________________
३५२
सिद्धान्तकौमुद्याम् उदुत्तमं वरुण । शश्वत्तममीळते ॥ चतुरः शसि ।।११६७ ॥ चतुरोऽन्त उदात्तः शसि परे । चतुरः कल्पयन्तः । अचि र इति रादेशस्य पूर्वविधौ स्थानिवत्त्वान्नेह । चतस्रः पश्य। चतेरुरन् । नित्त्वादाद्युदात्तता ॥ झल्युपोत्तमम् ।६।१।१८०॥ षट्त्रिचतुर्यो या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं स्यात् । अध्वर्युभिः पञ्चभिः नवभिः । नवभिर्वाजैनवती च । सप्तभ्यो जायमानः । आदशभिर्विवखतः । उपोत्तमं किम् । आ षडिईयमानः । विश्वैदेवैस्त्रिभिः । झलि किम् । नवानां नवतीनाम् ॥ विभाषा भाषायाम् ।६।१।१८१॥ उक्तविषये ॥ सर्वस्य सुपि ।६।१११९१ ॥ सुपि परे सर्वशब्दस्यादिरुदात्तः स्यात् । सर्वे नन्दन्ति यशसा ॥ नित्यादिनित्यम् ।६।१।१९७ ॥ जिदन्तस्य निदन्तस्य चादिरुदात्तः स्यात् । यस्मिन्विश्वानि पौंस्या । पुंसः कर्मणि ब्राह्मणादित्वात् प्यञ् । सुते दधिप्व नश्चनः । चायतेरसुन् । चायेरन्ने हखश्चेति चकारादसुनो नुडागमश्च ॥ पथिमथोः सर्वनामस्थाने ।६।१।१९९ ॥ आदिरुदात्तः स्यात् । अयं पन्थाः । सर्वनामस्थाने किम् । ज्योतिष्मतः पथो रक्ष । उदात्तनिवृत्तिखरेणान्तोदात्तं पदम् ॥ अन्तश्च तवै युगपत् ।६।१।२०० ॥ तवैप्रत्ययान्तस्याद्यन्तौ युगपदाद्युदात्तौ स्तः । हर्षसे दातवा उ ॥ क्षयो निवासे ।६।१। २०१॥ आधुदात्तः स्यात् । खे क्षये शुचिव्रत ॥ जयः करणम् ।६।१।२०२॥ करणवाची जयशब्द आधुदात्तः स्यात् । जयत्यनेन जयोऽश्वः ॥ वृषादीनां च ।६।१। २०३ ॥ आदिरुदात्तः । आकृतिगणोऽयम् । वाजेभिर्वाजिनीवती। इन्द्रं वाणीः ॥ संज्ञायामुपमानम् ।६।१।२०४ ॥ उपमानशब्दः संज्ञायामाद्युदात्तः । चञ्चेव चञ्चा। कनोऽत्र लुप् । एतदेव ज्ञापयति क्वचित्खरविधौ प्रत्ययलक्षणं नेति । संज्ञायां किम् । अमिर्माणवकः । उपमानं किम् । चैत्रः ॥ निष्ठा च यजनात् ।६।१।२०५ ॥ निष्ठान्तस्य यचः संज्ञायामादिरुदात्तो न त्वाकारः । दत्तः । ब्यच् किम् । चिन्तितः । अनात्किम् । त्रातः । संज्ञायामित्यनुवृत्तेर्नेह । कृतम् । हृतम् ॥ शुष्कधृष्टौ ।६।१।२०६ ॥ एतावाद्युदात्तौ स्तः । असंज्ञार्थमिदम् । अतसं न शुष्कम् ॥ आशितः कर्ता ।६।१।२०७॥ कर्तृवाची आशितशब्द आधुदात्तः । कृषन्नित्फाल आशितम् ॥ रिक्ते विभाषा ।६१।२०८॥ रिक्तशब्दे वाऽऽदिरुदात्तः । रिक्तः । संज्ञायां तु निष्ठा च यजनादिति नित्यमायुदात्तत्वं पूर्वविप्रतिषेधेन ॥ जुष्टार्पिते च छन्दसि ।६।१।२०९॥ आधुदात्ते वा स्तः ॥ नित्यं मन्त्रे ।६।१।२१०॥ एतत्सूत्रं शक्यमकर्तुम् । जुष्टो दमूनाः । षळर आहुरर्पितमित्यादेः पूर्वणैव सिद्धेः छन्दसि पाठस्य व्यवस्थिततया विपरीतापादनायोगात् । अर्पिताः षष्टिर्न चला चलास इत्यत्रान्तोदात्तदर्शनाच्च ॥ युष्मदस्मदोर्डसि ।।१।२११ ॥ आदिरुदात्तः स्यात् । नहिषस्तव नो मम ॥ अयि च ।।१।२१२ ॥ तुभ्यं हिन्वानः । मह्यं वातः
१ वृषः, जनः, ज्वरः, ग्रहः, हयः, गयः, नयः, तायः, तयः, चयः, श्रमः, वेदः, सूदः, अंशु, गुहा, शमरमी संज्ञायां भावकर्मणोः, मज्लः, शान्तिः, कामः, यामः, आरा, धारा, कारा, वहः, कल्पः, पादः,। इति वृषादिः॥