________________
प्रातिपदिकखरप्रक्रिया ।
३५९ तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः ।।२।२॥ सप्तैते पूर्वपदभूतास्तत्पुरुषे प्रकृत्या । तुल्यश्वेतः । कृत्यतुल्याख्या अजात्येति तत्पुरुषः । किरिणा काणः किरिकाणः । पतयन्मन्दयत्सखम् । मन्दयति मादके इन्द्रे सखेति सप्तमीतत्पुरुषः । शस्त्रीश्यामा ॥ अव्यये नकुनिपातानाम् * ॥ अयज्ञो वा एषः । परिगणनं किम् । खात्वाकालकः । मुहूर्तसुखम् । भोज्योष्णम् ॥ वर्णों वर्णेष्वनेते ।६२।३ ॥ वर्णवाचिन्युत्तरपदे एतवर्जिते वर्णवाचि पूर्वपदं प्रकृत्या तत्पुरुषे । कृष्णसारङ्गः। लोहितकल्माषः । कृष्णशब्दो नक्प्रत्ययान्तः । लोहितशब्द इतन्नन्तः । वर्णः किम् । परमकृष्णः । वर्णेषु किम् । कृष्णतिलाः । अनेते किम् । कृष्णैतः ॥ गाधलवणयोः प्रमाणे ।६।।४॥ एतयोरुत्तरपदयोः प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या स्यात् । अरित्रगाधमुदकम् । तत्प्रमाणमित्यर्थः । गोलवणम् । यावद्वे दीयते तावदित्यर्थः । अरित्रशब्द इत्रान्तो मध्योदात्तः । प्रमाणमियत्ता परिच्छेदमानं न पुनरायाम एव । प्रमाणे किम् । परमगाधम् ॥ दायाचं दायादे।६।२।५॥ तत्पुरुषे प्रकृत्या । धनदायादः । धनशब्दः क्युप्रत्ययान्तः प्रत्ययवरेणायुदात्तः । दायाद्यं किम् । परमदायादः ॥ प्रतिबन्धि चिरकृच्छ्रयोः।६।२६॥ प्रतिबन्धवाचि पूर्वपदं प्रकृत्या एतयोः परतस्तत्पुरुषे । गमनचिरम् । व्याहरणकृच्छ्रम् । गमनं कारणविकलतया चिरकालभावि कृच्छ्योगि च प्रतिबन्धि जायते । प्रतिबन्धि किम् । मूत्रकृच्छ्रम् ॥ पदेऽपदेशे ।६।२७ ॥ व्याजवाचिनि पदशब्द उत्तरपदे पूर्वपदं प्रकृत्या तत्पुरुषे । मूत्रपदेन प्रस्थितः । उच्चारपदेन । मूत्रशब्दो घञन्तः । उच्चारशब्दो घान्तस्थाथादिखरेणान्तोदात्तः । अपदेशे किम् । विष्णुपदम् ॥ निवाते वातत्राणे ।६।२।८ ॥ निवातशब्दे परे वातत्राणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या । कुटीनिवातम् । कुड्यनिवातम् । कुटीशब्दो गौरादिङीषन्तः । कुड्यशब्दो ड्यगन्तः । यगन्त इत्यन्ये । वातत्राणे किम् । राजनिवाते वसति । निवातशब्दोऽयं रूढः पार्थे ॥ शारदेऽनातवे ।।२।९॥ ऋतौ भवमार्तवम् । तदन्यवाचिनि शारदशब्दे परे तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यात् । रज्जुशारदमुदकम् । शारदशब्दो नूतनार्थः । तस्याखपदविग्रहः । रज्जोः सद्य उद्धृतम् । रज्जुशब्दः सृजेरसुम्चेत्याद्युदात्तो व्युत्पादितः । अनातवे किम् । उत्तमशारदम् ॥ अध्वर्युकषाययोर्जातो ।६।१० ॥ एतयोः परतो जातिवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिवरम् । कठाध्वर्युः । दौवारिककषायम् । कठशब्दः पचाद्यजन्तः । तस्माद्वैशम्पायनान्तेवासिभ्यश्चेति णिनेः कठचरकाल्लुगिति लुक् । द्वारि नियुक्त इति ठक्यन्तोदात्तो दौवारिकशब्दः । जातौ किम् । परमाध्वर्युः ॥ सदृशप्रतिरूपयोः सादृश्ये ।६।२।११ ॥ अनयोः पूर्व प्रकृत्या । पितृसदृशः । सादृश्ये किम् । परमसदृशः। समासार्थोऽत्र पूज्यमानता न सादृश्यम् ॥ द्विगौ प्रमाणे ।६।२।१२ ॥ द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिखरम् । प्राच्यसप्तसमः । सप्त समाः प्रमाणमस्य । प्रमाणे लो द्विगोर्नित्यमिति