________________
समासखरप्रक्रिया ।
३६७ भवन्ति । पूर्वपाणिनीयाः । आचार्येति किम् । पूर्वान्तेवासी । अन्तेवासिनि किम् । पूर्वपाणिनीयं शास्त्रम् ॥ उत्तरपदवृद्धौ सर्वं च ।६।२।१०५ ॥ उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता तद्वत्युत्तरपदे परे सर्वशब्दो दिक्शब्दाश्चान्तोदात्ता भवन्ति । सर्वपाञ्चालकः । अपरपाञ्चालकः । अधिकारग्रहणं किम् । सर्वभासः । सर्वकारकः ॥ बहुव्रीहौ विश्वं संज्ञायाम् ।६।२। १०६ ॥ बहुव्रीहौ विश्वशब्दः पूर्वपदभूतः संज्ञायामन्तोदात्तः स्यात् । पूर्वपदप्रकृतिवरेण प्राप्तस्याद्युदात्तस्यापवादः । विश्वकर्मा । विश्वदेवः । आविश्वदेवं सत्पतिम् । बहुव्रीहौ किम् । विश्वे च ते देवाश्च विश्वदेवाः । संज्ञायां किम् । विश्वदेवः । प्रागव्ययीभावाद्बहुव्रीह्यधिकारः ॥ उदाराग्वेषुषु दारा१०७॥ संज्ञायामिति वर्तते । वृकोदरः । हर्यश्वः । महेषुः । क्षेपे ।६।।१०८ ॥ उदाराश्वेषुषु पूर्वमन्तोदात्तं बहुव्रीहौ निन्दायाम् । घटोदरः । कटुकाश्वः । चलाचलेपुः ॥ अनुदर इत्यत्र नसुभ्यामिति भवति विप्रतिषेधेन ॥ नदी बन्धुनि ।६।२।१०९ ॥ बन्धुशब्दे परे नद्यन्तं पूर्वमन्तोदात्तं बहुव्रीहौ । गार्गीप्रियः ॥ नदी किम् । ब्रह्मबन्धुः । ब्रह्मशब्द आधुदात्तः । बन्धुनि किम् । गार्गीप्रियः ॥ निष्ठोपसर्गपूर्वमन्यतरस्याम् ।६२।११० ॥ निष्ठान्तं पूर्वपदमन्तोदात्तं वा ॥ प्रधौतपादः । निष्ठा किम् । प्रसेवकमुखः । उपसर्गपूर्व किम् । शुष्कमुखः ॥ उत्तरपदाऽऽदिः।६।१११॥ उत्तरपदाधिकार आपादान्तम् । आद्यधिकारस्तु प्रकृत्या भगालमित्यवधिकः ॥ कर्णो वर्णलक्षणात् ।६।२।११२॥ वर्णवाचिनो लक्षणवाचिनश्च परः कर्णशब्द आधुदात्तो बहुव्रीहौ । शुक्लकर्णः । शङ्कुकर्णः । कर्णः किम् । श्वेतपादः । वर्णलक्षणात्किम् । शोभनकर्णः ॥ संज्ञौपम्ययोश्च ।६।२।११३ ॥ कर्णः आयुदात्तः । मणिकर्णः । औपम्ये । गोकर्णः ॥ कण्ठपृष्ठग्रीवाजधं च ।६।२।११४ ॥ संज्ञौपम्ययोर्बहुव्रीहौ । शितिकण्ठः । काण्डपृष्ठः । सुग्रीवः । नाडीजङ्घः । औपम्ये । खरकण्ठः । गोपृष्ठः । अश्वग्रीवः । गोजङ्घः ॥ शृङ्गमवस्थायां च दा२।११५ ॥ शृङ्गशब्दोऽवस्थायां संज्ञौपम्ययोश्चाद्युदात्तो बहुव्रीहौ । उद्तशृङ्गः । व्यङ्गुलशृङ्गः । अत्र शृङ्गोद्गमनादिकृतो गवादेर्वयोविशेषोऽवस्था । संज्ञायाम् । ऋष्यशृङ्गः । उपमायाम् । मेषशृङ्गः । अवस्थेति किम् । स्थूलशृङ्गः ॥ नमो जरमरमित्रमृताः ।६२।११६ ॥ नञः परा एते आधुदात्ता बहुव्रीहौ । न मे जरा अजरम् । अमरम् । अमित्रमर्दय । श्रवो देवेष्वमृतम् । नञः किम् । ब्राह्मणमित्रः । जरेति किम् । अशत्रुः ॥ सोमनसी अलोमोषसी ।६।।११७ ॥ सोः परं लोमोषसी वर्जयित्वा मन्नन्तमसन्तं चाद्युदात्तं स्यात् । न सुभ्यामित्यस्यापवादः । सुयुजः । स नो वक्षदनिमानः सुवमा । शिवा पशुभ्यः सुमनाः सुवर्चाः । सुपेशसस्करति । सोः किम् । कृतकर्मा । मनसी किम् । सुराजा । अलोमोषसी किम् । सुलोमा । सूषाः । कपि तु परत्वात्कपि पूर्वमिति भवति । सुकर्मकः । सुस्रोतस्कः ॥ त्वादयश्च ।६।२।११८ ॥
२ ऋतु, दृशीक, प्रतीक, प्रतूर्ति, हव्य, भव्य, भग । इति क्रत्वादिः॥