________________
३६२
सिद्धान्तकौमुद्याम्
प्रकृत्या । कार्तकौजपौ । कृतस्येदं कुजपस्येदमित्यण्णन्तावेतौ । सावर्णिमाण्डूकेयौ | महान् व्रीह्यपराह्णगृष्टीष्वासजाबाल भार भारत है लिहिलरौरवप्रवृद्धेषु |६| २|३८ ॥ महच्छब्दः प्रकृत्या व्रीह्यादिषु दशसु । महाव्रीहिः । महापराह्नः । महागृष्टिः । महेष्वासः । महाहैलिहिलः । महच्छब्दो ऽन्तोदात्तः । सन्महदिति प्रतिपदोक्तसमास एवायं स्वरः । नेह । महतो ब्रीहिर्महद्व्रीहिः ॥ क्षुल्लकच वैश्वदेवे |६|२३९ ॥ चान्महान् । क्षुल्लकवैश्वदेवम् । महावैश्वदेवम् । क्षुधं लातीति क्षुल्लः । तस्मादज्ञातादिषु केऽन्तोदात्तः ॥ उष्ट्रः सादिवाम्योः ।६।२।४० ॥ उष्ट्रसादी । उष्ट्रवामी । उषेः ष्ट्रनि उष्ट्रशब्द आद्युदात्तः ॥ गौः सादसादिसारथिषु ।६।२।४१ ॥ गोसादः । गोसादिः । गोसारथिः ॥ कुरुगार्हपतरिक्तगुर्व सूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूः पण्यकम्बलोदासीभाराणां च ॥६॥ २।४२ ॥ एषां सप्तानां समासानां दासीभारादेश्च पूर्वपदं प्रकृत्या । कुरूणां गार्हपतं कुरुगाई - पतम् । उप्रत्ययान्तः कुरुः ॥ वृजेरिति वाच्यम् ॥ वृजिगार्हपतम् । वृजिराद्युदात्तः । रिक्तो गुरुः रिक्तगुरुः । रिक्ते विभाषेति रिक्तशब्द आद्युदात्तः । असूता जरती असूतजरती । अश्लीला दृढरूपा अश्लीलदृढरूपा । अश्लीलशब्दो नञ्समासत्वादाद्युदात्तः । श्रीर्यस्यास्ति तत् श्लीलम् । सिध्मादित्वाल्लच् । कपिलकादित्वाल्लत्वम् । पारे वडवेव पारेवडवा । निपातनादिवार्थे समासो विभक्त्यलोपश्च । पारशब्दो घृतादित्वादन्तोदात्तः । तैतिलानां कद्रः तैतिलकद्रूः । तितिलिनोऽपत्यं छात्रो वा इत्यण्णन्तः । पण्यशब्दो यदन्तत्वादाद्युदात्तः पण्यकम्बलः संज्ञायामिति वक्तव्यम् * ॥ अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्वमेव । प्रतिपदोक्ते समासे कृत्या इत्येष खरो विहितः । दास्या भारो दासीभारः । देवहूतिः । तस्य तत्पुरुषस्य पूर्वपदप्रकृति - स्वरत्वमिष्यते न विशिष्यवचनं विहितं स सर्वोऽपि दासीभारादिषु द्रष्टव्यः ॥ स राये स पुरंध्याम् । पुरं शरीरं धीयतेऽस्यामिति कर्मण्यधिकरणे चेति किप्रत्ययः । अलुक् छान्दसः । नब्विषयस्येत्याद्युदात्तः पुरशब्दः ॥ चतुर्थी तदर्थे | ६ | २|४३ ॥ चतुर्थ्यन्तार्थाय यत्तद्वाचिन्युत्तरपदे चतुर्थ्यन्तं प्रकृत्या । यूपाय दारु यूपदारु || अर्थे | ६ | २|४४ ॥ अर्थे परे चतुर्थ्यन्तं प्रकृत्या । देवार्थम् ॥ ते च |६| २|४५ || कान्ते परे चतुर्थ्यन्तं प्रकृत्या । गोहितम् ॥ कर्मधारयेऽनिष्ठा | ६| २|४६ || कान्ते परे चतुर्थ्यन्तं प्रकृत्या । श्रेणिकृताः । श्रेणिशब्द आद्युदात्तः । पूगकृताः । पूगशब्दोऽन्तोदात्तः । कर्मधारये किम् । श्रेया कृतं श्रेणिकृतम् । अनिष्ठा किम् । कृताकृतम् || अहीने द्वितीया | ६| २|४७ || अहीनवा
कपिश्यापर्णेयाः, शैन्तिकाक्षपाञ्चालेयाः, कटुकवाधूयेयाः, शाकलकशुनकाः, शालशणकाः, शणकबाभ्रवाः, आचाभिमौद्गलाः, कुन्तिसुराष्ट्राः, चिन्तिसुराष्ट्राः, तण्डवतण्डाः, अविमत्तकामविद्धाः, बाभ्रवशालङ्कायनाः, बाभ्रवदानच्युताः, कठकालापाः, कठकौथुमाः, कौथुमलौकाक्षाः, स्त्रीकुमारम्, मौदपैप्पलादाः, वत्सजरन्तः, सौश्रुतपार्थिवाः, जरामृत्यू, याज्यानुवाक्ये । इति कार्तकौजपादयः ॥
१ दासीभारः, देवहूतिः, देववीतिः, देवलातिः, वसुनीतिः, औषधिः, चन्द्रमाः । इति दासीभारादिराकृतिगणः ॥ २ केचित्तु यस्य समासस्येति वदन्ति ॥