________________
३६४
सिद्धान्तकौमुद्याम् मुहूर्तप्रहसितः ॥ ग्रामः शिल्पिनि ।६।२।६२ ॥ वा प्रकृत्या । ग्रामनापितः । ग्रामशब्द आधुदात्तः । ग्रामः किम् । परमनापितः । शिल्पिनि किम् । ग्रामरथ्या ॥ राजा च प्रशंसायाम् ।६।२।६३ ॥ शिल्पिवाचिनि परे प्रशंसाथ राजपदं वा प्रकृत्या । राजनापितः । राजकुलालः । प्रशंसायां किम् । राजनापितः । शिल्पिनि किम् । राजहस्ती ॥ आदिरुदात्तः।६।२।६४ ॥ अधिकारोऽयम् ॥ सप्तमीहारिणौ धर्येऽहरणे ।६।२। ६५॥ सप्तम्यन्तं हारिवाचि च आधुदात्तं धर्म्य परे । देयं यः खीकरोति स हारीत्युच्यते । धर्म्यमित्याचारनियतं देयम् । मुकुटेकार्षापणम् । हलेद्विपदिका । संज्ञायामिति सप्तमीसमासः । कारनाम्नि चेत्यलुक् । याज्ञिकाश्वः । वैयाकरणहस्ती । क्वचिदयमाचारो मुकुटादिषु कार्षापणादि दातव्यं याज्ञिकादीनां त्वश्वादिरिति । धर्येति किम् । स्तम्बेरमः । अहरणे किम् । वाडवहरणम् । वडवाया अयं वाडवः । तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थ यद्दीयते तद्धरणमित्युच्यते । परोऽपि कृत्स्वरो हारिखरेण बाध्यत इत्यहरण इति निषेधेन ज्ञाप्यते । तेन वाडवहार्यमिति हारिस्वरः सिध्यति ॥ युक्ते च ।६।२।६६ ॥ युक्तवाचिनि समासे पूर्वमायुदात्तम् । गोबल्लवः । कर्तव्ये तत्परो युक्तः ॥ विभाषाऽध्यक्षे ।।२। ६७ ॥ गवाध्यक्षः ॥ पापं च शिल्पिनि ।६।२।६८॥ पापनापितः । पापाणके इति प्रतिपदोक्तस्यैव ग्रहणात् षष्ठीसमासे न ॥ गोत्राऽन्तेवासिमाणवब्राह्मणेषु क्षेपे ।६२।६९ ॥ भार्यासौश्रुतः । सुश्रुतापत्यस्य भार्याप्रधानतया क्षेपः । अन्तेवासी । कुमारीदाक्षाः । ओदनपाणिनीयाः । कुमार्यादिलाभकामा ये दाक्ष्यादिभिः प्रोक्तानि शास्त्राण्यधीयते ते एवं क्षिप्यन्ते । भिक्षामाणवः । भिक्षां लप्स्येऽहमिति माणवः । भयब्राह्मणः । भयेन ब्राह्मणः संपद्यते । गोत्रादिषु किम् । दासीश्रोत्रियः । क्षेपे किम् । परमब्राह्मणः ॥ अङ्गानि मैरेये ।६।२७० ॥ मद्यविशेषो भैरेयः । मधुमैरेयः । मधुविकारस्य तस्य मध्वङ्गम् । अङ्गानि किम् । परममैरेयः । मैरेये किम् । पुष्पासवः ॥ भक्ताख्यास्तदर्थेषु ।६।२। ७१ ॥ भक्तमन्नम् । भिक्षाकंसः । भाजीकंसः । भिक्षादयोऽन्नविशेषाः । भक्ताख्याः किम् । समाशालयः । समशनं समाश इति क्रियामात्रमुच्यते । तदर्थेषु किम् । भिक्षाप्रियः । बहुव्रीहिरयम् । अत्र पूर्वपदमन्तोदात्तम् ॥ गोबिडालसिंहसैन्धवेषूपमाने ।६।२। ७२ ॥ धान्यगवः । गोबिडालः । तृणसिंहः । सक्तुसैन्धवः । धान्यं गौरिवेति विग्रहः । व्याघ्रादिः । गवाकृत्या सन्निवेशितं धान्यं धान्यगवशब्देनोच्यते । उपमाने किम् । परमसिंहः ॥ अके जीविकार्थे ।६।२।७३ ॥ दन्तलेखकः । यस्य दन्तलेखनेन जीविका । नित्यं क्रीडेति समासः । अके किम् । रमणीयकर्ता । जीविकार्थे किम् । इक्षुभक्षिकां मे धारयसि ॥ प्राचां क्रीडायाम् ।६।२।७४ ॥ प्राग्देशवाचिनां या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्ते परे पूर्वमायुदात्तं स्यात् । उद्दालकपुष्पभञ्जिका । संज्ञायामिति ण्वुल । प्राचां किम् । जीवपुत्रप्रचायिका । इयमुदीचां क्रीडा । क्रीडायां किम् । तव पुष्पप्रचायिका । पर्याये
THHTHHTHHTHHTHLA
HINDHETHERHIH