________________
२८
सिद्धान्तकौमुद्याम् पुंवत् । प्रवृत्तिनिमित्तभेदात् ॥ अस्थिदधिसक्थ्यक्ष्णामनकुदात्तः ॥१७५॥ एषामनङ् स्याहादावचि स चोदात्तः ॥ अल्लोपोऽनः ॥ दना । दध्ने । दनः । दनोः २ । दनि । दधनि । शेषं वारिवत् । एवमस्थिसक्थ्यक्षीणि । तदन्तस्याप्यनङ् । अतिदना । सुधि । सुधिनी । सुधीनि । हे सुधे । हे सुधि । सुधिया । सुधिना । प्रध्या। प्रधिना । मधु । मधुनी। मधूनि । हे मघो। हे मधु । एवमम्ब्वादयः । सानुशब्दस्य सुर्वा । स्तूनि । सानूनि । प्रियक्रोष्टु । प्रियक्रोष्टुनी । तृज्वद्भावात्पूर्व विप्रतिषेधेन नुम् । प्रियक्रोष्टूनि । टादौ पुंवत्पक्षे प्रियक्रोष्ट्रा । प्रियक्रोष्टुना । प्रियक्रोष्ट्रे । प्रियक्रोष्टवे । अन्यत्र तृज्वद्भावात्पूर्वविप्रतिषेधेन नुमेव । प्रियकोष्टुना । प्रियक्रोष्टुने नुमचिरेति नुट् । प्रियक्रोष्ट्रनाम् । सुलु । सुलुनी । सुलूनि । पुनस्तद्वत् सुल्वा । सुलना । धातृ । धातृणी । धातृणि । हे धातः । हे धातृ । धात्रा । धातृणा । एवं ज्ञातृकादयः ॥ एच इग्घ्रस्खादेशे ।।१४८ ॥ आदिश्यमानेषु हस्खेषु मध्ये एच इगेव स्यात् ।। प्रधु । प्रधुनी । प्रथूनि । प्रधुनेत्यादि । इह न पुंवत् । यदिगन्तं प्रद्यु इति तस्य भाषितपुंस्कत्वाभावात् । एवमग्रेऽपि । प्ररि । परिणी । परीणि । परिणा । एकदेशविकृतस्यानन्यत्वाद्रायो हलीत्यात्वम् । प्रराभ्याम् । प्रराभिः । नुमचिरेति नुट्यात्वे प्रराणामिति माधवः । वस्तुतस्तु संनिपातपरिभाषया नुट्यात्वं न । नामीति दीर्घस्त्वारम्भसामर्थ्यात्परिभाषां बाधत इत्युक्तम् । परीणाम् । सुनु । सुनुनी । सुनूनि । सुनुना । सुनुने । इत्यादि ॥ ॥इत्यजन्ता नपुंसकलिङ्गाः॥ ___ हो ढः ।।३१ ॥ हस्य ढः स्याज्झलि पदान्ते च । हल्ड्याबिति सुलोपः । पदान्तत्वाद्धस्य ढः । जश्त्वचर्वे । लिट् । लिड् । लिहौ । लिहः । लिहम् । लिहौ । लिहः । लिहा । लिड्भ्याम् । लिट्त्सु । लिट्सु ॥ दादेर्धातोः ८॥२॥३२॥ उपदेशे दादेर्धातोहस्य घः स्याज्झलि पदान्ते च । उपदेशे किम् । अधोगित्यत्र यथा स्यात् । दामलिहमात्मन इच्छति दामलिह्यति । ततः क्लिपि दामलिट् । अत्र मा भूत् ॥ एकाचो बशो भष् झषन्तस्य स्ध्वोः ।८।२।३७ ॥ धातोरवयवो य एकाच झपन्तस्तदवयवस्य बशः स्थाने भष् स्यात्सकारे ध्वशब्दे पदान्ते च । एकाचो धातोरिति सामानाधिकरण्येनान्वये तु इह न स्यात् । गर्दभमाचष्टे गर्दभयति । ततः किप् । णिलोपः । गर्धप् । झलीति निवृत्तम् । स्वोर्गहणसामर्थ्यात् । तेनेह न । दुग्धम् । दोग्धा । व्यपदेशिवद्भावेन धात्ववयवत्वाद्भष्भावः । जश्वचत्वे । धुक् । धुग । दुहौ । दुहः । षत्वचत्वें । धुक्षु ॥ वा दुहमुहष्णुहष्णिहाम् ८।३३ ॥ एषां हस्य वा घः स्याज्झलि पदान्ते च । पक्षे ढः । ध्रुक् । ध्रुग् । ध्रुट् । ध्रुड्॥ द्रुहौ । द्रुहः । ध्रुग्भ्याम् । ध्रुड्भ्याम् । ध्रुक्षु । ध्रुट्त्सु । ध्रुट्सु । एवं मुहष्णुहष्णिहाम् ॥ विश्ववाट् । विश्ववाड् । विश्ववाहौ । विश्ववाहः । विश्ववाहं । विश्ववाहो ॥ इग्यणः संप्रसारणम् ।११।४५ ॥ यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात् ॥ वाह ऊठू ।६।४।१३२॥ भस्य वाहः संप्रसारणमूल् स्यात् ॥ संप्रसारणाच ।।१।१०८ ॥ संप्रसारणादचि परे पूर्वरूपमेकादेशः स्यात् ॥ एत्येधत्यूठसु ॥ विश्वौहः । विश्वौहेत्यादि ।
HHHHHHHHHHHEL