________________
समासखरप्रक्रिया ।
३७३ पूर्वमित्यनुवर्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमार्थम् । हखान्तेऽन्त्यादेव पूर्वपदमुदात्तं न कपि पूर्वमिति । अज्ञकः । कबन्तस्यैवान्तोदात्तत्वम् ॥ बहोर्नवदुत्तरपदभून्नि ।६।२। १७५ ॥ उत्तरपदार्थबहुत्ववाचिनो बहोः परस्य पदस्य नञः परस्येव खरः स्यात् । बहुव्रीहिकः । बहुमित्रकः । उत्तरपदेति किम् । बहुषु मानोऽस्य स बहुमानः । न गुंणादयोऽवयवाः ।६।२।१७६ ॥ अवयववाचिनो बहोः परे गुणादयो नान्तोदात्ता बहुव्रीहौ । बहुगुणा रज्जुः । बह्वक्षरं पदम् । बबध्यायः । गुणादिराकृतिगणः । अवयवाः किम् । बहुगुणो द्विजः । अध्ययनश्रुतसदाचारादयो गुणाः ॥ उपसर्गात्स्वाङ्गं ध्रुवमपशु ।व।२।१७७ ॥ प्रपृष्ठः । प्रललाटः । ध्रुवमेकरूपम् । उपसर्गात्किम् । दर्शनीयपृष्ठः । खाङ्गं किम् । प्रशाखो वृक्षः । ध्रुवं किम् । उहाहुः । अपशु किम् । विपशुः ॥ वनं समासे ।६।२।१७८ ॥ समासमात्रे उपसर्गादुत्तरपदं वनमन्तोदात्तम् । तस्येदिमे प्रवणे ॥ अन्तः ।६।२।१७९॥ अस्मात्परं वनमन्तोदात्तम् । अन्तर्वणो देशः । अनुपसर्गार्थमिदम् ।। अन्तश्च ।६।२। ९८०॥ उपसर्गादन्तःशब्दोऽन्तोदात्तः । पर्यन्तः । समन्तः ॥ न निविभ्याम् ।६।२। १८१ ॥ न्यन्तः । व्यन्तः । पूर्वपदप्रकृतिखरे यणि च कृते उदात्तखरितयोर्यण इति खरितः॥ परेरभितोभावि मण्डलम् ।।२।१८२ ॥ परेः परमभित उभयतो भावो यस्यास्ति तत्कूलादि मण्डलं चान्तोदात्तम् । परिकूलम् । परिमण्डलम् ॥ प्रादखाङ्गं संज्ञायाम् ।।२।१८३ ॥ प्रगृहम् । अखाङ्गं किम् । प्रपदम् ॥ निरुदकादीनि च ।६।२। १८४ ॥ अन्तोदात्तानि । निरुदकम् । निरुपलम् ॥ अभेर्मुखम् ।६।२।१८५ ॥ अभिमुखम् । उपसर्गात्स्वाङ्गमिति सिद्धे बहुव्रीह्यर्थमध्रुवार्थमखाङ्गार्थ चेदम् । अभिमुखा शाला ॥ अपाच ।६।२।१८६॥ अपमुखम् । योगविभाग उत्तरार्थः ॥ स्फिगपूतवीणाऽञोsध्वकुक्षिसीरनामनाम च ।६।१८७ ॥ अपादिमान्यन्तोदात्तानि । अपस्फिगम् । अपपूतम् । अपवीणम् । अञ्जस् । अपाञ्जः । अध्वन् । अपाध्वा । उपसर्गादध्वन इत्यस्याभावे इदम् । एतदेव च ज्ञापकं समासान्तानित्यत्वे । अपकुक्षिः । सीरनाम । अपसीरम् । अपहलम् । नाम । अपनाम ॥ स्फिगपूतकुक्षिग्रहणमबहुव्रीह्यर्थमध्रुवार्थमखानार्थं च ॥ अधेरुपरिस्थम् ।६।२।१८८ ॥ अध्यारूढो दन्तोऽधिदन्तः दन्तस्योपरि जातो दन्तः । उपरिस्थं किम् । अधिकरणम् ॥ अनोरप्रधानकनीयसी ।।२।१८९॥ अनोः परमप्रधानवाचि कनीयश्चान्तोदात्तम् । अनुगतो ज्येष्ठमनुज्येष्ठः । पूर्वपदार्थप्रधानः प्रादिसमासः । अनुगतः कनीयाननुकनीयान् । उत्तरपदार्थप्रधानः । प्रधानार्थं च कनीयोग्रहणम् । अप्रेति किम् । अनुगतो ज्येष्ठोऽनुज्येष्ठः ॥ पुरुषश्चाऽन्वादिष्टः ।।२।१९० ॥ अनोः
१ गुण, अक्षर, अध्याय, सूक्त, छन्दोनाम । इति गुणादिराकृतिगणः॥ २ निरुदक, निरुपल, निर्मक्षिक, निर्मशक, ऋष्फालक, निष्कालिक, निष्पेष, दुस्तरीप, निस्तरीप, निस्तरीक, निरजिन, उदजिन, उपाजिन, परेर्हस्तपादकेशकर्षाः । निरुदकादिराकृतिगणः॥