________________
३६६
सिद्धान्तकौमुद्याम् ।६।२।९० ॥ अर्मे परे व्यच् त्र्यच् पूर्वमवर्णान्तमायुदात्तम् । गुप्तार्मम् । कुक्कुटामम् । अवर्ण किम् । बृहदर्मम् । यच् त्र्यच् किम् । कपिञ्जलार्मम् । अमहन्नवन्नित्येव । महार्मम् । नवार्मम् ॥ न भूताधिकसञ्जीवमद्राश्मकजलम् ।।२।९१ ॥ अर्मे परे नैतान्यायुदात्तानि । भूतार्मम् । अधिकार्मम् । सञ्जीवार्मम् । मद्राश्मग्रहणं संघातविगृहीतार्थम् । मद्रामम् । अश्मार्मम् । मद्राश्मार्मम् । कजलार्मम् ॥ आधुदात्तप्रकरणे । दिवोदासादीनां छन्दस्युपसंख्यानम् * ॥ दिवोदासाय दाशुषे ॥ अन्तः ।६।२।९२ ॥ अधिकारोऽयम् । प्रागुत्तरपदादिग्रहणात् ॥ सर्व गुणकात्ल्यै ।६।२।९३ ॥ सर्वशब्दः पूर्वपदमन्तोदात्तम् । सर्वश्वेतः । सर्वमहान् । सर्व किम् । परमश्वेतः । आश्रयव्याप्त्या परमत्वं श्वेतस्येति गुणकालये वर्तते । गुणेति किम् । सर्वसौवर्णः । कार्ये किम् । सर्वेषां श्वेततरः सर्वश्वेतः ॥ संज्ञायां गिरिनिकाययोः ।।२।९४ ॥ एतयोः परतः पूर्वमन्तोदात्तम् । अञ्जनागिरिः । मौण्डिनिकायः । संज्ञायां किम् । परमगिरिः । ब्राह्मणनिकायः ॥ कुमार्या वयसि ।६।२।९५॥ पूर्वपदमन्तोदात्तम् । वृद्धकुमारी । कुमारीशब्दः पुंसा सहासंप्रयोगमात्रं प्रवृत्तिनिमित्तमुपादाय प्रयुक्तो वृद्धादिभिः समानाधिकरणः । तच्च वय इह गृह्यते न कुमारत्वमेव । वयसि किम् । परमकुमारी ॥ उदकेऽकेवले ।।२।९६॥ अकेवलं मिश्रं तद्वाचिनि समासे उदके परे पूर्वमन्तोदात्तम् । गुहोदकम् । खरे कृतेऽत्र एकादशः । खरितो वानुदात्ते पदादाविति पक्षे खरितः । अकेवले किम् । शीतोदकम् ॥ द्विगौ तौ ।६।२।९७ ॥ द्विगावुत्तरपदे ऋतुवाचिनि समासे पूर्वमन्तोदात्तम् । गर्गत्रिरात्रः । द्विगौ किम् । अतिरात्रः । कतौ किम् । बिल्वहोमस्य सप्तरात्रो बिल्वसप्तरात्रः ॥ सभायां नपुंसके ।६।२।९८ ॥ सभायां परतो नपुंसकलिङ्गे समासे पूर्वमन्तोदात्तम् । गोपालसभम् । स्त्रीसभम् । सभायां किम् । ब्राह्मणसेनम् । नपुंसके किम् । राजसभा । प्रतिपदोक्तनपुंसकग्रहणान्नेह । रमणीयसभम् । ब्राह्मणकुलम् । पुरे प्राचाम् ।६।२।९९ ॥ देवदत्तपुरम् । नान्दीपुरम् । प्राचां किम् । शिवपुरम् ॥ अरिष्टगौडपूर्वे च ।६।२।१००॥ पुरे परे अरिष्टगौडपूर्वसमासे पूर्वमन्तोदात्तम् । अरिष्टपुरम् । गौडपुरम् । पूर्वग्रहणं किम् । इहापि यथा स्यात् । अरिष्टाश्रितपुरम् । गौडभृत्यपुरम् ॥ न हास्तिनफलकमायाः ।६।२।१०१॥ पुरे परे नैतान्यन्तोदात्तानि । हास्तिनपुरम् । फलकपुरम् । मार्देयपुरम् । मृदेरपत्यमिति शुभ्रादित्वाड्ढक् ॥ कुसूलकूपकुम्भशालं बिले ।६।२।१०२॥ एतान्यन्तोदात्तानि बिले परे । कुसूलबिलम् । कूपबिलम् । कुम्भबिलम् । शालबिलम् । कुसूलादि किम् । सर्पबिलम् । बिलेति किम् । कुसूलखामी ॥ दिक्शब्दा ग्रामजनपदाख्यानचानरादेषु ।६२१०३ ॥ दिक्शब्दा अन्तोदात्ता भवन्त्येषु । पूर्वेषुकामशमी । अपरकृष्णमृत्तिका । जनपदे । पूर्वपञ्चालाः । आख्याने । पूर्वयायातम् । पूर्वचानराटम् । शब्दग्रहणं कालवाचिदिक्शब्दस्य परिग्रहार्थम् ॥ आचार्योपसजनान्तेवासिनि ।६।२।१०४॥ आचार्योपसर्जनान्तेवासिनि परे दिक्शब्दा अन्तोदात्ता