________________
समासखरप्रक्रिया ।
३७१
यनम् । राजासनम् । अश्वस्थानम् । ब्राह्मणयाजकः । गोक्रीतः । कारकात्किम् । प्रभूतौ सङ्गतिम् । अत्र तादौ च नितीति खरः ॥ सप्तम्याः पुण्यम् । ६।२।१५२ ॥ आन्तोदात्तम् । अध्ययनपुण्यम् । तत्पुरुषे तुल्यार्थेति प्राप्तम् । सप्तम्याः किम् । वेदेन पुण्यं वेदपुण्यम् । ऊनार्थ कलहं तृतीयायाः | ६|२| १५३ ॥ माषोनम् । माषविकलम् । वाक्कलहः । तृतीयापूर्वपदप्रकृति - स्वरापवादोऽयम् । अत्र केचिदर्थेति स्वरूपग्रहणमिच्छन्ति । धान्यार्थः । ऊनशब्देन त्वर्थनिदेशार्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव सिद्धे तृतीयाग्रहणं स्पष्टार्थम् ॥ मिश्रं चानुपसर्गमसन्धौ |६|२| १५४ ॥ पणबन्धेनैकार्थ्यं सन्धिः । तिलमिश्राः । सर्पिमिश्राः । मिश्रं किम् । गुडधानाः । अनुपसर्गे किम् । तिलसंमिश्राः । मिश्रग्रहणे सोपसर्गग्रहणस्येदमेव ज्ञापकम् । असन्धौ किम् । ब्राह्मणमिश्रो राजा । ब्राह्मणैः सह संहित ऐकार्थ्यमापन्नः ॥ नञो गुणप्रतिषेधे संपाद्यर्हहितालमर्थास्तद्धिताः । ६।२।१५५ ॥ संपाद्याद्यर्थतद्धितान्ता नञो गुणप्रतिषेधे वर्तमानात्परेऽन्तोदात्ताः । कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकम् । न कार्णवेष्टकिकमकार्णवेष्टकिकम् । छेदमर्हति छैदिकः । न छैदिकोऽच्छेदिकः । न वत्सेभ्यो हितोऽवत्सीयः । न सन्तापाय प्रभवति असान्तापिकः । नञः किम् । गर्दभरथमर्हति गार्दभरथिकः । विगार्दभरथिकः । गुणप्रतिषेधे किम् । गार्दभरथिकादन्योऽगार्दभर थिकः । गुणो हि तद्धितार्थे प्रवृत्तिनिमित्तं संपादित्वाद्युच्यते । तत्प्रतिषेधो यत्रोच्यते तत्रायं विधिः । कर्णवेष्टकाभ्यां न संपादि मुखमिति । संपेति किम् । पाणिनीयमधीते पाणिनीयः । न पाणिनीयः अपाणिनीयः । तद्धिताः किम् । वोढुमर्हति वोढा । न वोढाऽवोढा ॥ ययतोश्चादर्थे |६| २|१५६ ।। ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्य नञो गुणप्रतिषेधव - षयात्परस्यान्त उदात्तः स्यात् । पाशानां समूहः पाश्या । न पाश्या अपाश्या । अदन्त्यम् । अतदर्थे किम् । अपाद्यम् । तद्धितः किम् । अदेयम् । गुणप्रतिषेधे किम् । दन्त्यादन्यददन्त्यम् । तदनुबन्धग्रहणे नातदनुबन्धकस्येति । नेह । अवामदेव्यम् ॥ अचूकावशक्त ।६।२।१५७ ॥ अजन्तं कान्तं च नञः परमन्तोदात्तमशक्तौ गम्यायाम् । अपचः । पक्तुं न शक्तः। अविलिखः । अशक्तौ किम् । अपचो दीक्षितः । गुणप्रतिषेधे इत्येव । अन्योऽयं पचादपचः ॥ आक्रोशे च । ६ । २ १५८ ॥ नञः परावच्कावन्तोदात्तावाक्रोशे । अपच जाल्मः । पक्तुं न शक्नोतीत्येवमाक्रोश्यते । अविक्षिपः || संज्ञायाम् || ६ |२| १५९ ॥ नञः परमन्तोदात्तं संज्ञायामाक्रोशे । अदेवदत्तः ॥ कृत्योकेष्णुच्चार्वादयश्च |६| २|१६० ॥ नञः परेऽन्तोदात्ताः स्युः । अकर्तव्यः । उकू । अनागामुकः । इष्णुच् । अनलङ्करिष्णुः । ग्रह खिष्णुचो धनुबन्धकस्यापि ग्रहणमिकारादेर्विधानसामर्थ्यात् । अनाढ्यम्भविष्णुः
१ चारु, साधु, यौधिकी, अनङ्गमेजय, वदान्य, अकस्मात्, “वर्तमान, वर्धमान, त्वरमाण, ध्रियमाण, क्रियमाण, रोचमान, शोभमानाः संज्ञायाम्" विकारसदृशे व्यस्तसमस्ते, गृहपति, गृहपतिक, राजाहोरछन्दसि । इति चार्वादिः ॥