________________
समासखरप्रक्रिया। चिनि समासे तान्ते परे द्वितीयान्तं प्रकृत्या । कष्टश्रितः । ग्रामगतः । कष्टशब्दोऽन्तोदात्तः । ग्रामशब्दो नित्वरेण । अहीने किम् । कान्तारातीतः ॥ अनुपसर्ग इति वक्तव्यम् * ॥ नेह सुखप्राप्तः । थाथेत्यस्यापवादोऽयम् ॥ तृतीया कर्मणि ।६।२।४८ ॥ कर्मवाचके तान्ते परे तृतीयान्तं प्रकृत्या । त्योतासः । रुद्रहतः । महाराजहतः । रुद्रो रगन्तः । कर्मणि किम् । रथेन यातो रथयातः ॥ गतिरनन्तरः ।।।४९ ॥ कर्मार्थे क्तान्ते परेऽव्यवहितो गतिः प्रकृत्या । थार्थत्यस्यापवादः । पुरोहितम् । अनन्तरः किम् । अभ्युद्धृतः । कारकपूर्वपदस्य तु सतिशिष्टस्थाथादिवर एव । दूरादागतः ॥ तादौ च निति कृत्यती ।६।२।५० ॥ तकारादौ निति तुशब्दवर्जिते कृति परेऽनन्तरो गतिः प्रकृत्या । अग्ने रायो नृतमस्य प्रभूतौ । सङ्गतिं गोः । कृत्स्वरापवादः । तादौ किम् । प्रजल्पाकः । निति किम् । प्रकर्ता । तृजन्तः । अतौ किम् । आगन्तुः ॥ तवै चान्तश्च युगपत् ।।२।५१ ॥ तवैप्रत्ययान्तस्यान्त उदात्तो गतिश्चानन्तरः प्रकृत्या युगपञ्चैतदुभयं स्यात् । अन्वेतवा उ । कृत्वरापवादः ॥ अनिगन्तोऽश्चतौ वप्रत्यये ।६।२।५२ ॥ अनिगन्तो गतिर्वप्रत्ययान्तेऽञ्चतौ परे प्रकृत्या । ये पराञ्चस्तान् । अनिगन्त इति किम् ॥ प्रत्यञ्चो यन्तु । कृत्स्वरात्परत्वादयमेव । जहि वृष्ण्यानि कृणुही पराचः । वप्रत्यये किम् ॥ उदञ्चनम् ॥ न्यधी च ।६।२।५३ ॥ वप्रत्ययान्तेऽञ्चताविगन्तावपि न्यधी प्रकृत्या । न्यङ्ङ्कुत्तानः । उदात्तखरितयोर्यण इति अञ्चतेरकारः खरितः । अध्यङ् ॥ ईषदन्यतरस्याम् ।६।२।५४ ॥ ईषत्कडारः । ईषदित्ययमन्तोदात्तः । ईषद्भेद इत्यादौ कृत्स्वर एव ॥ हिरण्यपरिमाणं धने वारा५५ ॥ सुवर्णपरिमाणवाचि पूर्वपदं वा प्रकृत्या धने । द्वे सुवर्णे परिमाणमस्येति द्विसुवर्ण तदेव धनं द्विसुवर्णधनम् । बहुव्रीहावपि परत्वाद्विकल्प एव । हिरण्यं किम् । प्रस्थधनम् । परिमाणं किम् । काञ्चनधनम् । धने किम् । निष्कमाला ॥ प्रथमोऽचिरोपसम्पत्तौ ।।२।५६॥ प्रथमशब्दो वा प्रकृत्याऽभिनवत्वे । प्रथमवैयाकरणः । संप्रति व्याकरणमध्येतुं प्रवृत्त इत्यर्थः । प्रथमशब्दः प्रथेरमजन्तः । अचिरेति किम् । प्रथमो वैयाकरणः ॥ कतरकतमौ कर्मधारये ।६।२।५७ ॥ वा प्रकृत्या । कतरकठः। कर्मधारयग्रहणमुत्तरार्थम् । इह तु प्रतिपदोक्तत्वादेव सिद्धम् ॥ आर्यों ब्राह्मणकुमारयोः।६। ५८॥ आर्यकुमारः । आर्यब्राह्मणः । आर्यो ण्यदन्तत्वादन्तखरितः । आर्यः किम् । परमब्राह्मणः । ब्राह्मणादीति किम् । आर्यक्षत्रियः । कर्मधारय इत्येव ॥ राजा च ।६।। ५९॥ ब्राह्मणकुमारयोः परतो वा प्रकृत्या कर्मधारये । राजब्राह्मणः । राजकुमारः । योगविभाग उत्तरार्थः ॥ षष्ठी प्रत्येनसि ।६।२।६० ॥ षष्ठ्यन्तो राजा प्रत्यनसि परे वा प्रकृत्या । राजप्रत्येनाः । षष्ठी किम् । अन्यत्र न ॥ क्ते नित्यार्थे ।६।।६१॥ तान्ते परे नित्यार्थे समासे पूर्व वा प्रकृत्या । नित्यप्रहसितः । काला इति द्वितीयासमासोऽयम् । नित्यशब्दस्त्यबन्त आधुदात्तः । हसित इति थाथादिखरेणान्तोदात्तः । नित्यार्थे किम् ।