________________
अजन्ता नपुंसकलिङ्गाः।
२७ इत्यकारलोपे प्राप्ते ॥ औङः श्यां प्रतिषेधो वाच्यः * ॥ ज्ञाने जश्शसोः शिः॥१॥ २०॥ क्लीबादनयोः शिः स्यात् । शि सर्वनामस्थानम् ।।१।४२ ॥ शि इत्येतदुक्तसंज्ञं स्यात् ॥ नमुंसकस्य झलचः ७१।७२ ।। झलन्तस्याऽजन्तस्य च क्लीवस्य नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । ज्ञानानि । पुनस्तद्वत् । शेषं रामवत् । एवं धनवनफलादयः ॥ अदइतरादिभ्यः पञ्चभ्यः।७।१।२५ ॥ एभ्यः क्लीबेभ्यः खमोरदडादेशः स्यात् ॥ टेः।६।४।१४३ ॥ डिति परे भस्य टेर्लोपः स्यात् ॥ वावसाने ॥ कतरत् । कतर । कतरे । कतराणि । भस्येति किम् । पञ्चमः । टेलप्तत्वात्प्रथमयोरिति पूर्वसवर्णदीर्घः एहस्खादिति संबुद्धिलोपश्च न भवति । हे कतरत् । पुनस्तद्वत् । शेषं पुंवत् । कतमत् । अन्यत् । अन्यतरत् । इतरत् । अन्यतमशब्दस्य तु अन्यतममित्येव ॥ एकतराप्रतिषेधो वक्तव्यः * ॥ एकतरम् । सोरमादेशे कृते संनिपातपरिभाषया न जरस् । अजरम् । अजरसी । अजरे । परत्वाजरसि कृते झलन्तत्वान्नुम् ॥ सान्तमहतः संयोगस्य ।६।४।१०॥ सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे । अजरांसि । अजराणि । अमि लुकोऽपवादमम्भावं बाधित्वा परत्वाजरस् । ततः संनिपातपरिभाषया न लुक् । अजरसम् । अजरम् । अजरसी । अजरे । अजरांसि । अजराणि । शेषं पुंवत् । पद्दन्न इति हृदयोदकास्यानां हृद् उदन् आसन् । हृन्दि । हृदा । हृयामित्यादि । उदानि । उद्गा । उदभ्यामित्यादि । आसानि । आस्वा । आसभ्यामित्यादि । मांसि । मांसा । मान्भ्यामित्यादि । वस्तुतस्तु प्रभृतिगृहणं प्रकारार्थमित्युक्तम् । अत एव भाष्ये मांस्पचन्या उखाया इत्युदाहृतम् । अयस्मयादित्वेन भत्वात्संयोगान्तलोपो न । पद्दन्नो इत्यत्र हि छन्दसीत्यनुवर्तितं वृत्तौ तथाप्यपोभीत्यत्र मासश्छन्दसीति वार्तिके छन्दोग्रहणसामर्थ्याल्लोकेऽपि कचिदिति कैयटोक्तरीत्या प्रयोगमनुसृत्य पदादयः प्रयोक्तव्या इति बोध्यम् ॥ हूखो नपुंसके प्रातिपदिकस्य ।।२।४७॥ क्लीबे प्रातिपदिकस्याऽजन्तस्य हवः स्यात् । श्रीपं । ज्ञानवत् । श्रीपाय । अत्र संनिपातपरिभाषया आतो धातोरित्याकारलोपो न॥ स्वमोनपुंसकात् ।७।१॥२३॥ क्लीबादङ्गात्परयोः खमोलुक् स्यात् । वारि॥ इकोऽचि विभक्तौ १७३ ॥ इगन्तस्य क्लीबस्य नुमागमः स्यादचि विभक्तौ । वारिणी । वारीणि । न लुमतेति निषेधस्यानित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः । हे वारे । हे वारि । आङो ना । वारिणा । घेर्डितीति गुणे प्राप्ते ॥ वृद्ध्यौत्वतृज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन * ॥ वारिणे । वारिणः । वारिणोः । नुमचिरेति नुट् । नामीति दीर्घः । वारीणाम् । वारिणि । वारिणोः । हलादौ हरिवत् ॥ तृतीयादिषु भाषितपुंस्कं पुंवगालवस्य ७।१।७४ ॥ प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा स्याट्टादावचि । अनादये । अनादिने इत्यादि । शेषं वारिवत् । पीलुर्वृक्षस्तत्फलं पीलु तस्मै पीलुने । अत्र न
१डतरादिः सर्वाद्यन्तर्गणः॥