________________
३७२
सिद्धान्तकौमुद्याम् चार्वादिः । अचारुः । असाधुः ॥ राजाह्रोश्छन्दसि ॥ अराजा । अनहः । भाषायां नञः खर एव ॥ विभाषा तृन्नन्नतीक्ष्णशुचिषु ।६।२।१६१ ॥ तृन् । अकर्ता । अन्न । अनन्नम् । अतीक्ष्णम् । अशुचि । पक्षे अव्ययवरः ॥ बहुव्रीहाविदमेतत्तन्यः प्रथमपूरणयोः क्रियागणने ।६२।१६२ ॥ एभ्योऽनयोरन्त उदात्तः । इदं प्रथममस्य स इदंप्रथमः । एतद्वितीयः । तत्पञ्चमः । बहुव्रीहौ किम् । अनेन प्रथम इदंप्रथमः । तृतीयेति योगविभागात्समासः । इदमेतत्तभ्यः किम् । यत्प्रथमः । प्रथमपूरणयोः किम् । तानि बहून्यस्य तद्बहुः । क्रियागणने किम् । अयं प्रथमः प्रधानं येषां ते इदंप्रथमाः । द्रव्यगणनमिदम् । गणने किम् । अयं प्रथम एषां ते इदंप्रथमाः । इदंप्रधाना इत्यर्थः । उत्तरपदस्य कार्यित्वात्कपि पूर्वमन्तोदात्तम् । इदंप्रथमकाः । बहुव्रीहावित्यधिकारो वनंसमास इत्यतः प्राग्बोध्यः ॥ संख्यायाः स्तनः ।६।२।१६३ ॥ बहुव्रीहावन्तोदात्तः । द्विस्तना । चतुःस्तना । संख्यायाः किम् । दर्शनीयस्तना । स्तनः किम् । द्विशिराः ॥ विभाषा छन्दसि ।६।२।१६४॥ द्विस्तनां करोति ॥ संज्ञायां मित्राजिनयोः।६।२।१६५ ॥ देवमित्रः । कृष्णाजिनम् । संज्ञायां किम् । प्रियमित्रः ॥ ऋषिप्रतिषेधोमित्रे * ॥ विश्वामित्र ऋषिः ॥ व्यवायिनोऽन्तरम् ।६।२।१६६ ॥ व्यवधानवाचकात्परमन्तोदात्तम् । वस्त्रमन्तरं व्यवधायकं यस्य स वस्त्रान्तरः । व्यवायिनः किम् । आत्मान्तरः । अन्यखभाव इत्यर्थः ॥ मुखं वाङ्गम् ।६।२।१६७ ॥ गौरमुखः । खाङ्गं किम् । दीर्घमुखा शाला ॥ नाऽव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ।।२।१६८ ॥ उच्चैर्मुखः। प्राङ्मुखः । गोमुखः । महामुखः । स्थूलमुखः । मुष्टिमुखः । पृथुमुखः । वत्समुखः । पूर्वपदप्रकृ. तिखरोऽत्र । गोमुष्टिवत्सपूर्वपदस्योपमानलक्षणोऽपि विकल्पोऽनेन बाध्यते ॥ निष्ठोपमानादन्यतरस्याम् ।।२।१६९॥ निष्ठान्तादुपमानवाचिनश्च परं मुखं खाङ्गं वान्तोदात्तं बहुव्रीहौ । प्रक्षालितमुखः । पक्षे निष्ठोपसर्गेति पूर्वपदान्तोदात्तत्वम् । पूर्वपदप्रकृतिखरत्वेन गतिखरोऽपि भवति । उपमानम् । सिंहमुखः ॥ जातिकालसुखांदिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः ।।२।१७०॥ सारङ्गजग्धः । मासजातः । सुखजातः । दुःखजातः । जातिकालेति किम् । पुत्रजातः । अनाच्छादनाकिम् । वस्त्रच्छन्नः। अकृतेति किम् । कुण्डकृतः । कुण्डमितः । कुण्डप्रतिपन्नः । अस्माज्ज्ञापकान्निष्ठान्तस्य परनिपातः॥ वा जाते ।६।२१७१ ॥ जातिकालसुखादिभ्यः परो जातशब्दो वान्तोदात्तः । दन्तजातः । मासजातः ॥ नसुभ्याम् ।६२।१७२ ॥ बहुव्रीहावुत्तरपदमन्तोदात्तम् । अत्रीहिः । सुमाषः ॥ कपि पूर्वम् ।६।२।१७३ ॥ नसुभ्यां परं यदुत्तरपदं तदन्तस्य समानस्य पूर्वमुदात्तं कपि परे । अब्रह्मबन्धुकः । सुकुमारीकः ॥ इवान्तेऽन्त्यात्पूर्वम् ।६।२।१७४ ॥ हखान्तोत्तरपदसमासेऽन्त्यात्पूर्वमुदात्तं कपि नसुभ्यां परं बहुव्रीहौ । अव्रीहिकः । सुमाषकः ।
१ सुख, दुःख, कृच्छ्र, अस्र, अलीक, प्रतीप, करुण, कृपण, तृप्र, सोढ । इति सुखादिः ॥