________________
३६०
सिद्धान्तकौमुद्याम् मात्रचो लुक् । प्राच्यशब्द आधुदात्तः । प्राच्यश्चासौ सप्तसमश्च प्राच्यसप्तसमः । द्विगौ किम् । व्रीहिप्रस्थः । प्रमाणे किम् । परमसप्तसमम् ॥ गन्तव्यपण्यं वाणिजे ।६।२। १३ ॥ वाणिजशब्दे परे तत्पुरुषे गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिवरम् । मद्रवाणिजः । गोवाणिजः । सप्तमीसमासः । मद्रशब्दो रक्प्रत्ययान्तः । गन्तव्येति किम् । परमवाणिजः ॥ मात्रोपज्ञोपक्रमच्छाये नपुंसके ।६।२।१४ ॥ मात्रादिषु परतो नपुंसकवाचिनि तत्पुरुषे तथा । भिक्षायास्तुल्यप्रमाणं भिक्षामात्रम् । भिक्षाशब्दो गुरोश्च हल इत्यप्रत्ययान्तः । पाणिन्युपज्ञम् । पाणिनिशब्द आधुदात्तः । नन्दोपक्रमम् । नन्दशब्दः पचाद्यजन्तः । इषुच्छायम् । इषुशब्द आधुदात्तो नित्त्वात् । नपुंसके किम् । कुड्यच्छाया ॥ सुखप्रिययोहिते ।।२।१५ ॥ एतयोः परयोर्हितवाचिनि तत्पुरुषे तथा । गमनप्रियम् । गमनसुखम् । गमनशब्दे लित्स्वरः । हिते किम् । परमसुखम् ॥ प्रीतौ च ।६।२।१६॥ प्रीतौ गम्यायां प्रागुक्तम् । ब्राह्मणसुखं पायसम् । छात्रप्रियोऽनध्यायः । ब्राह्मणछात्रशब्दौ प्रत्ययवरेणान्तोदात्तौ । प्रीतौ किम् । राजसुखम् ॥ खं स्वामिनि ।६।२।१७॥ स्वामिशब्दे परे खवाचि पूर्वपदं तथा । गोखामी । खं किम् । परमखामी ॥ पत्यावैश्वर्ये ।६।२।१८॥ दमूना गृहपतिर्दमे ॥ न भूवाक्चिदिधिषु ।६।२।१९ ॥ पतिशब्दे परे ऐश्वर्यवाचिनि तत्पुरुषे नैतानि प्रकृत्या । भुवः पतिर्भूपतिः । वाक्पतिः । चित्पतिः। दिधिषूपतिः ॥ वा भुवनम् ।६।२।२० ॥ उक्तविषये । भुवनपतिः । भूसूधूभ्रस्जिभ्य इति क्युन्नन्तो भुवनशब्दः ॥ आशङ्काऽबाधनेदीयस्सु संभावने ।६।२।२१ ।। अस्तित्वाध्यवसायः संभावनम् । गमनाशङ्कमस्ति । गमनाबाधम् । गमननेदीयः । गमनमाशक्यते आबाध्यते निकटतरमिति वा संभाव्यते । संभावने किम् । परमनेदीयः ॥ पूर्वे भूतपूर्वे ।६।२।२२॥ आढ्यो भूतपूर्वः आढ्यपूर्वः । पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते । भूतपूर्वे किम् । परमपूर्वः ॥ सविधसनीडसमादसवेशसदेशेषु सामीप्ये ।६।२।२३ ॥ एषु पूर्व प्रकृत्या । मद्रसविधम् । गान्धारसनीडम् । काश्मीरसमर्यादम् । मद्रसवेशम् । मद्रसदेशम् । सामीप्ये किम् । सह मर्यादया समर्यादं क्षेत्रम् । चैत्रसमर्यादम् ॥ विस्पष्टादीनि गुणवचनेषु ।६२।२४ ॥ विस्पष्टकटुकम् । विस्पष्टशब्दो गतिरनन्तर इत्याद्युदात्तः । विस्पष्टेति किम् । परमलवणम् । गुणेति किम् । विस्पष्टब्राह्मणः । विस्पष्ट । विचित्र । व्यक्त । संपन्न । पण्डित । कुशल । चपल । निपुण ॥ श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये ।।२।२५ ॥ श्र ज्य कन् इत्यादेशवति अवमशब्दे पापशब्दवति चोत्तरपदे भाववाचि पूर्वपदं प्रकृत्या । गमनश्रेष्ठम् । गमनज्यायः । गमनावमम् । गमनकनिष्ठम् । गमनपापिष्ठम् । श्रेत्यादि किम्'। गमनशोभनम् । भावे किम् । गम्यतेऽनेनेति गमनम् । गमनं श्रेयो गमनश्रेयः । केति किम् । षष्ठीसमासे मा भूत् ॥ कुमारश्च ।६।।२६ ॥ कर्मधारये । कुमारश्रमणा । कुमारशब्दोऽन्तोदात्तः ।
HTHHTHHTHH