचति । तिङतिङ इति निघातस्य निपातैर्यदिति निषेधे प्राप्ते विधिरयम् । सगतिग्रहणाच्च गतिरपि निहन्यते ॥ गतिग्रहणे उपसर्गग्रहणमिष्यते * ॥ नेह । यत्काष्ठां शुक्लीकरोति ॥ कुत्सने च सुप्यगोत्रादौ |८|११६९ ॥ कुत्सने च सुबन्ते परे सगतिरगतिरपि तिङनुदात्तः । पचति पूति । प्रपचति पूति । पचति मिथ्या । कुत्सने किम् । प्रपचति शोभनम् । सुपि किम् । पचति क्लिश्नाति । अगोत्रादौ किम् । पचति गोत्रम् ॥ क्रियाकुत्सन इति वाच्यम् * ॥ कर्तुः कुत्सने मा भूत् । पचति पूतिर्देवदत्तः ॥ पूतिश्चानुबन्ध इति वाच्यम् * ॥ तेनायं चकारानुबन्धत्वादन्तोदात्तः ॥ वा बह्वर्थमनुदात्तमिति वाच्यम् * ॥ पचन्ति पूति ॥ गतिर्गतौ |८|११७० ॥ अनुदात्तः । अभ्युद्धरति । गतिः किम् । दत्तः पचति । गतौ किम् । आमन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ॥ तिङि चोदात्तवति |८|१|७१ ॥ गतिरनुदात्तः । यत्प्रपचति । तिङ्ग्रहणमुदात्तवतः परिमाणार्थम् । अन्यथा हि यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गतिस्तत्र धातावेवोदात्तवति स्यात् प्रत्यये न स्यात् । उदावत किम् । प्रपचति ॥ इति तिङन्तखराः ॥
1
अथ वैदिकवाक्येषु खरसंचारप्रकारः कथ्यते । अग्निमीळ इति प्रथमा ऋक् तत्राग्निशदोsव्युत्पत्तिपक्षे फिष् इत्यन्तोदात्त इति माधवः । वस्तुतस्तु घृतादित्वात् । व्युत्पत्तौ तु निप्रत्ययखरेण । अम् सुप्त्वादनुदात्तः । अमि पूर्व इत्येकादेशस्त्वेकादेश उदात्तेनेत्युदात्तः । ईळे । तिङतिङ इति निघातः । संहितायां तूदात्तानुदात्तस्येतीकारः खरितः । स्वरितात्संहितायामिति ळे इत्यस्य प्रचयापरपर्याया एकश्रुतिः । पुरः शब्दोऽन्तोदासः पूर्वाधरावराणामित्यसिप्रत्ययखरात् । हितशब्दोऽपि धाञो निष्ठायां दधातेर्हिरिति ह्यादेशे प्रत्ययखरेणान्तो. दात्तः । पुरोऽव्ययमिति गतिसंज्ञायां कुगतीति समासे समासान्तोदात्ते तत्पुरुषे तुल्यार्थेत्य व्ययपूर्वपदप्रकृतिखरे गतिकारकोपपदात्कृदिति कृदुत्तरपदप्रकृतिखरे थाथादिखरे च पूर्वपूर्वो पमर्देन प्राप्ते गतिरनन्तर इति पूर्वपदप्रकृतिखरः । पुरशब्दोकारस्य संहितायां प्रचये प्राप्ते उदात्तखरितपरस्य सन्नतर इत्यनुदात्ततरः । यज्ञस्य नङः प्रत्ययखरः । विभक्तेः सुत्वादनुदा
१ काष्ठा, दारुण, अमातापुत्र, वेश, अनाज्ञात, अनुज्ञात, अपुत्र, अयुत, अद्भुत, भृश, घोर, सुख, कल्याण, अनुक्त । इति काष्ठादिः । पूजितस्यानुदात्तत्वे काष्ठादिग्रहणमिति वार्तिकदर्शनात्सूत्रे काष्ठादिभ्य इति कैश्चित्प्रक्षिप्तमिति कैयटः ॥