________________
खरप्रक्रियायां फिटसूत्राणि ।
३५३ पवताम् ॥ यतोऽनावः ।।१।२१३ ॥ यत्प्रत्ययान्तस्य व्यच आदिरुदात्तो नावं विना । युञ्जन्त्यस्य काम्या । कमेर्णिङन्तादचो यत् [ अनावः किम् । नवतिं नाव्यानाम् ] ईडवन्दवृशंसदहां ण्यतः।।१।२१४॥ एषां ण्यदन्तानामादिरुदात्तः । ईड्यो नूतनैरुत । आजुह्वान ईड्यो वन्द्यश्च । श्रेष्ठं नो धेहि वार्यम् । उक्थमिन्द्राय शंस्यम् ॥ विभाषा वेण्विन्धानयोः।६।१।२१५॥ आदिरुदात्तो वा । इन्धानो अमिम् ॥ त्यागरागहासकुहश्वठक्रथानाम् ।६।१।२१६ ॥ आदिरुदात्तो वा । आद्यास्त्रयो घान्ताः । त्रयः पचाद्यजन्ताः ॥ मतोः पूर्वमात्संज्ञायां स्त्रियाम् ।६।१।२१९ ॥ मतोः पूर्वमाकार उदात्तः स्त्रीनान्नि। उदुम्बरावती। शरावती ॥ अतोऽवत्याः ।६।१।२२०॥ अवतीशब्दस्यान्त उदात्तः । वेत्रवती। ङीषः षित्त्वादनुदात्तत्वं प्राप्तम् ॥ ईवत्याः ।।१।२२१॥ ईवत्यन्तस्यापि प्राग्वत् । अहीवती । मुनीवती ॥
॥अथ फिट्सूत्राणि ॥ फिषोऽन्त उदात्तः॥ प्रातिपदिकं फिट तस्यान्त उदात्तः स्यात् । उच्चैः ॥ पाटलापालङ्काम्बासागरार्थानाम् ॥ एतदर्थानामन्त उदात्तः । पाटला, फलेरुहा, सुरूपा, पाकलेति पर्यायाः । लघावन्त इति प्राप्ते । अपालङ्क, व्याधिघात, आरेवत, आरग्वधेति पर्यायाः । अम्बार्थः माता । उनर्वन्नन्तानामित्याद्युदात्तत्वे प्राप्ते । सागरः । समुद्रः ॥ गेहा
र्थानामस्त्रियाम् ॥ गेहम् । नबिषयस्येति प्राप्ते । अस्त्रियां किम् । शाला । आधुदात्तोऽयम् । इहैव पर्युदासाज्ज्ञापकात् ॥ गुदस्य च ॥ अन्त उदात्तः स्यान्न तु स्त्रियाम् । गुदम् । अस्त्रियां किम् । आन्त्रेभ्यस्ते गुदाभ्यः । स्वाङ्गशिटामदन्तानामित्यन्तरङ्गमायुदात्तत्वम् । ततष्टाप् ॥ ध्यपूर्वस्य स्त्रीविषयस्य ॥धकारयकारपूर्वो योऽन्त्योऽच् स उदात्तः । अन्तर्धा । स्त्रीविषयवर्णनानामिति प्राप्ते । छाया । माया । जाया । यान्तस्यान्त्यात्पूर्वमित्याद्युदात्तत्वे प्राप्ते । स्त्रीति किम् । बाह्यम् । यजन्तत्वादाद्युदात्तत्वम् । विषयग्रहणं किम् । इभ्या । क्षत्रिया । यतोऽनाव इत्याधुदात्त इभ्यशब्दः । क्षत्रियशब्दस्तु यान्तस्यान्त्यात्पूर्वमिति मध्योदात्तः ॥ खान्तस्याश्मादेः॥ नखम् । उखा । सुखम् । दुःखम् । नखस्य खाङ्गशिटामित्यायुदात्तत्वे प्राप्ते । उखा नाम भाण्ड विशेषः । तस्य कृत्रिमत्वात्खय्युवर्ण कृत्रिमाख्या चेदित्युवर्णस्योदात्तत्वे प्राप्ते । सुखदुःखयोर्नविषयस्येति प्राप्ते । अश्मादेः किम् । शिखा । मुखम् । मुखस्य खाङ्गशिटामिति नबिषयस्येति वा आद्युदात्तत्वम् । शिखायास्तु शीङः खो निद्रखश्चेति उणादिषु नित्त्वोक्तेरन्तरङ्गत्वाट्टापः प्रागेव खाङ्गशिटामिति वा बोध्यम् ॥ हिष्टवत्सरतिशत्थान्तानाम् ॥ एषामन्त उदात्तः स्यात् । अतिशयेन बहुलो बंहिष्ठः । नित्त्वादायुदात्तत्वे प्राप्ते । बंहिष्ठरश्वैः सुवृता रथेन । यद्वंहिष्ठं नातिविधे । इत्यादौ व्यत्ययादाद्युदात्तः । संवत्सरः । अव्ययपूर्वपदप्रकृतिखरोऽत्र बाध्यते इत्याहुः । सप्ततिः । अशीतिः । लघावन्त इति प्राप्ते । चत्वारिंशत् । इहापि प्राग्वत् । अभ्यूर्वाना प्रभृथस्यायोः । अव्ययपूर्व
१ केचित्तु पूर्व आदिति पुंलिङ्गं पठन्ति ॥