________________
३०
सिद्धान्तकौमुद्याम् कारयोरिदमदसोर्भिस ऐस् न स्यात् । एत्वम् । एभिः । अत्वम् । नित्यत्वात् अॅः स्मै पश्चाद्धलिलोपः । अस्मै । आभ्याम् । एभ्यः । अस्मात् । आभ्याम् । एभ्यः । अस्य । अनयोः । एषाम् । अस्मिन् । अनयोः । एषु । ककारयोगे तु अयकम् । इमको । इमके । इमकम् । इमकौ । इमकान् । इमकेन । इमकाभ्याम् । इमकैः ॥ इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ।।४।३२॥ अन्वादेशविषयस्येदमोऽनुदात्तोऽश् आदेशः स्यात्तृतीयादौ । अश्वचनं साकच्कार्थम् ॥ द्वितीयाटौस्खेनः।४३४॥ द्वितीयायां टौसोश्च परत इदमेतदोरेनादेशः स्यादन्वादेशे । किंचित्कार्य विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । यथाऽनेन व्याकरणमधीतमेनं छन्दोऽध्यापयेति । अनयोः पवित्रं कुलमेनयोः प्रभूतं खमिति । एनम् । एनौ । एनान् । एनेन । एनयोः । गणयतेर्विच् । सुगण् । सुगणौ । सुगणः । सुगण्ठसु । सुगण्ट्सु । सुगण्सु । क्विपू । अनुनासिकस्य क्विझलोरिति दीर्घः । सुगाण् । सुगाणौ । सुगाणः । सुगाण्ठ्सु सुगाण्ट्सु । सुगाण्सु । परत्वादुपधादीर्घः । हड्यादिलोपः । ततो नलोपः । राजा ॥ न ङिसंवुद्धयोः ।८।२।८॥ नस्य लोपो न स्यात् ङौ संबुद्धौ च । हे राजन् । ङौ तु छन्दस्युदाहरणम् । सुपां सुलुगिति डेर्लक् । निषेधसामर्थ्यात्प्रत्ययलक्षणम् । परमे व्योमन् ॥ ङावुत्तरपदे प्रतिषेधो वक्तव्यः * ॥ चर्मणि तिला अस्य चर्मतिलः । ब्रह्मणि निष्ठा अस्य ब्रह्मनिष्ठः । राजानौ । राजानः । राजानम् । राजानौ ॥ अल्लोपोऽनः । श्चुत्वम् । न चाल्लोपः स्थानिवत् । पूर्वत्रासिद्धे तन्निषेधात् । नापि बहिरङ्गतयाऽसिद्धः । यथोद्देशपक्षे षाष्ठी परिभाषां प्रति श्चुत्वस्यासिद्धतयाऽन्तरङ्गाभावेन परिभाषाया अप्रवृत्तेः । जोर्जः । राज्ञः । राज्ञा ॥ नलोपः सुप्खरसंज्ञातुग्विधिषु कृति ।२।२॥ सुब्विधौ खरविधौ संज्ञाविधौ कृति तुग्विधौ च नलोपोऽसिद्धो नान्यत्र राजाश्व इत्यादौ । इत्यसिद्धत्वादात्वमेत्वमैस्त्वं च न । राजभ्याम् । राजभिः । राज्ञे । राजभ्यः । राज्ञः । राज्ञोः । राज्ञाम् । राज्ञि । राजनि। प्रतिदीव्यतीति प्रतिदिवा। प्रतिदिवानौ । प्रतिदिवानः। अस्य भविषयेऽल्लोपे कृते ॥ हलि च ।८२७७॥ रेफवान्तस्य धातोरुपधाया इको दीर्घः स्याद्धलि । न चाल्लोपस्य स्थानिवत्त्वम् । दीर्घविधौ तन्निषेधात् । बहिरङ्गपरिभाषा तूक्तन्यायेन न प्रवर्तते । प्रतिदीनः । प्रतिदीनेत्यादि । यज्वा । यज्वानौ । यज्वानः ॥ न संयोगाद्वमन्तात् ।६।४।१३७ ॥ वकारमकारान्तसंयोगात्परस्यानोऽकारस्य लोपो न स्यात् । यज्वनः । यज्वना । यज्वभ्यामित्यादि । ब्रह्मणः । ब्रह्मणा । ब्रह्मभ्यामित्यादि ॥ इन्हन्पूषार्यम्णां शौ ।६४।१२ ॥ एषां शावेवोपधाया दी? नान्यत्र । इति निषेधे प्राप्ते ॥ सौ च ।।४।१३ ॥ इन्नादीनामुपधाया दीर्घः स्यादसंबुद्धौ सौ परे । वृत्रहा । हे वृत्रहन् । एकाजुत्तरपदे ण इति णस्वम् । वृत्रहणौ । वृत्रहणः । वृत्रहणम् । वृत्रहणौ ॥ हो हन्तेणिनेषु ७३५४॥ निति णिति च प्रत्यये नकारे च परे हन्तेर्हकारस्य कुस्वं स्यात् ॥ हन्तेः
१ हन्तेरत्पूर्वस्येति सूत्रस्य योगविभागेन व्याख्यानेऽपि सूत्रपाठे एकस्यैव पठितखात् तत्पाठानुसारेणात्र तयोः सूत्राक एक एव लिखितो बेदितव्यः ॥