________________
३७६
सिद्धान्तकौमुद्याम् तिङन्तं नानुदात्तम् । किं द्विजः पचत्याहोखिद्गच्छति । क्रियेति किम् । साधनप्रश्ने भा भूत् । किं भक्तं पचत्यपूपान्वा । प्रश्ने किम् । किं पठति । क्षेपोऽयम् । अनुपसर्ग किम् । किं प्रपचति उत प्रकरोति । अप्रतिषिद्धं किम् । द्विजो न पचति ॥ लोपे विभाषा ।।१४५॥ किमोऽप्रयोगे उक्तं वा । देवदत्तः पचत्याहोस्वित्पठति ॥ एहिमन्ये प्रहासे लट् ।८।। ४६॥ एहिमन्ये इत्यनेन युक्तं लङन्तं नानुदात्तं क्रीडायाम् । एहि मन्ये भक्तं भोक्ष्यसे नहि भोक्ष्यसे भुक्तं तत्त्वतिथिभिः । प्रहासे किम् । एहि मन्यसे ओदनं भोक्ष्ये इति सुष्ठ मन्यसे । गत्यर्थलोटा लडित्यनेनैव सिद्धे नियमार्थोऽयमारम्भः । एहिमन्येयुक्ते प्रहास एव नान्यत्र । एहि मन्यसे ओदनं भोक्ष्ये ॥ जात्वपूर्वम् ।८१॥४७॥ अविद्यमानपूर्वं यज्जातु तेन युक्तं तिङन्तं नानुदात्तम् । जातु भोक्ष्यसे । अपूर्व किम् । कटं जातु करिष्यसि ॥ किंवृत्तं च चिदुत्तरम् ।।१।४८ ॥ अविद्यमानपूर्व चिदुत्तरं यत्किंवृत्तं तेन युक्तं तिङन्तं नानुदात्तम् । विभक्त्यन्तं डतरडतमान्तं किमो रूपं किंवृत्तम् । कश्चिद्भुङ्क्ते । कतरश्चित् । कतमश्चिद्वा । चिदुत्तरं किम् । को भुङ्क्ते । अपूर्वमित्येव । रामः किंचित्पठति ॥ आहो उताहो चाऽनन्तरम् ।८१॥४९॥ आहो उताहो इत्याभ्यां युक्तं तिङन्तं नानुदात्तम् । आहो उताहो वा भुते । अनन्तरमित्येव । शेषे विभाषां वक्ष्यति । अपूर्वेति किम् । देव आहो भुते ॥ शेषे विभाषा ८१५०॥ अभ्यां युक्तं व्यवहितं तिङन्तं वानुदात्तम् । आहो देवः पचति ॥ गत्यर्थलोटा लण्न चेत्कारकं सर्वान्यत् ।८।११५१ ॥ गत्यर्थानां लोटा युक्तं तिङन्तं नानुदात्तम् । यत्रैव कारके लोट् तत्रैव लडपि चेत् । आगच्छ देव ग्रामं द्रक्ष्यसि । उह्यन्तां देवदत्तेन शालयो रामेण भोक्ष्यन्ते । गत्यर्थे किम् । पच देव ओदनं भोक्ष्यसेऽन्नम् । लोटा किम् । आगच्छेदॆव ग्राम द्रक्ष्यस्येनम् । लट् किम् । आगच्छ देव ग्रामं पश्यस्येनम् । न चेदिति किम् । आगच्छ देव ग्रामं पिता ते ओदनं भोक्ष्यते । सर्वं किम् । आगच्छ देव ग्रामं त्वं चाहं च द्रक्ष्याव एनमित्यत्रापि निघातनिषेधो यथा स्यात् । यल्लोडन्तस्य कारकं तच्चान्यच्च लडन्तेनोच्यते ॥ लोट् च ।।१।५२॥ लोडन्तं गत्यर्थलोटा युक्तं नानुदात्तम् । आगच्छ देव ग्रामं पश्य । गत्यर्थेति किम् । पच देवौदनं भुक्ष्वैनम् । लोट् किम् । आगच्छ देव ग्रामं पश्यसि । न चेत्कारकं सर्वान्यदित्येव । आगच्छ देव ग्रामं पश्यत्वेनं रामः । सर्वग्रहणात्त्विह स्यादेव । आगच्छ देव ग्रामं त्वं चाहं च पश्यावः । योगविभाग उत्तरार्थः ॥ विभाषितं सोपसगेमनुत्तमम् ।८।११५३ ॥ लोडन्तं गत्यर्थलोटा युक्तं तिङन्तं वानुदात्तम् । आगच्छ देव ग्रामं प्रविश । सोपसर्ग किम् । आगच्छ देव ग्रामं पश्य । अनुत्तमं किम् । आगच्छानि देव ग्रामं प्रविशानि ॥ हन्त च ।८।१।५४ ॥ हन्तेत्यनेन युक्तमनुत्तमं लोडन्तं वानुदातम् । हन्त प्रविश । सोपसर्गमित्येव । हन्त कुरु । निपातैर्यद्यदीति निघातप्रतिषेधः । अनुत्तमं किम् । हन्त प्रभुञ्जावहै ॥ आम एकान्तरमामन्त्रितमनन्तिके ८॥१॥५५॥