________________
३७४
सिद्धान्तकौमुद्याम् परोऽन्वादिष्टवाची पुरुषोऽन्तोदात्तः । अन्वादिष्टः पुरुषोऽनुपुरुषः । अन्वादिष्टः किम् । अनुगतः पुरुषोऽनुपुरुषः ॥ अतेरकृत्पदे ।६।२।१९१ ॥ अतेः परमकृदन्तं पदशब्दश्चान्तोदात्तः । अत्यङ्कुशो नागः । अतिपदा गायत्री । अकृत्पदे किम् । अतिकारः ॥ अतेर्धातुलोप इति वाच्यम् * ॥ इह मा भूत् । शोभनो गार्योऽतिगार्ग्यः । इह च स्यात् । अतिक्रान्तः कारुमतिकारुकः ॥ नेरनिधाने ।६।२।१९२॥ निधानमप्रकाशता ततोऽन्यदनिधानं प्रकाशनमित्यर्थः । निमूलम् । न्यक्षम् । अनिधाने किम् । निहितो दण्डो निदण्डः ॥ प्रतेरंश्वादयस्तत्पुरुषे ।६।२।१९३ ॥ प्रतेः परेंऽश्वादयोऽन्तोदात्ताः ॥ प्रतिगतोऽशुः प्रत्यंशुः । प्रतिजनः । प्रतिराजा । समासान्तस्यानित्यत्वान्न टच् ॥ उपाद् व्यजजिनमगौरादयः ।६।२।१९४ ॥ उपात्परं यत् व्यच्कमजिनं चान्तोदात्तं तत्पुरुषे गौरादीन्वर्जयित्वा । उपदेवः । उपेन्द्रः । उपाजिनम् । अगौरादयः किम् । उपगौरः । उपतैषः । तत्पुरुषे किम् । उपगतः सोमोऽस्य स उपसोमः ॥ सोरवक्षेपणे ।।२।१९५ ॥ सुप्रत्यवसितः । सुरत्र पूजायामेव । वाक्यार्थस्त्वत्र निन्दा असूयया तथाभिधानात् । सोः किम् । कुब्राह्मणः । अवक्षेपणे किम् । सुवृषणम् ॥ विभाषोत्पुच्छे ।६।२।१९६ ॥ तत्पुरुषे । उस्तान्तः पुच्छादुत्पुच्छः । यदा तु पुच्छमुदस्यति उत्पुच्छते एरच् उत्पुच्छस्तदा थाथादिखरेण नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयम् । सेयमुभयत्र विभाषा । तत्पुरुषे किम् । उदस्तं पुच्छं येन स उत्पुच्छः॥ द्वित्रिभ्यां पादनमूर्धसु बहुव्रीहौ ।६।२।१९७ ॥ आभ्यां परेष्वेष्वन्तोदात्तो वा । द्विपाच्चतुष्पाच्च रथाय । त्रिपादूर्ध्वः । द्विदन् । त्रिमूर्धानं सप्तरश्मिम् । मूर्धन्नित्यकृतसमासान्त एव मूर्धशब्दः । तस्यैतत्प्रयोजनमसत्यपि समासान्ते अन्तोदात्तत्वं यथा स्यात् । एतदेव ज्ञापकमनित्यः समासान्तो भवतीति । यद्यपि च समासान्तः क्रियते तथापि बहुव्रीहिकार्यत्वात्तदेकदेशत्वाच्च समासान्तोदात्तत्वं पक्षे भवत्येव । द्विमूर्धः । त्रिमूर्धः । द्वित्रिभ्यां किम् । कल्याणमूर्धा । बहुव्रीहौ किम् । द्वयोर्मूर्धा द्विमूर्धा ॥ सक्थं चाऽकान्तात् ।६।२।१९८ ॥ गौरसक्थः । श्लक्ष्णसक्थः । अक्रान्तात्किम् । चक्रसक्थः । समासान्तस्य षचश्चित्त्वान्नित्यमेवान्तोदात्तत्वं भवति ॥ परादिश्छन्दसि बहुलम् वा२।१९९॥ छन्दसि परस्य सक्थशब्दस्यादिरुदात्तो वा । अजिसक्थमालभेत । अत्र वार्तिकम् ॥ परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते । पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं यतः * ॥ इति । परादिः । तुविजाता उरुक्षया । परान्तः । नि येन मुष्टिहत्यया । यस्त्रिचक्रः । पूर्वान्तः। विश्वायुधैहि ॥ इति समासस्वराः॥
तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ।।१।२७ ॥ तिङन्तात्पदागोत्रादी१ अंशु, जन, राजन् , उष्ट्र, खेटक, अजिर, आर्द्रा, श्रवण, कृत्तिका, अर्धपुर । इत्यंश्वादिः ॥ २ गौर, तैष, तैल, लेट, लोट, जिह्वा, कृष्ण, कन्या, गुध, कल्प, पाद । इति गौरादिः॥ ३ गोत्र, ब्रुव, प्रवचन, प्रयजन, पवन, यजन, प्रहसन, प्रकथन, प्रत्यायन, प्रचक्षण, विचक्षण, अवरक्षण, खाध्याय, भूयिष्ठ, वानाम । इति गोत्रादिः ।।