________________
तिङन्तखरप्रक्रिया । आमः परमेकपदान्तरितमामन्त्रितं नानुदात्तम् । आम् पचसि देवदत्ता ३ । एकान्तरं किम् । आम् प्रपचसि देवदत्ता ३ । आमत्रितं किम् । आम् पचति देवदत्तः । अनन्तिके किम् । आम् पचसि देवदत्त ॥ यद्धितुपरं छन्दसि ।८१५६॥ तिङन्तं नानुदात्तम् । उदसृजो यदङ्गिरः । उशन्ति हि । आख्यास्यामि तु ते । निपातैर्यदिति हिचेति तुपश्येति च सिद्धे नियमार्थमिदम् । एतैरेव परभूतैर्योगे नान्यैरिति जाये खारोहावैहि । एहीति गत्यर्थलोटा युक्तस्य लोडन्तस्य निघातो भवति ॥ चनचिदिवगोत्रादितद्धितानेडितेष्वगतेः।८११५७ ॥ एषु षट्सु परतस्तिङन्तं नानुदात्तम् । देवः पचति चन । देवः पचति चित् । देवः पचतीव । देवः पचति गोत्रम् । देवः पचतिकल्पम् । देवः पचतिपचति । अगतेः किम् । देवः प्रचति चन ॥ चादिषु च ।५८॥ चवाहाहैवेषु तिङन्तं नानुदात्तम् । देवः पचति च खादति च । अगतेरित्येव । देवः प्रपचति च प्रखादति च । प्रथमस्य चवायोग इति निघातः प्रतिषिध्यते । द्वितीयं तु निहन्यत एव ॥ चवायोगे प्रथमा ।८।११५९॥ चवेत्याभ्यां योगे प्रथमा तिङिभक्तिर्नानुदात्ता । गाश्च चारयति वीणां वा वादयति । इतो वा सातिमीमहे । उत्तरवाक्ययोरनुषञ्चनीयतिङन्तापेक्षयेयं प्राथमिकी । योगे किम् । पूर्वभूतयोरपि योगे निघातार्थम् । प्रथमाग्रहणं द्वितीयादेस्तिङन्तस्य मा भूत् ॥ हेति क्षियायाम् ।८१६०॥ हयुक्ता प्रथमा तिइविभक्तिर्नानुदात्ता धर्मव्यतिक्रमे । वयं ह रथेन याति ३ । उपाध्यायं पदातिं गमयति । क्षियाशीरिति प्लुतः ॥ अहेति विनियोगे च ।८१।६१॥ अहयुक्ता प्रथमा तिड्विभक्तिर्नानुदाता नानाप्रयोजने नियोगे क्षियायां च । त्वमह ग्रामं गच्छ । क्षियायाम् । खयमह रथेन याति ३ । उपाध्यायं पदाति नयति ॥ चाहलोप एवेत्यवधारणम् ।।१।६२ ॥ च अह एतयोर्लोपे प्रथमा तिङ्गिभक्तिर्नानुदात्ता । देव एव ग्रामं गच्छतु । देव एवारण्य गच्छतु । ग्राममरण्यं च गच्छत्वित्यर्थः । देव एव ग्रामं गच्छतु । राम एवारण्यं गच्छतु । ग्रामं केवलमरण्यं केवलं गच्छत्वित्यर्थः । इहाहलोपः स च केवलार्थः । अवधारणं किम् । देव केव भोक्ष्यसे । न कचिदित्यर्थः । अनवक्तृप्तावेव ॥ चादिलोपे विभाषा ८॥१॥ ६३ ॥ चवाहाहैवानां लोपे प्रथमा तिमिभक्तिर्नानुदात्ता । चलोपे । इन्द्र वाजेषु नोऽव । शुक्ला वीहयो भवन्ति । श्वेता गा आज्याय दुहन्ति । वालोपे । बीहिभिर्यजेत । यवैर्यजेत । वैवावेति च छन्दसि ।।६४ ॥ अहवै देवानामासीत् । अयं वाव हस्त आसीत् ॥ एकान्याभ्यां समर्थाभ्याम् ।।१।६५ ॥ आभ्यां युक्ता प्रथमा तिङिभक्तिर्नानुदात्ता छन्दसि । अजामेकां जिन्वति । प्रजामेकां रक्षति । तयोरन्यः पिप्पलं खाद्वत्ति । समर्थाभ्यां किम् । एको देवानुपातिष्ठत् । एक इति संख्यापरं नान्यार्थम् ॥ यद्वृत्तान्नित्यम् ।८।१। ६६॥ यत्र पदे यच्छब्दस्ततः परं तिङन्तं नानुदात्तम् । यो भुते । यदद्यायुर्वाति ।