________________
३५४
सिद्धान्तकौमुद्याम् पदप्रकृतिखरोऽत्र बाध्यत इत्याहुः । थाथादिसूत्रेण गतार्थमेतत् ॥ दक्षिणस्य साधौ ॥ अन्त उदात्तः स्यात् । साधुवाचित्वाभावे तु व्यवस्थायां सर्वनामतया खाङ्गशिटामित्यायुदात्तः । अर्थान्तरे तु लघावन्त इति गुरुरुदात्तः । दक्षिणः सरलोदारपरच्छन्दानुवर्तिष्विति कोशः। खाङ्गाख्यायामादिवों ॥ इह दक्षिणस्याद्यन्तौ पर्यायेणोदात्तौ स्तः । दक्षिणो बाहुः । आख्याग्रहणं किम् । प्रत्यङ्मुखस्यासीनस्य वामपाणिर्दक्षिणो भवति ॥ छन्दसि च ॥ अस्वाङ्गार्थमिदम् । दक्षिणः । इह पर्यायेणाद्यन्तावुदात्तौ ॥ कृष्णस्यामृगाख्या चेत् ॥ अन्त उदात्तः । वर्णानां तणेत्याद्युदात्तत्वे प्राप्ते अन्तोदात्तो विधीयते । कृष्णानां ब्रीही. णाम् । कृष्णो नो नाव वृषभः । मृगाख्यायां तु । कृष्णो रात्र्यै ॥ वा नामधेयस्य । कृष्णस्येत्येव । अयं वां कृष्णो अश्विना । कृष्ण ऋषिः ॥ शुक्लगौरयोरादिः॥ नित्यमुदात्तः स्यादित्येके । वेत्यनुवर्तत इति तु युक्तम् ॥ सरो गौरो यथा पिबेत्यत्रान्तोदात्तदर्शनात् ॥ अङ्गुष्ठोदकबकवशानां छन्दस्यन्तः ॥ अङ्गुष्ठस्य खाङ्गानामकुर्वादीनामिति द्वितीयस्योदात्तत्वे प्राप्तेऽन्तोदात्तार्थ आरम्भः । वशाग्रहणं नियमार्थ छन्दस्येवेति । तेन लोके आधुदात्ततेत्याहुः ॥ पृष्ठस्य च ॥ छन्दस्यन्त उदात्तः स्याद्वा भाषायाम् ॥ पृष्ठम् ॥ अर्जुनस्य तृणाख्या चेत् ॥ उनर्वन्नन्तानामित्याद्युदात्तस्यापवादः ॥ आर्यस्य वाम्याख्या चेत् ॥ यान्तस्यान्त्यात्पूर्वमिति यतोऽनाव इति वायुदात्ते प्राप्ते वचनम् ॥ आशाया अदिगाख्या चेत् ॥ दिगाख्याव्यावृत्त्यर्थमिदम् । अत एव ज्ञापकादिक्पर्यायस्याद्युदात्तता । इन्द्र आशाभ्यस्परि ॥ नक्षत्राणामाविषयाणाम् ॥ अन्त उदात्तः स्यात् । आश्लेपाऽनुराधादीनां लघावन्त इति प्राप्ते । ज्येष्ठाश्रविष्ठाधनिष्ठानामिष्ठन्नन्तत्वेनाद्युदात्ते प्राप्ते वचनम् ॥ न कुपूर्वस्य कृत्तिकाख्या चेत् ॥ अन्त उदात्तो न । कृत्तिका नक्षत्रम् । केचित्तु कुपूर्वो य आप तद्विषयाणामिति व्याख्याय आर्यिका बहुलिका इत्यत्राप्यन्तोदात्तो नेत्याहुः ॥ घृतादीनां च ॥ अन्त उदात्तः । घृतं मिमिक्षे । आकृतिगणोऽयम् ॥ ज्येष्ठकनिष्ठयोर्वयसि ॥ अन्त उदात्तः स्यात् । ज्येष्ठ आह चमसा । कनिष्ठ आह चतुरः । वयसि किम् । ज्येष्ठः । श्रेष्ठः । कनिष्ठोऽल्पिकः । इह नित्त्वादाद्युदात्त एव ॥ बिल्वतिध्ययोः खरितो वा ॥ अनयोरन्तः खरितो वा स्यात् । पक्षे उदात्तः ॥
॥ इति फिट्सूत्रेषु प्रथमः पादः॥ अथादिः प्राक् शकटेः॥ अधिकारोऽयम् । शकटिशकट्योरिति यावत् ॥ हस्खा न्तस्य स्त्रीविषयस्य ॥ आदिरुदात्तः स्यात् । बलिः । तनुः ॥ नविषयस्यानिस न्तस्य ॥ वने न वायः । इसन्तस्य तु सर्पिः । नप नपुंसकम् ॥ तृणधान्यानां च यषाम् ॥ व्यचामित्यर्थः । कुशाः । काशाः । माषाः । तिलाः । बढ्चां तु गोधूमाः ॥ त्रः संख्यायाः॥ पञ्च । चत्वारः ॥ स्वाङ्गशिटामदन्तानाम्॥ शिट् सर्वनाम । कर्णाभ्यां छुबुकादधि । ओष्ठाविव मधु । विश्वो विहायाः ॥ प्राणिनां कुपूर्वम् ॥ कवर्गात्पूर्व