________________
हलन्ताः पुंलिङ्गाः। इति कुत्वम् । किन्प्रत्ययस्येति कुत्वस्यासिद्धत्वात् । सुयुक् । सुयुग् । सुयुजौ । सुयुजः । युजेरिति धातुपाठपठितेकारविशिष्टस्यानुकरणं न त्विका निर्देशः । तेनेह न । युज्यते समाधत्ते इति युक् । युज समाधौ देवादिक आत्मनेपदी । संयोगान्तलोपः । खन् । खञ्जौ । खञ्जः। इत्यादि । ब्रश्चेति षत्वम् । जश्त्वचत्वे । राह । राड् । राजौ । राजः । राट्सु । राट्त्सु । एवं विभ्राट् । देवेट् । देवेजौ । देवेजः । विश्वसृट् । विश्वसृड् । विश्वसृजौ । विश्वसृजः । इह सृजियुज्योः कुत्वं नेति क्लीबे वक्ष्यते । परिमृट् । षत्वविधौ राजिसाहचर्यात् टुभ्राजृ दीप्ताविति । फणादिरेव गृह्यते । यस्तु एजुभेजृभ्रातृ दीप्ताविति तस्य कुत्वमेव । विभ्राक् । विनाम् । विभ्राग्भ्यामित्यादि ॥ परौ बजेः षः पदान्ते * ॥ पराववुपपदे ब्रजेः विप् स्यादीर्घश्च पदान्तविषये षत्वं च । परित्यज्य सर्वं व्रजतीति परिव्राट् । परिम्राजौ । परिव्राजः ॥ विश्वस्य वसुराटोः।६३।१२८॥ विश्वशब्दस्य दीर्घः स्याद्वसौ राशब्दे च परे । विश्वं वसु यस्य स विश्वावसुः । राडिति पदान्तोपलक्षणार्थम् । चर्वमविवक्षितम् । विश्वाराट् । विश्वाराड्। विश्वराजौ। विश्वराजः । विश्वाराड्भ्यामित्यादि ॥ स्कोः संयोगायोरन्ते च ८।२।२९ ॥ पदान्ते झलि च परे यः संयोगस्तदाद्योः सकारककारयोर्लोपः स्यात् । भृट् । भृड् । सस्य श्रुत्वेन शः। तस्य जश्त्वेन जः । भृजौ । भृजः । ऋत्विगित्यादिना ऋतावुपपदे यजेः किन् । किन्नन्तत्वात्कुत्वम् । ऋत्विक् । ऋत्विग् । ऋत्विजौ । ऋत्विजः । रात्सस्येति नियमान्न संयोगान्तलोपः । ऊर्छ । ऊर्ग । ऊर्जी । ऊर्जः । त्यदाद्यत्वं पररूपत्वं च ॥ तदोः सः सावनन्त्ययोः।७२।१०६॥ त्यदादीनां तकारदकारयोरनन्त्ययोः सः स्यात्सौ परे । स्यः । त्यौ। त्ये । त्यम् । त्यौ । त्यान् । सः । तौ । ते । परमसः । परमतौ । परमते । द्विपर्यन्तानामित्येव । नेह । त्वम् । नच तकारोच्चारणसामर्थ्यान्नेति वाच्यम् , अतित्वमिति गौणे चरितार्थत्वात् । संज्ञायां गौणत्वे चात्वसत्वे न । त्यद् । त्यदौ । त्यदः । अतित्यद् । अतित्यदौ । अतित्यदः । यः। यौ। ये । एषः । एतौ । एते। अन्वादेशे तु । एनम् । एनौ । एनान् । एनेन । एनयोः २॥ २ प्रथमयोरम् ॥१॥२८॥ युष्मदस्मभ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः स्यात् ॥ मपर्यन्तस्य ।७२।९१ ॥ इत्यधिकृत्य ॥ त्वाहौ सौ ॥२॥ ९४ ॥ युष्मदस्मदोर्मपर्यन्तस्य त्व अह इत्येतावादेशौ स्तः सौ परे ॥ शेषे लोपः । ९०॥ आत्वयत्वनिमित्तेतरविभक्तौ परतो युष्मदस्मदोरन्त्यस्य लोपः स्यात् ॥ कतो गुणे ॥ अमि पूर्वः ॥ त्वम् । अहम् । ननु त्वं स्त्री अहं स्त्री इत्यत्र व अम् अह अम् इति स्थिते अमि पूर्वरूपं परमपि बाधित्वाऽन्तरङ्गत्वाट्टाप् प्राप्नोति । सत्यम् । अलिङ्गे युष्मदस्मदी । तेन स्त्रीत्वाभावान्न टाप् । यद्वा शेष इति सप्तमी स्थानिनोऽधिकरणत्वविवक्षया । तेन मपर्यन्ताच्छेषस्य अद् इत्यस्य लोपः । स च परोऽप्यन्तरङ्गे अतो गुणे कृते प्रवर्तते । अदन्तत्वाभावान्न टाप् । परमत्वम् । परमाहम् । अतित्वम् । अत्यहम् ॥ युवावौ द्विवचने ।७।२।९२॥ द्वयोरुक्तौ युष्मदस्मदोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ ॥ प्रथमायाश्च द्विवचने भाषायाम् ।।