________________
हलन्ताः पुंलिङ्गाः।
२९ छन्दस्येव ण्विरिति पक्षे णिजन्ताद्विच् ॥ चतुरनडुहोरामुदात्तः १०९८ ॥ अनयोराम् स्यात्सर्वनामस्थाने स चोदात्तः ॥ सावनडुहः ।७११८२ ॥ अस्य नुम् स्यात्सौ परे । आदित्यधिकारादवर्णात्परोऽयं नुम् । अतो विशेषविहितेनापि नुमा आम् न बाध्यते । अमा च नुम् न बाध्यते । सोर्लोपः । नुविधिसामर्थ्याद्वसुसंखिति दत्वं न । संयोगान्तलोपस्यासिद्धत्वान्नलोपो न । अनड्डान् ॥ अम् संबुद्धौ ।७।१।९९॥ चतुरनडुहोरम् स्यात्संबुद्धौ । अमोऽपवादः। हे अनडन् । अनडाहौ । अनड्डाहः । अनडुहा ॥ वसुस्रंसुध्वंखनडुहां दः।८२७२॥ सान्तवखन्तस्य स्रसादेश्च दः स्यात्पदान्ते । अनडुझ्यामित्यादि । सान्तेति किम् । विद्वान् । पदान्ते इति किम् । स्रस्तम् । ध्वस्तम् ॥ सहेः साडः सः ८३॥५६॥ सापस्य सहेः सस्य मूर्धन्यादेशः स्यात् । तुरापाट् । तुराषाड् । तुरासाहौ । तुरासाहः । तुरापाड्भ्यामित्यादि । तुरं सहत इत्यर्थे छन्दसि सह इति ण्विः । लोके तु साहयतेः विप् । अन्येषामपीति पूर्वपदस्य दीर्घः ॥ दिव औत् ।१८४॥ दिविति प्रातिपदिकस्य औत्स्यात्सौ परे । अल्विधित्वेन स्थानिवत्त्वाभावाद्धल्ङ्याबिति सुलोपो न । सुद्यौः । सुदिवौ । सुदिवः । सुदिवम् । सुदिवौ ॥ दिव उत् ।६।१।१३१ ॥ दिवोऽन्तादेश उकारः स्यात्पदान्ते । सुधुभ्याम् । सुधुभिः । चत्वारः । चतुरः । चतुर्भिः । चतुर्थ्यः २॥ षट्चतुभ्यंश्च ।।१। ५५ ॥ षट्संज्ञकेभ्यश्चतुरश्च परस्यामो नुडागमः स्यात् । णत्वं । द्वित्वं । चतुर्णाम् ॥ रोः सुपि ॥३॥१६॥ सप्तमीबहुवचने परे रोरेव विसर्जनीयो नान्यरेफस्य । षत्वम् । षस्य द्वित्वे प्राप्ते ॥ शरोऽचि ८॥४॥४९॥ अचि परे शरो न द्वे स्तः । चतुषु । प्रियचत्वाः । हे प्रियचत्वः । प्रियचत्वारौ । प्रियचत्वारः । गौणत्वे तु नुट् नेप्यते । प्रियचतुराम् । प्राधान्ये तु स्यादेव । परमचतुर्णाम् । कमलं कमलां वा आचक्षाणः कमल । कमलौ । कमलः । पत्वं । कमल्षु ॥ मो नो धातोः।८।२।६४॥ धातोर्मस्य नः स्यात्पदान्ते । नत्वस्यासिद्धत्वान्नलोपो न । प्रशाम्यतीति प्रशान् । प्रशामौ । प्रशामः । प्रशान्भ्यामित्यादि ॥ किमः कः ।।२।१०३ ॥ किमः कः स्याद्विभक्तौ । अकसहितस्याप्ययमादेशः। कः । कौ । के। कम् । कौ । कान् । इत्यादि सर्ववत् ॥ इदमो मः ७२।१०८ ॥ इदमो मः स्यात्सौ परे । त्यदाद्यत्वापवादः ॥ इदोऽय् पुंसि ।।१११ ॥ इदम इदोऽय् स्यात्सौ पुंसि । सोर्लोपः । अयम् । त्यदाद्यत्वं पररूपत्वं च ॥ दश्च ।।२।१०९॥ इदमो दस्य मः स्याद्विभक्तौ । इमौ । इमे । त्यदादेः संबोधनं नास्तीत्युत्सर्गः ॥ अनाप्यकः ।७।२।११२॥ अककारस्येदम् इदोऽन् स्यादापि विभक्तौ । आबिति टा इत्यारभ्य सुपः पकारेण प्रत्याहारः । अनेन ॥ हलि लोपः।।२।११३ ॥ अककारस्येदम इदो लोपः स्यादापि हलादौ ॥ नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे * ॥ आद्यन्तवदेकस्मिन् ।१।१।२१॥ एकस्मिन् क्रियमाणं कार्यमादाविवाऽन्त इव स्यात् । आभ्याम् ॥ नेदमदसोरको ७१।११ ॥ अक
१संयोगान्तलोपश्च.