________________
समासखरप्रक्रिया ।
३६१ आदिः प्रत्येनसि ।६२२७ ॥ कुमारस्यादिरुदात्तः प्रत्येनसि परे कर्मधारये । प्रतिगतमेनोऽस्य प्रत्येनाः । कुमारप्रत्येनाः ॥ पूगेष्वन्यतरस्याम् ।६२।२८ ॥ पूगा गणास्तेषूक्तं वा । कुमारचातकाः । कुमारजीमूताः । आधुदात्तत्वाभावे कुमारश्चेत्येव भवति ॥ इगन्तकालकपालभगालशरावेषु द्विगौ ।६।।२९ ॥ एषु परेषु पूर्व प्रकृत्या । पञ्चारत्नयः प्रमाणमस्य पञ्चारनिः । दश मासान् भूतो दशमास्यः । पञ्चमासान् भूतः पञ्चमास्यः । तमधीष्ट इत्यधिकारे द्विगोर्यप् । पञ्चकपालः । पञ्चभगालः । पञ्चशरावः । त्रः संख्याया इति पञ्चन्शब्द आधुदात्तः । इगन्तादिषु किम् । पञ्चाश्वः । द्विगौ किम् । परमाऽरनिः ॥ बह्वन्यतरस्याम् ।६।३०॥ बहुशब्दस्तथा वा । बह्वरनिः । बहुमास्यः । बहुकपालः । बहुशब्दोऽन्तोदात्तः । तस्य यणि सत्युदात्तस्वरितयोरिति भवति ॥ दिष्टिवितस्त्योश्च ।६।२।३१ ॥ एतयोः परतः पूर्वपदं प्रकृत्या वा द्विगौ । पञ्चदिष्टिः । पञ्चवितस्तिः ॥ सप्तमी सिद्धशुष्कपकबन्धेष्वकालात् ।६।२।३२॥ अकालवाचि सप्तम्यन्तं प्रकृत्या सिद्धादिषु । साङ्काश्यसिद्धः । साङ्काश्येति ण्यन्तः । आतपशुष्कः । भ्राष्ट्रपक्कः । भ्राष्ट्रेति ष्ट्रन्नन्तः । चक्रबन्धः । चक्रशब्दोऽन्तोदात्तः । अकालात्किम् । पूर्वाह्रसिद्धः । कृत्वरेण बाधितः सप्तमीखरः प्रतिप्रसूयते ॥ परिप्रत्युपापा वय॑मानाऽहोरात्रावयवेषु ।६२३३ ॥ एते प्रकृत्या वय॑मानवाचिनि अहोरात्रावयववाचिनि चोत्तरपदे । परित्रिगर्त वृष्टो देवः । प्रतिपूर्वाह्नम् । प्रत्यपररात्रम् । उपपूर्वरात्रम् । अपत्रिगर्तम् । उपसर्गा आधुदात्ताः । बहुव्रीहितत्पुरुषयोः सिद्धत्वादव्ययीभावार्थमिदम् । अपपर्यो रेव वय॑मानमुत्तरपदम् । तयोरेव वय॑मानार्थत्वात् । अहोरात्रावयवा अपि वय॑माना एव तयोर्भवन्ति । वयेति किम् । अग्निं प्रति प्रत्यग्नि ॥ राजन्यबहुवचनद्वन्द्वन्धकवृष्णिषु ।६।२।३४ ॥ राजन्यवाचिनां बहुवचनान्तानामन्धकवृष्णिषु वर्तमाने द्वन्द्वे पूर्वपदं प्रकृत्या । श्वाफल्कचैत्रकाः । शिनिवासुदेवाः । शिनिरायुदात्तो लक्षणया तदपत्ये वर्तते । राजन्येति किम् । द्वैप्यभैमायनाः । द्वीपे भवा द्वैप्याः। भैमेरपत्यं युवा भैमायनः । अन्धकवृष्णय एते न तु राजन्याः । राजन्यग्रहणमिहाभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम् । नैते तथा । बहुवचनं किम् । संकर्षणवासुदेवौ । द्वन्द्वे किम् । वृष्णीनां कुमाराः वृष्णिकुमाराः । अन्धकवृष्णिषु किम् । कुरुपश्चालाः ॥ संख्या ।६२।३५ ॥ संख्यावाचि पूर्वपदं प्रकृत्या द्वन्द्वे । द्वादश । त्रयोदश । त्रेस्त्रयसादेश आधुदात्तो निपात्यते ॥ आचार्योपसर्जनश्चान्तेवासी ।।२।३६ ॥ आचार्योपसर्जनान्तेवासिनां द्वन्द्वे पूर्वपदं प्रकृत्या । पाणिनीयरौढीयाः । छखरेण मध्योदात्तावेतौ ॥ आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणम् ॥ सकलो द्वन्द्व आचार्योपसर्जनो यथा विज्ञायेत । तेनेह न । पाणिनीयदेवदत्तौ । आचार्येति किम् । छान्दसवैयाकरणाः । अन्तेवासी किम् । आपिशलपाणिनीये शास्त्रे ॥ कोर्तकौजपादयश्च ।६।२।३७ ॥ एषां द्वन्द्वे पूर्वपदं
१ क्वचिदन्तोदात्त इत्यपि पाठः ॥ २ कार्तकोजपौ, सावर्णिमाण्डूकेयौ, अवन्त्यश्मकाः, पैलइमापर्णेयाः,