________________
३१
हलन्ताः पुंलिङ्गाः । |८|४|२२ ॥ उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णत्वं स्यात् । प्रहण्यात् ॥ अत्पूर्वस्य ।८।४।२२ ॥ हन्तेरत्पूर्वस्यैव नस्य णत्वं नान्यस्य । प्रघ्नन्ति । योगविभागसामर्थ्यादनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति न्यायं बाधित्वा एकाजुत्तरपदे इति णत्वमपि निवर्त्तते । नकारे परे कुत्वविधिसामर्थ्यादल्लोपो न स्थानिवत् । वृत्रघ्नः । वृत्रघ्ना इत्यादि । यत्तु वृत्रघ्न इत्यादौ वैकल्पिकं णत्वं माधवेनोक्तं तद्भाष्यवार्तिकविरुद्धम् । एवं शार्ङ्गिन्यशखिन्नर्यमन्पूषन् । यशस्विन्निति विन्प्रत्यये इनोऽनर्थकत्वेऽपि इन्हन्नित्यत्र ग्रहणं भवत्येव । अनिनस्मनूग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ततीति वचनात् । अर्थणि । अर्यमणि । पूणि । पूषणि ॥ मघवा बहुलम् |६|४|१२८ ॥ मघवन् शब्दस्य वा तृ इत्यन्तादेशः स्यात् । ऋ इत् ॥ उगिदचां सर्वनामस्थानेऽधातोः | ७|१।७० ॥ अधातोरुगितो नलोपिनोऽञ्चतेश्च नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । मघवान् । इह दीर्घे कर्तव्ये संयोगान्तलोपस्यासिद्धत्वं न भवति बहुलग्रहणात् । तथा च धनुन्नि निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वयसिद्धिमाश्रित्यैतत् सूत्रं प्रत्याख्यातमाकरे । हविर्जक्षिति निःशङ्को मखेषु मघवानसाविति भट्टिः । मघवन्तौ । मघवन्तः । हे मघवन् । मघवन्तम् । मघवन्तौ । मघवतः । मघवता । मघवद्भ्यामित्यादि । तृत्वाभावे मघवा । छन्दसीवनिपौ चेति वनिबन्तं मध्योदात्तं छन्दस्येव, अन्तोदात्तं तु लोकेऽपीति विशेषः । मघवानौ । मघवानः । सुटि राजवत् ॥ श्वयुवमघोनामतद्धिते |६|४|१३३ || अन्नन्तानां भसंज्ञकानामेषामतद्धिते परे संप्रसारणं स्यात् । संप्रसारणाच्च । आद्गुणः । मघोनः । अन्नन्तानां किम् । मघवतः । मघवता । स्त्रियां मघवती । अतद्धिते किम् । माघवनम् । मघोना । मघवभ्यामित्यादि । शुनः । शुना । श्वभ्यामित्यादि । युवन्शब्दे वस्योत्वे कृते ॥ न संप्रसारणे संप्रसारणम् |६| १ | ३७ ॥ संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात् । इति यकारस्य नेत्वम् । अत एव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम् । यूना । युवभ्यामित्यादि । अर्वा । हे अर्वन् ॥ अर्वणस्त्र सावनञः | ६|४|१२७ ॥ नत्रा रहितस्यार्वन्नन्तस्याङ्गस्य तृ इत्यन्तादेशः स्यान्न तु सौ । उगित्त्वान्नुम् । अर्वन्तौ । अर्वन्तः । अर्वन्तम् । अर्वन्तौ । अर्वतः । अर्वता । अर्वच्यामित्यादि । अनञः किम् । अनर्वा यज्ववत् ॥ पथि - मध्यृभुक्षामात् |७|१|८५ ॥ एषामाकारोऽन्तादेशः स्यात्सौ परे । आ आदिति श्लेषेण शुद्धाया एव व्यक्तेर्विधानान्नानुनासिकः ॥ इतोऽत्सर्वनामस्थाने |७|१|८६ ॥ पथ्यादेरिकारस्याऽकारः स्यात्सर्वनामस्थाने परे ॥ थो न्थः । ७|१|८७ || पथिमथोस्थस्य न्थादेशः स्यात्सर्वनामस्थाने परे । पन्थाः । पन्थानौ । पन्थानः । पन्थानम् । पन्थानौ ॥ भस्य टेलः | ७|१|८८ ॥ भसंज्ञकस्य पथ्यादेष्टेर्लोपः स्यात् । पथः । पथा । पथिभ्यामित्यादि ।
१ प्रातिपदिकान्तनुमूविभक्तिषु चेति सूत्रविधीयमानमित्यर्थः ॥ २ सर्वनामस्थाने चासंबुद्धाविति दीर्घः । मतुबन्तस्य तु अत्वसन्तस्येति ॥