________________
३६८
सिद्धान्तकौमुद्यम्
सोः परे आद्युदात्ताः स्युः । साम्राज्याय सुक्रतुः । सुप्रतीकाः । सुप्रतूर्तिमनेहसम् ॥ आद्युदात्तं द्व्यच् छन्दसि । ६ । २ ११९ ॥ यदाद्युदात्तं व्यच् तत्सोरुत्तरं बहुव्रीहावाधुदात्तम् । अधा स्वश्वाः । सुरथ आतिथिग्वे । नित्खरेणाश्वरथावाद्युदात्तौ । आधुदात्तं किम् । या सुबाहुः । द्व्यच् किम् । सुगुरसत्सुहिरण्यः । हिरण्यशब्दरूयच् ॥ वीरवीर्यौ च |६|३| १२० ॥ सोः परौ बहुव्रीहौ छन्दस्याद्युदात्तौ । सुवीरेण रयिणा । सुवीर्यस्य गोमतः । वीर्य - शब्दो यत्प्रत्ययान्तः । यतो नाव इत्याद्युदात्तत्वं नेति वीर्यग्रहणं ज्ञापकम् । तत्र हि सति पूर्वेणैव सिद्धं स्यात् ॥ कूलतीर तूलमूलशालाऽक्षसमव्ययीभावे | ६| २१२१ ॥ उपकूलम् । उपतीरम् । उपतूलम् । उपमूलम् । उपशालम् । उपाक्षम् । सुषमम् । निःषमम् । तिष्ठद्गुप्रभृतिष्वेते । कूलादिग्रहणं किम् । उपकुम्भम् । अव्ययीभावे किम् । परमकूलम् ॥ कंसमन्यशूर्पपाय्यकाण्डं द्विगौ |६|२| १२२ ॥ द्विकंसः । द्विमन्थः । द्विशूर्पः । द्विपाय्यम् । द्विकाण्डम् । द्विगौ किम् । परमकंसः ॥ तत्पुरुषे शालायां नपुंसके |६| २ | १२३ ॥ शालाशब्दान्ते तत्पुरुषे नपुंसकलिङ्गे उत्तरपदमाद्युदात्तम् । ब्राह्मणशालम् । तत्पुरुषे किम् । दृढशालं ब्राह्मणकुलम् । शालायां किम् । ब्राह्मणसेनम् । नपुंसके किम् । ब्राह्मणशाला || कन्था च । ६।२।१२४ ॥ तत्पुरुषे नपुंसकलिङ्गे कन्थाशब्द उत्तरपदमाद्युदात्तम् । सौशमिकन्थम् || अह्वरकन्थम् । नपुंसके किम् । दाक्षिकन्था || आदिचिहणांदीनाम् ।६।२।१२५ || कन्थान्ते तत्पुरुषे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तः । चिहणकन्थम् । मदुरकन्थम् । आदिरिति वर्तमाने पुनर्ग्रहणं पूर्वपदस्याद्युदात्तार्थम् ॥ चेलखेटकटु
काण्डं गर्हायाम् |६| २|१२६ ।। चेलादीन्युत्तरपदान्याद्युदात्तानि । पुत्रचेलम् । नगरखेटम् । दधिकटुकम् । प्रजाकाण्डम् । चेलादिसादृश्येन पुत्रादीनां गर्हा । व्याघ्रादित्वात्समासः । गर्हायां किम् । परमचेलम् || चीरमुपमानम् ।६।२।१२७ ॥ वस्त्रचीरम् । कम्बलचीरम् । उपमानं किम् । परमचीरम् || पललसूपशाकं मिश्र | ६ |२| १२८ || घृतपललम् । घृतसूपः । घृतशाकम् । भक्ष्येण मिश्रीकरणमिति समासः । मिश्रे किम् । परमपललम् ॥ कूलसूदस्थलकर्षाः संज्ञायाम् ||२ १२९ ॥ आद्युदात्तास्तत्पुरुषे । दाक्षिकूलम् । शाण्डिसूदम् । दाण्डायनस्थलम् । दाक्षिकर्षः । ग्रामसंज्ञा एताः । संज्ञायां किम् । परमकूलम् । अकर्मधारये राज्यम् । ६।२।१३० ॥ कर्मधारयवर्जिते तत्पुरुषे राज्यमुत्तरपदमाद्युदात्तम् । ब्राह्मणराज्यम् । अकेति किम् । परमराज्यम् । चेलराज्यादिखरादव्ययस्वरः पूर्वविप्रतिषेधेन * || कुचेलम् । कुराज्यम् ॥ वैर्यादयश्च । ६।२।१३१ ॥ अर्जुनवर्ग्यः । वासुदेवपक्ष्यः । अकर्मधारय इत्येव । परमवर्ग्यः । वर्यादिर्दिगाद्यन्तर्गणः ॥ पुत्रः पुम्भ्यः ।६।२।१३२ ॥ पुम्शब्देभ्यः परः पुत्रशब्द आद्युदात्तस्तत्पुरुषे । दाशकिपुत्रः । माहिषपुत्रः ।
१ चिहण, मदुर, मद्रुमर, बैतुल, पटक्क, बैडालकर्णक, वैडालिकर्णि, कुक्कुट, चिक्कण, चित्कण । इति चिहणादिः । २ दिगादिषु वर्ग इत्येवमादयो ये पठितास्ते कृतयदन्ता वर्ग्यादयः ।