________________
३५६
सिद्धान्तकौमुद्याम्
वरूढ इत्यादि ॥ छन्दसि च ॥ अमकराद्यर्थ आरम्भः । लक्ष्यानुसारादादिद्वितीयं चोदात्तं ज्ञेयम् || कर्दमादीनां च ॥ आदिर्द्वितीयं वोदात्तम् ॥ सुगन्धितेजनस्य ते वा ॥ आदिर्द्वितीयं तेशब्दश्चेति त्रयः पर्यायेणोदात्ताः । सुगन्धितेजनाः ॥ नपः फलान्तानाम् ॥ आदिर्द्वितीयं वोदात्तम् । राजादनफलम् ॥ यान्तस्यान्त्यात्पूर्वम् ॥ कुलायः ॥ थान्तस्य च नालघुनी ॥ नाशब्दो लघु च उदात्ते स्तः । सनाथा सभा ॥ शिंशुमा रोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च ॥ अन्त्यात्पूर्वमुदात्तं द्वितीयं वा ॥ साङ्काश्यकाम्पिल्यनासिक्यदार्वाघाटानाम् ॥ द्वितीयमुदात्तं वा ॥ ईषान्तस्य हयादेरादिर्वा ॥ हलीषा । लाङ्गलीषा || उशीरदाशेरकपालपलालशैवालश्यामाकशारीशराव हृदयहिरण्यारण्यापत्यदेवराणाम् ॥ एषामादिरुदात्तः स्यात् ॥ महिorषाढयोजयेष्टकाख्या चेत् ॥ आदिरुदात्तः । महिषी जाया । अषाढा उपदधाति ॥ ॥ इति फिट्सूत्रेषु तृतीयः पादः ॥
शकशिकट्योरक्षरमक्षरं पर्यायेण ॥ उदात्तम् । शकटिः । शकटी ॥ गोष्टजस्य ब्राह्मणनामधेयस्य ॥ अक्षरमक्षरं पर्यायेणोदात्तम् । गोष्ठजो ब्राह्मणः । अन्यत्र गोष्ठजः पशुः । कृदुत्तरपदप्रकृतिखरेणान्तोदात्तः ॥ पारावतस्योपोत्तमवर्जम् ॥ शेषं क्रमेणोदात्तम् । पारावतः ॥ धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम् ॥ एषां चतुर्णां धूप्रभृतींश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि । धूम्रजानुः । मुञ्जकेशः । कालवालः । स्थालीपाकः ॥ कपिकेश हरिकेश यो इछन्दसि ॥ कपिकेशः । हरिकेशः ॥ न्यङ्खरौ खरितौ ॥ स्पष्टम् । न्यङ्ङुत्तानः ॥ व्यचक्षयत्खः ॥ न्यर्बुदव्यल्कशयोरादिः॥ स्वरितः स्यात् ॥ तिल्यशिक्यकाश्मर्यधान्यकन्याराजमनुष्याणामन्तः ॥ खरितः स्यात् । तिलानां भवनं क्षेत्रं तिल्यम् । यतोऽनाव इति प्राप्ते || बिल्वभक्ष्यवीर्याणि छन्दसि ॥ अन्तखरितानि ।। न नो बिल्व उदतिष्ठत् ॥ त्वत्त्वसमसिमेत्यनुच्चानि ॥ स्तरीरुत्वत् । उत त्वः पश्यन् । नभन्तामन्यके समे । सिमस्मै ॥ सिमस्याथर्वणेऽन्त उदात्तः ॥ अथर्वण इति प्रायिकम् । तत्र दृष्टस्येत्येवंपरं वा । तेन वासस्तनुते सिमस्मै इत्यृग्वेदेऽपि भवत्येव || निपाता आद्युदात्ताः ॥ खाहा ॥ उपसर्गाश्चाभिवर्जम् ॥ एवादीनामन्तः ॥ एवमादीनामिति पाठान्तरम् । एव एवम् नूनम् सह । ते मित्र सूरिभिः सह । षष्ठस्य तृतीये सहस्य स इति प्रकरणे सहशब्द आद्युदात्त इति प्राञ्चः । तच्चिन्त्यम् || वाचादीनामुभावुदात्तौ ॥ उभौग्रहणमनुदात्तं पदमेकवर्जमित्यस्य बाधाय ॥ चादयोऽनुदात्ताः ॥ स्पष्टम् ॥ यथेति पादान्ते ॥ तन्नेमिमृभवो यथा । पादान्ते किम् । यथा नो अदितिः करत् ॥ प्रकारा
१ क्वचित् आन्तस्येति पाठः ॥ २ शिंशुमारेति पाठान्तरम् । उष्टरिति रेफवर्जितमपि ॥