________________
३५८
सिद्धान्तकौमुद्याम् विभक्तिश्च उदात्ता स्यात् । चोदयित्री सूनृतानाम् । एषा नेत्री । ऋतं देवाय कृण्वते सवित्रे ॥ नोधात्वोः ।।१९७५ ॥ अनयोर्यणः परे शसादय उदात्ता न स्युः । ब्रह्मबन्ध्वा । सेत्पृश्निः सुभ्वे ॥ हवनुभ्यां मतुप।६।१।१७६॥ हखान्तादन्तोदात्तान्नुटश्च परो मतुबुदात्तः । यो अब्दिमाँ उदनिमाँ इयर्ति । नुटः । अक्षण्वन्तः कर्णवन्तः सखायः । अन्तोदात्तात्किम् । मा त्वा विददिषुमान् । स्वरविधौ व्यञ्जनमविद्यमानवदित्येतदत्र न । मरुत्वानिन्द्र । नियुत्वान्वायवागहि ॥ रेशब्दाच्च ॐ ॥ रेवाँ इद्रेवतः ॥ नामन्यतरस्याम् ।६।१।१७७ ॥ मतुपि यो हवस्तदन्तादन्तोदात्तात्परो नामुदात्तो वा । चेतन्ती सुमतीनाम् ॥ ङयाश्छन्दसि बहुलम् ।६।१।१७८ ॥ ड्याः परो नामुदात्तो वा । देवसेनानामभिभञ्जतीनाम् । वेत्युक्तेर्नेह । जयन्तीनां मरुतो यन्तु ॥ षनिचतुभ्यो हलादिः ।६।१।१७९ ॥ एभ्यो हलादिर्विभक्तिरुदात्ता । अषनिहूयमानः । त्रिभिष्ट्वं देव ॥ न गोश्वन्साववर्णराडक्रुकृद्भयः ।।१।१८२ ॥ एभ्यः प्रागुक्तं न । गवां शता । गोभ्यो गातुम् । शुनश्चिच्छेपम् । सौ प्रथमैकवचने अवर्णान्तात् । तेभ्यो द्युम्नम् । तेषां पाहि श्रुधी हवम् ॥ दिवो झलू ।६।१।१८३ ॥ दिवः परा झलादिर्विभक्तिर्नोदात्ता । द्युभिरक्तुभिः । झलिति किम् । उप त्वामे दिवेदिवे ॥ न चान्यतरस्याम् ।६।१।१८४ ॥ नुः परा झलादिर्विभक्तिर्वोदात्ता । नृभिर्यमानः ॥ तित्वरितम् ।६।१।१८५ ॥ निगदव्याख्यातम् क नूनम् ॥ तास्यनुदात्तेन्डिन्ददुपदेशालसार्वधातुकमनुदात्तमन्विङोः।६।१।१८६ ॥ अस्मात्परं लसार्वधातुकमनुदात्तं स्यात् । तासि । कर्ता । कर्तारौ । कर्तारः । प्रत्ययखरापवादोऽयम् । अनुदात्तेत् । य आस्ते । ङितः । अभिचष्टे अनृतेभिः । अदुपदेशात् । पुरुभुजा जनस्यतम् । चित्स्वरोऽप्यनेन बाध्यते । वर्धमानं खे दमे । तास्यादिभ्यः किम् । अभि वृधे गृणीतः । उपदेशग्रहणान्नेह । हतो वृत्राण्यार्या । लग्रहणं किम् । कतीह पचमानाः । सार्वधातुकं किम् । शिश्ये । अन्बिङोः किम् । हुते । यदधीते ॥ विन्दीन्धिखिदिभ्यो नेति वक्तव्यम् * ॥ इन्धे राजा । एतच्चानुदात्तस्य च यत्रेति सूत्रे भाष्ये स्थितम् ॥ आदिः सिचोऽन्यतरस्याम् ।६१।१८७ ॥ सिजन्तस्यादिरुदात्तो वा । यासिष्टं वर्तिरश्विना ॥ थलि च सेटीडन्तो वा ।६।१।१९६॥ सेटि थलन्ते पदे इडुदात्तः अन्तो वा आदिर्वा स्यात् । यदा नैते त्रयस्तदा लितीति प्रत्ययात्पूर्वमुदात्तं स्यात् । लुलविथ । अत्र चत्वारोऽपि पर्यायेणोदात्ताः ॥ उपोत्तमं रिति ।।१।२१७॥ रित्प्रत्ययान्तस्योपोत्तममुदात्तं स्यात् । यदाहवनीये ।।
॥ इति प्रत्ययस्वराः॥ समासस्य ।।१।२२३ ॥ अन्त उदात्तः स्यात् । यज्ञश्रियम् ॥ बहुव्रीहौ प्रकृत्या पूर्वपदम् ।६।२।१ ॥ उदात्तखरितयोगि पूर्वपदं प्रकृत्या स्यात् । सत्यश्चित्रश्रवस्तमः । उदात्तेत्यादि किम् । सर्वानुदात्ते पूर्वपदे समासान्तोदात्तत्वमेव यथा स्यात् । समपादः ॥