________________
३२
सिद्धान्तकौमुद्याम् एवं मन्थाः । ऋभुक्षाः । स्त्रियां नान्तलक्षणे ङीपि भत्वाहिलोपः । सुपथी । सुमथी नगरी । अनुभुक्षी सेना । आत्वं नपुंसके न भवति । न लुमतेति प्रत्ययलक्षणनिषेधात् । सुपथि वनम् ॥ संबुद्धौ नपुंसकानां नलोपो वा वाच्यः * ॥ हे सुपथिन् । हे सुपथि । नलोपः सुप्खरेति नलोपस्यासिद्धत्वाखस्य गुणो न । द्विवचने भत्वाहिलोपः । सुपथी । शौ सर्वनामस्थानत्वात् । सुपन्थानि । पुनरपि सुपथि । सुपथी । सुपन्थानि सुपथा । सुपथे । सुपथिभ्यामित्यादि । ष्णान्ता षट् ।।१।२४॥ षान्ता नान्ता च संख्या षट्संज्ञा स्यात् ॥ षड्भ्यो लुक् ॥ पञ्च २ । संख्या किम् । विपुषः । पामानः । शतानि सहस्राणीत्यत्र संनिपातपरिभाषया न लुक् । सर्वनामस्थानसंनिपातेन कृतस्य नुमस्तदविघातकत्वात् । पञ्चभिः । पञ्चभ्यः २। षट्चतुर्थ्यश्चेति नुट् ॥ नोपधायाः।६।४७॥ नान्तस्योपधाया दीर्धः स्यान्नामि परे । नलोपः । पञ्चानाम् । पञ्चसु । परमपञ्च । परमपञ्चानाम् । गौणत्वे तु न लुग्मुटौ । प्रियपञ्चा । प्रियपञ्चानौ । प्रियपञ्चानः । प्रियपञ्चाम् । एवं सप्तन् नवन् दशन् ॥ अष्टन आ विभक्तौ ।।२।८४ ॥ अष्टन आत्वं स्याद्धलादौ विभक्तौ ॥ अष्टाभ्य औश ॥१॥२१॥ कृताकारादष्टनः परयोर्जश्शसोरौश् स्यात् । अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति । वैकल्पिकं चेदमष्टन आत्वम् । अष्टनो दीर्घादिति सूत्रे दीर्घग्रहणाज्ज्ञापकात् । अष्टौ २ । परमाष्टौ । अष्टाभिः । अष्टाभ्यः २ । अष्टानाम् । अष्टासु । आत्वाभावे । अष्ट । अष्ट इत्यादि पञ्चवत् । गौणत्वे त्वात्वाभावे राजवत् । शसि प्रियाष्ट्रः । इह पूर्वस्मादपि विधावल्लोपस्य स्थानिवद्भावान्न ष्टुत्वम् । कार्यकालपक्षे बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वा । प्रियाष्ट्र इत्यादि । जश्शसोरनुमीयमानमात्वं प्राधान्य एव न तु गौणतायाम् । तेन प्रियाष्ट्रो हलादावेव वैकल्पिकमात्वम् । प्रियाष्टाभ्याम् । प्रियाष्टाभिः । प्रियाष्टाभ्यः २ । प्रियाष्टासु । प्रियाष्ट्रो राजवत्सर्वं हाहावच्चापैरं हलि ॥ भष्भावः । जश्त्वचर्वे । भुत् । मुद् । बुधौ । बुधः । बुधा । भुभ्याम् । भुत्सु । ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चयुजिक्रुश्चां च ।।२।५९॥ एभ्यः क्विन् स्यात् । अलाक्षणिकमपि किंचित्कार्य निपातनाल्लभ्यते। निरुपपदाधुजेः किन् । कनावितौ ॥ कृदतिङ् ३३१०९३ ॥ संनिहिते धात्वधिकारे तिकभिन्नः प्रत्ययः कृत्संज्ञः स्यात् ॥ वेरपृक्तस्य ।६।१।६७ ॥ अपृक्तस्य वस्य लोपः स्यात् । कृत्तद्धितेति प्रातिपदिकत्वात्खादयः ॥ युजेरसमासे ।।१।७१ ॥ युजेः सर्वनामस्थाने नुम् स्यादसमासे । सुलोपः । संयोगान्तस्य लोपः ॥ किन्प्रत्ययस्य कु.।।२।६२ ॥ किन्प्रत्ययो यस्मात्तस्य कवर्गोऽन्तादेशः स्यात्पदान्ते । नस्य कुत्वेनानुनासिको ङकारः । यु । नश्वापदान्तस्येति नुमोऽनुस्खारः परसवर्णः तस्यासिद्धत्वाचोः कुरिति कुत्वं न । युञ्जौ । युञ्जः । युञ्जम् । युञ्जौ। युजः । युजा । युग्भ्यामित्यादि । असमासे किम् ॥ चोः कुः ।८२।३०॥ चवर्गस्य कवर्गः स्याज्झलि पदान्ते च ।
१ इदं भनुमीयमानं अष्टन आ इति सूत्र विहितं च ॥ २ दीर्घात् अष्टन्शब्दात् असर्वनामस्थानविभक्तिरदात्तेति अष्टनो दीर्घादिति सूत्रार्थः॥ ३ अपरं आलपक्षीयमित्यर्थः ॥