________________
सिद्धान्तकौमुद्याम् २२८८ ॥ इह युष्मदस्मदोराकारोऽन्तादेशः स्यात् । औङीत्येव सुवचम् । भाषायां किम् । युवं वस्त्राणि । युवाम् । आवाम् । मपर्यन्तस्य किम् । साकच्कस्य मा भूत् । युवकाम् । आवकाम् । त्वया मयेत्यत्र ल्या म्येति मा भूत् । युवकाभ्यामावकाभ्यामिति च न सिद्ध्येत् ॥ यूयवयौ जसि ।७२।९३ ॥ स्पष्टम् । यूयम् । वयम् । परमयूयम् । परमवयम् । अतियूयम् । अतिवयम् । इह शेषे लोपोऽन्त्यलोप इति पक्षे जसः शी प्राप्तः । अङ्गकार्ये कृते पुनर्नाङ्गकार्यमिति न भवति । उप्रथमयोरित्यत्र मकारान्तरं प्रश्लिष्य अम् मान्त एवावशिष्यते नतु विक्रियत इति व्याख्यानाद्वा ॥ त्वमावेकवचने ७।२।९७ ॥ एकस्योक्तौ युष्मदस्मदोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ ॥ द्वितीयायां च ।७२।८७॥ युष्मदस्मदोराकारः स्यात् । त्वाम् । माम् । युवाम् । आवाम् ॥ शसो न ।११।२९॥ नेत्यविभक्तिकम् । युष्मदस्मभ्यां परस्य शसो नकारः स्यात् । अमोऽपवादः । आदेः परस्य । संयोगान्तस्य लोपः। युष्मान् । अस्मान् ॥ योऽचि ७२।८९ ॥ अनयोर्यकारादेशः स्यादनादेशेऽजादौ परतः । त्वया । मया ॥ युष्मदस्मदोरनादेशे ॥२॥८६॥ अनयोराकारः स्यादनादेशे हलादौ विभक्तौ । युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः ॥ तुभ्यमह्यौ ङयि ।। ९५ ॥ अनयोर्मपर्यन्तस्य तुभ्यमह्यौ स्तो ङयि । अमादेशः । शेषे लोपः । तुभ्यम् । मह्यम् । परमतुभ्यम् । परममह्यम् । अतितुभ्यम् । अतिमह्यम् । युवाभ्याम् । आवाभ्याम् ॥ भ्यसो. भ्यम् ॥११॥३०॥ भ्यसो भ्यम् अभ्यम् वा आदेशः स्यात् । आद्यः शेषे लोपस्यान्तलोपत्व एव । तत्रावृत्तपरिभाषया एत्वं न । अभ्यम् तु पक्षद्वयेऽपि साधुः । युष्मभ्यम् । अस्मभ्यम् ।। एकवचनस्य च ।।१॥३२॥ आभ्यां पञ्चम्येकवचनस्यात्स्यात् । त्वत् । मत् । ङसेश्चेति सुवचम् । युवाभ्याम् । आवाभ्याम् ॥ पञ्चम्या अत् ७१॥३१॥ आभ्यां पञ्चम्या भ्यसोऽत्स्यात् । युष्मत् । अस्मत् ॥ तवममौ डसि ७२।९६॥ अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि ॥ युष्मदस्मन्यां ङसोऽश ७२७॥ स्पष्टम् । तव । मम । युवयोः । आवयोः॥ साम आकम् ॥१॥३३ ॥ आभ्यां परस्य साम आकं स्यात् । भाविनः सुटो निवृत्त्यर्थ ससुटूनिर्देशः। युष्माकम् । अस्माकम् । त्वयि । मयि । युवयोः । आवयोः । युष्मासु । अस्मासु॥ समस्यमाने ध्येकत्ववाचिनी युष्मदस्मदी । समासार्थोऽन्यसंख्यश्चेत्स्तो युवावौ त्वमावपि ॥१॥ सुजस्डेङस्सु परत आदेशाः स्युः सदैव ते । त्वाही यूयवयौ तुभ्यमह्यौ तवममावपि ॥ २ ॥ एते परत्वाद्वाधन्ते युवावौ विषये खके । त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधतः॥ ३ ॥ येकसंख्यः समासार्थों बह्वर्थे युष्मदस्मदी । तयोरब्येकतार्थत्वान्न युवावौ त्वमौ च न ॥४॥ त्वां मां वा अतिक्रान्त इति विग्रहे । अतित्वम् । अत्यहम् । अतित्वाम् । अति
१ ओकारसकारभकारादी सुपि परतः सर्वनाम्नष्टेःप्रागकच् । अन्यत्र तु सुबन्तस्य टेः प्रागकच इति सिद्धान्तितत्वेन युवकाम् आवकामित्यत्र दोषाभावात् मपर्यन्तस्येत्यधिकारस्य प्रयोजनान्तरमाह-त्वया मयेति । योऽचीत्यत्र अच्ये इति न्यासेन त्वया मयेति सिद्धौ दोषान्तरमाह-युवकाभ्यामिति ॥ २ अङ्गवृत्ते पुनर्वृत्तावविधिःअनाधिकारे वृत्तं निष्पन्न कार्य तस्मिन्सति पुनरन्यस्याङ्गकार्यस्य प्रवृत्ती प्राप्तायामविधिरित्यर्थः॥