________________
तिङन्तखरप्रक्रिया |
३७५
न्यनुदात्तान्येतयोः । पचति गोत्रम् । पचति पचति गोत्रम् । एवं प्रवचनप्रहसनप्रकथन प्रत्यायनादयः । कुत्सनाभीक्ष्ण्यग्रहणं पाठविशेषणम् । तेनान्यत्रापि गोत्रादिग्रहणे कुत्सनादावेव कार्यं ज्ञेयम् । गोत्रादीनि किम् । पचति पापम् । कुत्सेति किम् । खनति गोत्रं समेत्य कूपम् ॥ तिङतिङः ||८|१|२८ ॥ अतिङन्तात्पदात्परं तिङन्तं निहन्यते । अग्निमीळे ॥ न लुट् ।८।१।२९ ॥ लुडन्तं न निहन्यते । श्वःकर्ता ॥ निपातैर्यद्यदिहन्तकुविन्नेच्चैचणकच्चिद्यत्रयुक्तम् ||८|१|३० ॥ एतैर्निपातैर्युक्तं न निहन्यते । यदग्ने स्यामहं त्वम् | युवा यदी थः कुविदङ्ग आसन् । अचित्तिभिश्चक्रमा कच्चित् । पुत्रासो यत्र पितरो भवन्ति ॥ नह प्रत्यारम्भे |८|१|३१ ॥ नहेत्यनेन युक्तं तिङन्तं नानुदात्तम् । प्रतिषेधयुक्त आरम्भः प्रत्यारम्भः । नह भोक्ष्यसे । प्रत्यारम्भे किम् । नह वै तस्मिन् लोके दक्षिणमिच्छन्ति ॥ सत्यं प्रश्ने |८|१| ३२ ॥ सत्ययुक्तं तिङन्तं नानुदात्तं प्रश्ने । सत्यं भोक्ष्यसे । प्रश्ने किम् । सत्यमिद्वा उ तं वयमिन्द्रं स्तवाम || अङ्गाप्रातिलोम्ये | ८|१|३३ ॥ अङ्गेत्यनेन युक्तं तिङन्तं नानुदात्तम् । अङ्ग कुरु । अप्रातिलोम्ये किम् । अङ्ग कूजसि वृषल इदानीं ज्ञास्यसि जाल्म । अनभिप्रेतमसौ कुर्वन्प्रतिलोमो भवति ॥ हि च |८|१|३४ ॥ हियुक्तं तिङन्तं नानुदात्तम् । आ हि ष्मा याति । आ हि रुदन्तम् ॥ छन्दस्यनेकमपि साकाङ्क्षम् |८|१|३५ ॥ हीत्यनेन युक्तं साकाङ्क्षमनेकमपि नानुदात्तम् । अनृतं हि मत्तो वदति पाप्मा चैनं न युनाति । तिङन्तद्वयमपि न निहन्यते ॥ यावद्यथाभ्याम् ||८|१|३६|| आभ्यां योगे तिङन्तं नानुदात्तम् । यथाचित्कण्वमावतम् ॥ पूजायां नानन्तरम् |८|१| ३७ ॥ यावद्यथाभ्यां युक्तमनन्तरं तिङन्तं पूजायां नानुदात्तम् । यावत्पचति शोभनम् । यथा पचति शोभनम् । पूजायां किम् । यावद्भुङ्क्ते । अनन्तरं किम् । यावद्देवदत्तः पचति शोभनम् । पूर्वेणात्र निघातः प्रतिषिध्यते ॥ उपसर्गव्यपेतं च |८|१|३८ ॥ पूर्वेणानन्तरमित्युक्तम् । उपसर्गव्यवधानार्थं वचनम् । यावत्प्रपचति शोभनम् । अनन्तरमित्येव । यावद्देवदत्तः प्रपचति शोभनम् ॥ तुपश्यपश्यताऽहैः पूजायाम् ||८|१|३९ ॥ एभिर्युक्तं तिङन्तं न निहन्यते पूजायाम् । आदह स्वधामनु पुनर्गर्भत्वमेरिरे ॥ अहो च |८|१|४० ॥ एतद्योगे नानुदात्तं पूजायाम् ॥ अहो देवदत्तः पचति शोभनम् ॥ शेषे विभाषा |८|१|४१ || अहो इत्यनेन युक्तं तिङन्तं वानुदात्तं पूजायाम् । अहो कटं करिष्यति ॥ पुरा च परीप्सायाम् |८|१|४२ ॥ पुरेत्यनेन युक्तं चानुदात्तं त्वरायाम् । अधीष्व माणवक पुरा विद्योतते विद्युत् । निकटागामिन्यत्र पुराशब्दः । परीप्सायां किम् । न तेन स्म पुराधीयते । चिरातीतेऽत्र पुरा ॥ नन्वित्यनुज्ञैषणायाम् ||८|१|४३ ॥ ननु इत्यनेन युक्तं तिङन्तं नानुदात्तमनुप्रार्थनायाम् । ननु गच्छामि भोः । अनुजानीहि मां गच्छन्तमित्यर्थः । नन्विति किम् । अकार्षीः कटं त्वम् । ननु करोमि । पृष्टप्रतिवचनमेतत् ॥ किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् |८|१|४४ ॥ क्रियाप्रश्ने वर्तमानेन किंशब्देन युक्तं