________________
समासखरप्रक्रिया।
३६५ ण्वुल ॥ अणि नियुक्ते ।६।२७५ ॥ अण्णन्ते परे नियुक्तवाचिनि समासे पूर्वमाादात्तम् । छत्रधारः। नियुक्ते किम् । काण्डलावः ॥ शिल्पिनि चाऽकृत्रः।६२७६॥ शिल्पिवाचिनि समासे अण्णन्ते परे पूर्वमायुदात्तं स चेदण् कृञः परो न भवति । तन्तुवायः । शिल्पिनि किम् । काण्डलावः । अकृञः किम् । कुम्भकारः ॥ संज्ञायां च ।।७७॥ अण्णन्ते परे । तन्तुवायो नाम कृमिः । अकृञ इत्येव । रथकारो नाम ब्राह्मणः ॥ गोतन्तियवं पाले ।६।२७८ ॥ गोपालः । तन्तिपालः । अनियुक्तार्थो योगः । गो इति किम् । गोरक्षः ॥ णिनि दारा७९॥ पुष्पहारी ॥ उपमानं शब्दार्थप्रकृतावेव ।६।२।८०॥ उपमानवाचि पूर्वपदं णिन्यन्ते परे आयुदात्तम् । उष्ट्रक्रोशी । ध्वाङ्क्षरावी । उपमानग्रहणस्य पूर्वयोगस्य च विषयविभागार्थम् । शब्दार्थप्रकृतौ किम् । वृकवञ्ची । प्रकृतिग्रहणं किम् । प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्थी तत्रैव यथा स्यात् । इह मा भूत् । गर्दभोच्चारी ॥ युक्तारोह्यादयश्च ।६।२।८१॥ आधुदात्ताः । युक्तारोही । आगतयोधी । क्षीरहोता ॥ दीर्घकाशतुषभ्राष्ट्रवटं जे ।६२।८२॥ कुटीजः । काशजः । तुषजः । भ्राष्ट्रजः । वटजः ॥ अन्त्यात्पूर्व बह्वचः।६।२।८३॥ बह्वचः पूर्वस्यान्त्यात्पूर्वपदमुदात्तं जे उत्तरपदे । उपसरजः । आमलकीजः । बह्वचः किम् । दग्धजानि तृणानि ॥ ग्रामेऽनिवसन्तः ।६।२।८४ ॥ ग्रामे परे पूर्वपदमुदात्तम् । तच्चेन्निवसद्वाचि न । मल्लग्रामः । ग्रामशब्दोऽत्र समूहवाची । देवग्रामः । देवखामिकः । अनिवसन्तः किम् । दाक्षिग्रामः । दाक्षिनिवासः ॥ घोषोदिषु च ।६।२।८५ ॥ दाक्षिघोषः । दाक्षिकटः । दाक्षिहदः ॥ छात्र्यादयः शालायाम् ।६।२।८६॥ छात्रिशाला । व्याडिशाला । यदापि शालान्तः समासो नपुंसकलिङ्गो भवति तदापि तत्पुरुषे शालायां नपुंसक इत्येतस्मात्पूर्वविप्रतिषेधेनायमेव खरः । छात्रिशालम् ॥ प्रस्थेऽवृद्धमकादीनाम् ।६।२।८७॥ प्रस्थशब्दे उत्तरपदे कादिवर्जितमवृद्धं पूर्वपदमायुदात्तं स्यात् । इन्द्रप्रस्थः । अवृद्धं किम् । दाक्षिप्रस्थः । अक
ादीनामिति किम् । कर्कीप्रस्थः । मकरीप्रस्थः ॥ मालादीनां च ।।२।८८ ॥ वृद्धार्थमिदम् । मालाप्रस्थः। शोणाप्रस्थः ॥ अमहन्नवन्नगरेऽनुदीचाम् ।।२।८९॥ नगरे परे महन्नवन्वर्जितं पूर्वमायुदात्तं स्यात् तच्चेदुदीचां न । ब्रह्मनगरम् । अमहेति किम् । महानगरम् । नवनगरम् । अनुदीचां किम् । कार्तिकनगरम् ॥ अर्मे चाऽवणे यच त्र्यच
१ युक्तारोही, आगतरोही, आगतरोधी, आगतयोधी, आगतवञ्चा, आगतनन्दी, आगतप्रहारी, आगतमत्स्यः, क्षीरहोता, भगिनीभर्ता, ग्रामगोधुक, अश्वत्रिरात्रः, व्युष्टिरात्रः, गर्गत्रिरात्रः, गणपादः, एकाशीतिपाद्, पात्रेसमितादयश्च । इति युक्तारोह्यादयः । आकृतिगणोऽयम् । तेन अधिकशतवर्ष इत्यादि ॥ २ घोष, कट, वल्लभ, हृद, बदरी, पिङ्गल, पिशङ्ग, माला, रक्षा, शाला, कूटशाल्मला, अश्वत्थ, तृण, शिल्पी, मुनि, प्रेक्षा । इति घोषादिः॥ ३ छात्रि, पेलि, भाण्डि, व्याडि, आखण्डि, आघाटि, गोमि । इति छायादिः॥ ४ कर्की, मनी, मकरी, कर्कन्धू, शमी, करीर, कन्दुक, कवल, बदर, शोण। इति कादिः॥ ५ माला, शाला, द्राक्षा, क्षामा, काश्ची, एक, काम, दिवोदास, वध्यश्व । इति मालादिराकृतिगणः॥