________________
समासखरप्रक्रिया |
पुत्रः किम् । कौन टिमातुलः । पुम्भ्यः किम् । दाक्षीपुत्रः ॥ नाचार्यराजत्विक्संयुक्तज्ञात्याख्येभ्यः | ६ |२| १३३ || एभ्यः पुत्रो नानुदात्तः । आख्याग्रहणात्पर्यायाणां तद्विशेषाणां च ग्रहणम् । आचार्यपुत्रः । उपाध्यायपुत्रः । शाकटायनपुत्रः । राजपुत्रः । ईश्वरपुत्रः । नन्दपुत्रः । ऋत्विक्पुत्रः । याजकपुत्रः । होतुःपुत्रः । संयुक्ताः संबन्धिनः । श्यालपुत्रः । ज्ञातयो मातापितृसंबन्धेन बान्धवाः । ज्ञातिपुत्रः । भ्रातुष्पुत्रः । चूर्णादीन्यप्राणिषष्टाः । ६।२।१३४ ॥ एतानि प्राणिभिन्नषष्ठ्यन्तात्पराण्याद्युदात्तानि तत्पुरुषे । मुद्गचूर्णम् । अप्रेति किम् | मत्स्यचूर्णम् ॥ षट् च काण्डादीनि /६/२| १३५ ॥ अप्राणिषष्ठ्ट्या आद्युदात्तानि । दर्भकाण्डम् । दर्भचीरम् । तिलपललम् । मुद्गसूपः । मूलकशाकम् । नदीकूलम् । षट् किम् । राजसूदः । अप्रेति किम् । दत्तकाण्डम् ॥ कुण्डं वनम् ||६।२।१३६ || कुण्डमाद्युदात्तं वनवाचिनि तत्पुरुषे । दर्भकुण्डम् । कुण्डशब्दो सादृश्ये । वनं किम् । मृत्कुण्डम् ॥ प्रकृत्या भगालम् ।६।२।१३७ || भगालवाच्युत्तरपदं तत्पुरुषे प्रकृत्या । कुम्भीभगालम् । कुम्भीनदालम् । कुम्भीपालम् । मध्योदात्ता एते । प्रकृत्येत्यधिकृतमन्त इति यावत् ॥ शितेर्नित्याऽबह्नज्बहुव्रीहावभसत् ।६।२।१३८॥ शितेः परं नित्याबह्वच्कं प्रकृत्या । शितिपादः । शित्यंसः । पादशब्दो वृषादित्वादाद्युदात्तः । अंसशब्दः प्रत्ययस्य नित्त्वात् । शितेः किम् । दर्शनीयपादः । अभसत्किम् । शितिभसत् । शितिराद्युदात्तः । पूर्वपदप्रकृतिस्वरापवादोऽयं योगः ॥ गतिकारकोपपदात्कृत् |६|२| १३९ ॥ एभ्यः कृदन्तं प्रकृतिखरं स्यात्तत्पुरुषे । प्रकारकः । प्रहरणम् । शोणा धृष्णू नृवाहसा । इध्मप्रव्रश्चनः । उपपदात् । उच्चैःकारम् । ईषत्करः । गतीति किम् | देव कारकः । शेषलक्षणा षष्ठी । कृग्रहणं स्पष्टार्थम् । प्रपचतितरामित्यत्र तरबाद्यन्तेन समासे कृते आम् । तत्र सतिशिष्टत्वादामूखरो भवतीत्येके । प्रपचतिदेश्यार्थं तु कृग्रहणमित्यन्ये ॥ उभे वनस्पत्यादिषु युगपत् । ६।२।१४० ॥ एषु पूर्वोत्तरपदे युगपत्प्रकृत्या । वनस्पतिं वन आ । बृहस्पतिं यः । बृहच्छब्दोऽत्राद्युदात्तो निपात्यते । हर्षया शचीपतिम् । शार्ङ्गरवादित्वादाद्युदात्तः शचीशब्दः । शचीभिर्न इति दर्शनात् । तनूनपादुच्यते । नराशंसं वाजि - नम् । निपातनाद्दीर्घः । शुनःशेपम् ॥ देवताद्वन्द्वे च । ६।२।१४१ ॥ उभे युगपत्प्रकृत्या स्तः । आय इन्द्रावरुणौ । इन्द्राबृहस्पती वयम् । देवता किम् । लक्षन्यग्रोधौ । द्वन्द्वे किम् । अग्निष्टोमः ॥ नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूष मन्थिषु |६|२| १४२ ॥ पृथिव्यादिवर्जितेऽनुदात्तादावुत्तरपदे प्रागुक्तं न । इन्द्राग्निभ्यां कं वृषणः । अपृथिव्यादौ किम् । द्यावापृथिवी जनयन् । आद्युदात्तो द्यावा निपात्यते । पृथिवीत्यन्तोदात्तः । सोमारुद्रौ । रोदे
३६९
१ चूर्ण, करिष, करीष, शाकिन, शाटक, द्राक्षा, तूस्त, कुन्दम, दलप, चमसी, चक्कन, चौल । इति चूर्णादिः ॥ २ काण्ड, चीर, पलल, सूप, शाक, कूल । इति काण्डादिः ॥ ३ वनस्पतिः, बृहस्पतिः, शचीपतिः, तनूनपात्, नराशंसः, शुनःशेपः, शण्डामक, तृष्णावरुत्री, लम्बाविश्ववयः । वनस्पत्यादिः ॥
४७